पक्षिमत्स्यमृगान् हन्ति

4-4-35 पक्षिमत्स्यमृगान् हन्ति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

index: 4.4.35 sutra: पक्षिमत्स्यमृगान् हन्ति


'तत् पक्षि-मत्स्य-मृगान् हन्ति' (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.35 sutra: पक्षिमत्स्यमृगान् हन्ति


'हन्ति' अस्मिन् अर्थे द्वितीयासमर्थात् पक्षिवाचिनः / मत्स्यवाचिनः / मृगवाचिनः प्रातिपदिकात् ठक् प्रत्ययः भवति ।

Kashika

Up

index: 4.4.35 sutra: पक्षिमत्स्यमृगान् हन्ति


तदित्येव। पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्ति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। स्वरूपस्य पर्यायाणां तद्विशेषाणाम् च ग्रहणम् इह इस्यते। पक्षिणो हन्ति पाक्षिकः। शाकुनिकः। मायूरिकः। तैत्तिरिकः। मत्स्य मात्स्यिकः। मैनिकः। शाफरिकः। शाकुलिकः। मृग मार्गिकः। हारिणिकः। सौकरिकः। सारङ्गिकः।

Siddhanta Kaumudi

Up

index: 4.4.35 sutra: पक्षिमत्स्यमृगान् हन्ति


।<!स्वरूपस्य (पर्यायाणां) विशेषाणां च ग्रहणम् !> (वार्तिकम्) ॥ मत्स्यपर्यायेषु मीनस्यैव (भाष्येष्टिः) ॥ पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुनिकः । मार्गिकः । हारिणितः । सारङ्गिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.35 sutra: पक्षिमत्स्यमृगान् हन्ति


'हन्ति' इत्युक्ते मारयति । हन्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमिदम् । 'पक्षिणम् हन्ति' / 'मत्स्यम् हन्ति' / 'मृगम् हन्ति' एतान् अर्थान् दर्शयितुम् द्वितीयासमर्थात् ठक् प्रत्ययः वर्तमानसूत्रेण विधीयते । अस्य सूत्रस्य विषये वार्त्तिककारः एतत् वार्त्तिकम् पाठयति - <!स्वरूपस्य पर्यायाणां तद्विशेषाणां च ग्रहणम् !> । इत्युक्ते, अस्मिन् सूत्रे निर्दिष्टाः ये शब्दाः, तेभ्यः अपि ठक्-प्रत्ययः भवति, तथा तेषाम् पर्यायवाचिभ्यः शब्देभ्यः अपि ठक्-प्रत्ययः भवति, तथा च तेषां विशेषवाचिभ्यः (इत्युक्ते पक्षिणः नाम / मत्यस्य नाम आदयः) अपि ठक्-प्रत्ययः भवति । यथा -

  1. पक्षिणं हन्ति सः

= पक्षिन् + ठक्

→ पक्षिन् + इक [ठस्येकः 7.3.50 इत्यनेन ठक्]

→ पाक्षिन् + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ पाक्ष् + इक नस्तद्धिते 6.4.144 इति टिलोपः]

→ पाक्षिक

एवमेव -

  1. शकुनं हन्ति सः शाकुनिकः ।

  2. मयूरं हन्ति सः मायूरिकः ।

  3. तित्तिरं हन्ति सः तैत्तिरिकः ।

  4. मत्स्यान् हन्ति सः मात्स्यिकः ।

  5. मीनान् हन्ति सः मैनिकः ।

  6. मृगान् हन्ति सः मार्गिकः ।

  7. हरिणान् हन्ति सः हारिणिकः ।

  8. सारङ्गं हन्ति सः सारङ्गिकः ।

  9. सूकरान् हन्ति सः सौकरिकः ।

Balamanorama

Up

index: 4.4.35 sutra: पक्षिमत्स्यमृगान् हन्ति


पक्षिमत्स्यमृगान् हन्ति - पाक्षिमत्स्यमृगान्हन्ति । अस्मिन्नर्थे पक्ष्यादिशब्देभ्यो द्वितीयान्ताट्ठगित्यर्थः । स्वरूपस्येति । पक्षिमत्स्यमृगशब्दैस्तत्तत्स्वरूपाणां, तत्तत्पर्यायाणां, तद्विशेषवाचिनां च ग्रहणमित्यर्थः,स्वं रूप॑मिति सूत्रभाष्ये तथोक्तेरिति भावः । मीनस्यैवेति । मत्स्यपर्यायेषु मीनस्यैव ग्रहणं, न त्वनिमिषादिशब्दानामित्यर्थः । इदमपिस्वं रूप॑मित्यत्र भाष्ये स्थितम् । पाक्षिक इति — स्वरूपस्योदाहरणम् । शाकुनिक इति — पक्षिपर्यायस्य । मायूरिक इति — पक्षिविशेषस्य । तथा मात्स्यिकः, मैनिकः, शाकलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिकः, सारङ्गिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् ।

Padamanjari

Up

index: 4.4.35 sutra: पक्षिमत्स्यमृगान् हन्ति


स्वरूपस्य तद्विशेषणां पर्यायाणां च ग्रहणमिष्यत इति । अत्र हेतुः'स्वं रूपम्' इत्यत्रैवोक्तः । मात्स्यिक इति ।'सूर्यतिष्य' इति लोपो न भवति; मत्स्यस्य ङ्यामिति परिगणनात् । हारिणिकः, सौकरिक इति । अत्र मृगपर्यायस्योदाहरणं किमित न प्रदर्शितम्, यथा पूर्वयोः द्वावपि ह्यएतस्माद्विशेषौ, आरण्याश्चतुष्पादो मृगाः उच्यन्ते, हरिणपर्यायोऽपि मृगशब्दोऽस्ति, तदपेक्षया हारिणिक इति पर्यायोदाहरणम् ॥