उञ्छति

4-4-32 उञ्छति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

'तत् उञ्छति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'उञ्छति' अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति ।

Kashika

Up

तदिति द्वितीयासमर्थादुञ्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। बदराण्युञ्छति बादरिकः। श्यामाकिकः। भूमौ पतितस्यैकैकस्य कणस्योपादनमुञ्छः। कणानुञ्छति काणिकः॥

Siddhanta Kaumudi

Up

बदराण्युञ्छति बादरिकः ॥

Laghu Siddhanta Kaumudi

Up

बदराण्युञ्छति बादरिकः॥

Neelesh Sanskrit Detailed

Up

'उञ्छति' इति 'उछिँ' धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । भूमौ पतितान् फलान् धान्यकणानामुपादानम् (चयनम् / स्वीकरणम्) उञ्छनम् नाम्ना ज्ञायते । यस्य पदार्थस्य उञ्छनम् क्रियते तस्मात् द्वितीयासमर्थात् वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा - 1. बदराणि उञ्छति सः = बदर + ठक् → बादरिक । 2. श्यामाकानि उञ्छति सः = श्यामक + ठक् → श्यामकिक । 3. कणान् उञ्छति सः = कण + ठक् → काणिक ।

Balamanorama

Up

<<रक्षति>> - रक्षति । अस्मिन्नर्थे द्वितीयान्ताट्ठगित्यर्थः ।

Padamanjari

Up