4-4-76 तत् वहति रथयुगप्रासङ्गम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् यत्
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
'तत् रथ-युग-प्रासङ्गम् वहति' (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
'वहति' अस्मिन् अर्थे द्वितीयासमर्थात् रथशब्दात्, युगशब्दात्, प्रासङ्गशब्दात् च यत्-प्रत्ययः भवति ।
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
रथ्यः। युग्यः। प्रासङ्ग्यः। तद्वहति रथयुगप्रासङ्गम् 4.4.76। तदिति द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः। रथसीताहलेभ्यो यद् विधौ इति तदनतविध्युपसङ्ख्यानात् परमरथ्यः इत्यपि भवति।
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
'वहति' अस्मिन् अर्थे वाहकस्य निर्देशं कर्तुम् रथशब्दात्, युगशब्दात्, प्रासङ्गशब्दात् च यत्-प्रत्ययः भवति । यथा -
रथम् वहतिः सः रथ्यः अश्वः ।
युगं (= युगलम्) वहति सः युग्यः वृषभः ।
प्रासङ्गम् वहति सः प्रासङ्ग्यः वृषभः । (वृषभस्य कण्ठे तस्य दमनार्थम् यत् काष्ठम् बद्ध्यते तत् 'प्रासङ्ग' नाम्ना ज्ञायते । तादृशं काष्ठं यः वहति सः प्रासङ्ग्यः ।)
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!रथसीताहलेभ्यो यद्विधौ तदन्तविधेः उपसङ्ख्यानम्!> । इत्युक्ते, रथशब्दात्, सीताशब्दात्, हलशब्दात् च यत्-प्रत्ययः यदा क्रियते तदा तदन्तस्य विषये अपि यत्-प्रत्ययविधानम् भवति । वर्तमानसूत्रस्य विषये अस्य वार्त्तिकस्य प्रयोगं कृत्वा 'परमरथ' शब्दात् अपि यत्-प्रत्ययविधानम् भवति । यथा - परमरथम् वहति सः परमरथ्यः अश्वः । उत्तमरथं वहति सः उत्तमरथ्यः अश्वः ।
स्मर्तव्यम् - 'सीता'शब्दस्य विषये तथा च 'हल'शब्दस्य विषये वर्तमानसूत्रे अस्य वार्त्तिकस्य प्रयोजनम् नास्ति । अग्रे _ नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु 4.4.91 इत्यत्र 'सीता'शब्दस्य विषये तथा च _मतजनहलात् करणजल्पकर्षेषु 4.4.97 इत्यत्र 'हल'शब्दस्य विषये 'यत्'-प्रत्ययविधानम् क्रियते तत्र अनयोः शब्दयोः विषये अस्य वार्त्तिकस्य प्रयोजनम् वर्तते ।
ज्ञातव्यम् - 'रथम वहति सः' अस्य वाक्यस्य 'रथस्य वाहकः / वोढा' इत्येव अर्थः अस्ति । अपि च, 'रथस्य वाहकः' इत्यस्य विषये तस्येदम् 4.3.120 इत्यस्मिन् अर्थे रथाद्यत् 4.3.121 इत्यनेन यत्-प्रत्ययः तु प्राग्दीव्यतीय-अधिकारे पूर्वमेव प्राप्तः अस्ति । अतः अत्र यत्-प्रत्ययस्य पुनर्विधानम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् भाष्यकारः वदति - 'इदं तर्हि प्रयोजनम् - यो द्वौ रथौ वहति स द्विरथ्यः। यो द्वयो रथयोर्वोढा स द्विरथः' । इत्युक्ते, यद्यपि 'रथ' शब्दस्य विषये द्वयोः सूत्रयोः प्रक्रिया समाना एव, तथापि 'द्विरथ' शब्दस्य विषये तादृशं न दृश्यते । 'द्वयोः रथयोः वाहकः' इत्यस्मिन् प्राग्दीव्यतीये अर्थे द्विगुसमासस्य निर्माणप्रक्रियायां शब्दात् यत्-प्रत्यये कृते तस्य च अग्रे द्विगोर्लुगनपत्ये 4.1.88 इत्यनेन लुक् भवति । अतः, 'द्विरथस्य वाहकः = द्विरथः' इति अन्तिमम् रूपम् जायते । परन्तु 'द्वे रथे वहति' इति स्थिते वर्तमानसूत्रेण (निर्दिष्टवार्त्तिकेन च) 'यत्' प्रत्ययं कृत्वा तु 'द्वे रथे वहति सः = द्विरथ्यः' इति अन्तिमं रूपं सिद्ध्यति । अत्र द्विगोर्लुगनपत्ये 4.1.88 इत्यस्य प्रसक्तिः न भवति - तस्य 'प्राग्दीव्यतीय'अधिकारसीमितत्वात् । अतः यद्यपि 'रथम् वहति' इत्यत्र वर्तमानसूत्रमनावश्यकं भासते, तथापि 'द्विरथं वहति' इत्यत्र वर्तमानसूत्रस्य आवश्यकता अस्ति एव ।
