4-4-37 माथोत्तरपदपदव्यनुपदं धावति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु
'तत् माथ-उत्तरपद-पदवी-अनुपदम् धावति' इति समर्थानां प्रथमात् परः ठक् प्रत्ययः
'तत् धावति' अस्मिन् अर्थे 'माथ'-उत्तरपदस्थप्रातिपदिकात्, 'पदवी'शब्दात्, 'अनुपद'शब्दात् च ठक् प्रत्ययः भवति ।
माथशब्दोत्तरपदात् प्रातिपदिकात् पदवी अनुपद इत्येताभ्यां च धावतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दण्डमाथं धावति दाण्डमाथिकः। शौल्कमाथिकः। पादविकः। आनुपदिकः। माथशब्दः पथिपर्यायः॥
दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥
'माथः' इत्युक्ते मार्गः । यस्य शब्दस्य उत्तरपदम् 'माथ' इति अस्ति, तस्मात् द्वितीयासमर्थात् 'तत् धावति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । तथैव, 'पदवी'शब्दात्, 'अनुपद'शब्दात् अपि द्वितीयासमर्थात् 'तत् धावति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । उदाहरणानि एतानि - 1. विद्यामाथं धावति सः वैद्यामाथिकः । 2. धर्ममाथं धावति सः धार्ममाथिकः । 3. दण्डमाथं धावति सः दाण्डमाथिकः । 4. शुल्कमाथं धावति सः शौल्कमाथिकः । 4. पदवीं धावति सः पादविकः । (पदवी इत्युक्ते अपि 'मार्गः' एव) 5. अनुपदं धावति सः आनुपदिकः । अनुपदम् इत्युक्ते पदस्य समीपम् । मार्गसमीपम् इत्यर्थः ।
<<माथोत्तरपदपदव्यनुपदं धावति>> - माथोत्तर । मथोत्तरपद, पदवी, अनुपद — एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः । माथपदं व्याचष्टे — माथः पन्था इति । मथ्यते गन्तृभिराहन्यते #इति व्युत्पत्तेरिति भावः । दण्डमाथ इति । शाकपार्थिवादिः । पन्थानं धावतीति धावतेर्गत्यर्थत्वात् सक्रमकत्वम् । पादविक इति । पदवीं धावतीति विग्रहः । आनुपदिक इति । अनुपदं धावतीति विग्रहः ।
माथशब्दः पथिपर्याय इति । मथ्यते प्रशाद्यते गन्तृभिरिति कृत्वा । दण्डाकारो मथो दण्डमाथः ॥