कंसीयपरशव्ययोर्यञञौ लुक् च

4-3-168 कंसीयपरशव्ययोः यञञौ लुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे

Kashika

Up

index: 4.3.168 sutra: कंसीयपरशव्ययोर्यञञौ लुक् च


प्राक् क्रीताच् छः 5.1.1, कंसीयः। उगवादिभ्यो यत् 5.1.2, परशव्यः। कंसीयपरशव्यशब्दाभ्यां यथासङ्ख्यं यञञौ प्रत्ययौ भवतः तस्य विकारः इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोः लुग् भवति। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः। प्रातिपदिकाधिकाराद् धातुप्रत्ययस्य न लुग् भवति। परशव्यशब्दादनुदात्ताऽदित्वादेव अञि सिद्धे लुगर्थं वचनम्। ननु च यस्य इति च 6.4.148 इति लोपे कृते हलस् तद्धितस्य 6.4.150 इति यलोपो भविष्यति? ना एअदस्ति, ईतीति तत्र वर्तते। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादःचतुर्थाध्यायस्य चतुर्थः पादः।

Siddhanta Kaumudi

Up

index: 4.3.168 sutra: कंसीयपरशव्ययोर्यञञौ लुक् च


कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥। इति तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम् ।

Balamanorama

Up

index: 4.3.168 sutra: कंसीयपरशव्ययोर्यञञौ लुक् च


कंसीयपरशव्ययोर्यञञौ लुक् च - कंसीयपरशब्द । अत्र यञञोर्न लुक्, विधिवैयथ्र्यात् । नापि प्रकृत्योः, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । अतः परिशेषात्प्रकृत्येकदेशयोश्छयतोरिति लभ्यते । तदाह — छयतोरिति । कंसीयमिति । कंसो नाम धातुर्लोहविशेषः ।तस्मै हित॑मिति छः । कांस्यमिति । कंसीयशब्दाद्यञि छस्य लुकि आदिवृद्धौयस्येति चे॑त्यकारलोपः । परशब्दमिति ।तस्मै हित॑मित्यधिकारेउगवादिभ्यो य॑दिति ओर्गुणेवान्तो यी॑त्यवादेशः । पारशव इति । परशब्दशब्दादञि यतो लुकि ओर्गुणे पारशवः ।हलस्तद्धितस्ये॑ति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वात्आपत्यस्य चे॑त्यपि लोपो न प्रसज्यत इति भावः ।*इति बालमनोरमायाम् प्राग्दीव्यतीयाः ।***अथ प्राग्घितीय प्रकरणम् । — — — — — — — — -

Padamanjari

Up

index: 4.3.168 sutra: कंसीयपरशव्ययोर्यञञौ लुक् च


प्राक् क्रीताच्छेन कंसीय इति ।'प्राक् क्रीताच्छः' इत्यधिकारे'तस्मै हितम्' इतिच्छप्रत्ययेन कंसीयशब्दो व्युत्पाद्यत इत्यर्थः । एतेनोगवादिभ्यो यता परशव्यशब्द इति व्याख्यातम् । तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवतीति । प्रत्ययादर्शनस्य लुक्संज्ञाविधानातदवयवयोः प्रत्यययोर्लुग्भवतीत्यर्थः । अथ'वृतृहनिकषिकमिभ्यः सः' इति सः, कंसशब्दे सप्रत्ययः । यश्च पराशृणोतीति परशुः, ठाङ्परयोः खनिशृभ्यांणिच्चऽ इति कुप्रत्ययस्तयोर्लुक्कस्मान्न भवति ? तत्राह - प्रातिपदिकाधिकारादिति । प्रातिपदिकाधिकारे हि तत; परयोश्च्छयतोर्लुग्भवति, न धातुप्रत्ययस्य, आह -'ङ्याप्प्रातिपदिकग्रहणमङ्गपदसंज्ञार्थं यच्छयोश्च लुगर्थम्' इति, ननु च ठतः कृकमिऽ इत्यत्र कंसग्रहणं लिङ्गम् - नावयमुणादिषु व्युत्पत्तिकार्यं भवतीति, तेनोकारसकारयोर्लुग्न भविष्यति ? सत्यम् ; वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थमवश्यकर्तव्यस्य ङ्याप्प्रातिपदिकग्रहणस्यानुषङ्गिकं प्रयोजनं दर्शितम् । अत एव च'ङ्याप्प्रातिपदिकात्' इत्यत्र नेदं वृत्तिकृता दर्शितम् ॥