अस्तिनास्तिदिष्टं मतिः

4-4-60 अस्तिनास्तिदिष्टं मतिः? प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य

Sampurna sutra

Up

index: 4.4.60 sutra: अस्तिनास्तिदिष्टं मतिः


'तद् अस्य मतिः' (इति) समर्थानाम् प्रथमात् अस्ति-नास्ति-दिष्ट-प्रातिपदिकात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.60 sutra: अस्तिनास्तिदिष्टं मतिः


'अस्य मतिः' अस्मिन् अर्थे 'अस्ति'शब्दात्, 'नास्ति'शब्दात् तथा 'दिष्ट'शब्दात् ठक् प्रत्ययः भवति ।

Kashika

Up

index: 4.4.60 sutra: अस्तिनास्तिदिष्टं मतिः


तदस्य इत्येव। तदिति प्रथमासमर्थेभ्यः अस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत् तत् प्रथमासमर्थं मतिश्चेत् तद् भवति। अस्ति मतिः अस्य आस्तिकः। नास्ति मतिः अस्य नास्तिकः। दैष्टिकः। न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोकोऽस्तीति यस्य मतिः स आस्तिकः। तद्विपरीतो नास्तिकः। प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः। तदेतदभिधानशक्तिस्वभावाल् लभ्यते। अस्तिनास्तिशब्दौ निपातौ, वचनसामर्थ्याद् वा आख्याताद् वाक्याच् च प्रत्ययः।

Siddhanta Kaumudi

Up

index: 4.4.60 sutra: अस्तिनास्तिदिष्टं मतिः


तदस्येत्येव । अस्तिपरलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य न नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.60 sutra: अस्तिनास्तिदिष्टं मतिः


'तद् अस्य मतिः (= विचारः / चिन्तनम् / बुद्धिः)' अस्मिन् अर्थे 'अस्ति'शब्दात्, 'नास्ति'शब्दात् तथा 'दिष्ट'शब्दात् ठक् प्रत्ययः विधीयते । यथा -

  1. 'अस्ति' इति अस्य मतिः सः = अस्ति + ठक् → आस्तिक । 'परलोकः / ईश्वरः अस्ति' इति यस्य चिन्तनम्, सः आस्तिकः ।

  2. 'नास्ति' इति यस्य मतिः सः = नास्ति + ठक् → नास्तिक । 'परलोकः / ईश्वरः नास्ति' इति यस्य चिन्तनम्, सः नास्तिकः ।

  3. 'दिष्टम्' (=प्रमाणमनुसृत्य) इति यस्य मतिः सः = दिष्ट + ठक् → दैष्टिकः । 'प्रमाणं लभ्यते चेत् परलोकः / ईश्वरः अस्ति' इति यस्य चिन्तनम्, सः दैष्टिकः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे प्रयुक्तौ 'अस्ति' तथा 'नास्ति' एतौ शब्दौ निपातौ (= अव्ययौ) स्तः । स्वरादिनिपातमव्ययम् 1.1.37 अस्मिन् सूत्रे निर्दिष्टः यः स्वरादिगणः, तस्मिन् एतौ शब्दौ स्वीक्रियेते । तथा च, तिङ्गन्तौ यौ 'अस्ति / नास्ति' शब्दौ, ताभ्यामपि वर्तमानसूत्रे निर्देशसामर्थ्यात् प्रत्ययः भवितुमर्हति एव ।

  2. यद्यपि अस्मिन् सूत्रे केवलम् 'अस्ति' / 'नास्ति' इति निर्देशः कृतः अस्ति, तथापि अस्य सूत्रस्य प्रयोजनम् परलोकस्य / ईश्वरस्य अस्तित्वस्य विषये एव क्रियते । अस्मिन् विषये न्यासकारः वदति - ' न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोकोऽस्तीति यस्य मतिः स आस्तिकः' ।

Balamanorama

Up

index: 4.4.60 sutra: अस्तिनास्तिदिष्टं मतिः


अस्तिनास्तिदिष्टं मतिः - अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्मान्नास्तीत्यस्माद्दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनादेव आख्यातात्प्रत्ययः ।दैवं दिष्ट॑मित्यमरः ।

Padamanjari

Up

index: 4.4.60 sutra: अस्तिनास्तिदिष्टं मतिः


यद्यस्ति मतिर्यस्य स आस्तिकः, चोरेऽपि प्राप्नोति, तस्यापि मतिसद्भावात् ? तत्राह - न चेति । तद्विपरीत इति । परलोको नास्तीति मतिर्यस्य तन्नास्तिकःउ लौकायतिकः, न त्वचेतनः पदार्थः, मत्यभावमात्रे प्रत्ययस्यानिष्टत्वात् । दिष्टमु दैवम्, तद्विषया मतिर्यस्य स दैष्टिकः, वृतावपि प्रमाणानुपातिनी मतिर्यस्येति दैववित्, प्रमीयते तेभ्यो दैवमिति । प्रमाणशब्देनेतिहासपुराणादिविवक्षितम् । अस्तिनास्तिशब्दौ निपाताविति । तेन प्रातिपदिकाधिकारो न बाध्यते इति भावः । वचनसामर्थ्याच्चेत्यभ्युपगम्यवादः ॥