4-4-27 ओजःसहोम्भसा वर्तते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन वर्तते' इति ओजस्-सहस्-अम्भसा समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
'वर्तते' अस्मिन् अर्थे ओजस्, सहस् तथा अम्भस् - एतेभ्यः तृतीयासमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति ।
ओजस् सहस् अम्भस् इत्येतेभ्यस्तृतीयासमर्थेभ्यो वर्तत इत्यर्थे ठक् प्रत्ययो भवति। ओजसा वर्तत औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः॥
ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥
'ओजस्', 'सहस्', 'अम्भस्' - एतानि सर्वाणि सकारान्तप्रातिपदिकानि । एतेभ्यः 'वर्तते' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. ओजस् इत्युक्ते तेजः, शक्तिः, बलम् । ओजसा वर्तते सः = ओजस् + ठक् → औजसिकः शूरः । 2. सहस् इत्युक्ते चौरकर्म, स्तेयम् । सहसा वर्तते सः = सहस् + ठक् → साहसिकः चौरः । 3. अम्भस् इत्युक्ते जलम् । अम्भसा सह वर्तते सः = अम्भस् + ठक् → आम्भसिकः मत्स्यः । प्रक्रियायाः उदाहरणम् - ओजस् + ठक् → ओजस् + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → औजस् + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → औजसिक
<<ओजस्सहोऽम्भसा वर्तते>> - ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस्, सहस्, अम्भस् — एभ्यः तृतीयान्तेभ्यष्ठक् स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः । साहसिक इति । सहसा=प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः । आम्भसिक इति । अम्भसा हेतुना संचारे व्याप्रियत इत्यर्थः ।