विशेषः -
वस्तुतस्तु अत्र <!रथसीताहलेभ्यो यद्विधौ तदन्तविधेः उपसङ्ख्यानम्!> अस्मिन् वार्त्तिके 'रथ'शब्दस्य आवश्यकता एव नास्ति । वर्तमानसूत्रे रथ-ग्रहणमेव तदन्तविधेः अत्र ज्ञापकमस्ति । अस्य कारणम् एतत् - 'रथ'शब्दात् यत्-प्रत्ययं कर्तुम् तु तस्येदम् 4.3.120 इत्यत्र पाठितम् रथाद्यत् 4.3.121 इत्येव सूत्रम् पर्याप्तमस्ति । अतः यदि रथ-शब्दस्य विषये यत्-प्रत्यये परे तदन्तविधिः न भवेत्, तर्हि परमरथ / द्विरथ / त्रिरथ / उत्तमरथ - एतेभ्यः वर्तमानसूत्रेण यत्-प्रत्ययः न विधीयेत, तेन च वर्तमानसूत्रे रथ-शब्दात् यत्-प्रत्ययस्य न किमपि विशिष्टं प्रयोजनमवशिष्येत । अतः वर्तमानसूत्रे 'रथ' शब्दस्य ग्रहणमेव तदन्तविधेः ज्ञापकमस्ति ।
यद्यपि द्विगोर्लुगनपत्ये 4.1.88 इति सूत्रमजादिप्रत्ययस्य विषये एव लुकं कारयति तथापि अस्य प्रसक्तिः 'द्विरथ' इत्यस्य विषये अपि भवतीति नागेशः प्रदीपोद्योते स्पष्टीकरोति । काशिकाकारः तु द्विगोर्लुगनपत्ये 4.1.88 इत्यत्र 'अचि' इति न उक्त्वा केवलं 'व्यवस्थितविभाषा' इत्येव वदति, येन अपि 'द्विरथ + यत्' इत्यत्र प्राग्दीव्यतीय-अधिकारे लुक् विधीयते ।
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
तद्वहति रथयुगप्रासङ्गम् - तद्विहति रथ । रथादि वहतीत्यर्थे द्वितीयान्ताद्रथ युग प्रासङ्ग इति त्रयाद्यत्स्यादित्यर्थः । युग्य इति । रथादिवहनकाले अआआदिस्कन्धेषु तिर्यग्यत् काष्ठमीषत्प्रोतमासज्यते तद्युगम् । तद्विहतीत्यर्थः । दमनकाले इति । रथादिवहने सुशिक्षितावआऔ नियुज्य तत्स्कन्धवाह्रयुगे यद्युगान्तरमासज्य तस्मिन्नशिक्षिता अआआदयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः ।प्रासङ्गो ना युगाद्युगे॑ इत्यमरः ।
index: 4.4.76 sutra: तद्वहति रथयुगप्रासङ्गम्
ननु य एवार्थो रथं वहतीति स एव रथस्य वोढेअति, तत्र तस्येदं रथाद्यदित्येव सिद्धं नार्थो रथग्रहणेन ? ननु तत्रोक्तं रथाङ्गएवेष्यत इति, वोढर्यपि प्रयोगदर्शनादिष्यताम् ? इदं तर्हि प्रयोजनम् - द्वौ रतौ वहति द्विरथ्यः,'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयो लुग्मा भूत्, रथसीताहलेभ्यो यद्विधौऽ इति तदन्तविधिः ।'युग्यं च पत्त्रे' इत्येव सिद्धम् । इह युगग्रहणमयुग्यमित्यत्र'ययतोश्चतदर्थे' इति स्वरार्थम्, निपातनस्य तु क्यबन्तत्रादेष स्वरो न स्यात् । रथाङ्गवचनोऽयं युगशब्दः, इह न भवति - युगं वहति राजा कलिं द्वापरं वेति । प्रासङ्गशब्दो वत्सानां दमनकाले स्कन्घे यत्काष्ठमासज्यते तद्वाची गृह्यते, प्रसज्यते इति प्रासङ्गः, इह न भवति - प्रसङ्गादागतः प्रासङ्गस्तं वहतीति । एतच्चाभिधानस्वभावाल्लभ्यते ॥