शब्ददर्दुरं करोति

4-4-34 शब्ददर्दुरं करोति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

'तत् शब्ददर्दुरं करोति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'करोति' अस्मिन् अर्थे 'शब्द' तथा 'दर्दुर' शब्दाभ्याम् द्वितीयासमर्थाभ्याम् ठक् प्रत्ययः भवति ।

Kashika

Up

तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। शब्दं करोति शाब्दिको वैयाकरणः। दार्दुरिकः कु म्भकारः॥

Siddhanta Kaumudi

Up

शब्दं करोति शाब्दिकः । दार्दुरिकः ॥

Laghu Siddhanta Kaumudi

Up

शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥

Neelesh Sanskrit Detailed

Up

'तत्' इति द्वितीयासमर्थात् 'करोति' अस्मिन् अर्थे 'शब्द' तथा 'दर्दुर' एताभ्याम् शब्दाभ्याम् ठक् प्रत्ययः विधीयते । । अत्र 'शब्द' तथा 'दर्दुर' - उभयोः पदयोः विशिष्ट-अर्थे प्रयोगः कृतः अस्ति । क्रमेण पश्यामः - 1. 'शब्दं करोति' इत्युक्ते शब्दस्य प्रकृति-प्रत्ययादिविभाजनम् करोति । अस्मिन्नेव अर्थे अत्र ठक्-प्रत्ययविधानम् क्रियते । यथा - शब्दं करोति सः शाब्दिकः वैयाकरणः । शब्द + ठक् → शाब्दिक । 2 'दर्दुर' इति कस्यचन पात्रस्य नाम । 'दर्दुरं करोति' इत्युक्ते दर्दुरनाम यत् पात्रम्, तस्य ध्वनिवत् शब्दं करोति । अस्मिन् अर्थे दर्दुरशब्दात् ठक् प्रत्ययः भवति । दर्दुरं करोति सः दार्दुरिकः । दर्दुर + ठक् → दार्दुरिक ।

Balamanorama

Up

<<शब्ददर्दुरं करोति>> - शब्ददर्दुरं करोति । शब्दं करोति, दर्दुरं करोतीति विग्रहे द्वितीयान्ताट्ठगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभादपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् । तेनेह न — शब्दं करोति खरः । दार्दुरिक इति ।दर्दुरस्तोयदे भेके वाद्यभाण्डाऽद्रिभेदयोः । दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुर॑मिति विआः । इह यथायोग्यमन्वयः ।

Padamanjari

Up

शब्दं करोतीति । करोतिरिह ज्ञाने वर्तते, प्रकृत्यादिविभागेन जानातीत्यर्थः । एतच्चाभिधानस्वाभाव्याल्लभ्यते, इह न भवति - शब्दं करोति खर इति । पात्रविशेषवाची दर्दुरशब्दः । अनुकरणशब्द इत्यन्ये ॥