4-4-5 तरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन तरति' (इति) समर्थानाम् प्रथमात् परः ठक्
'तरति' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।
तेनेति तृतीयासमर्थात् तरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। तरति प्लवत इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः॥
उडुपेन तरति औडुपिकः ॥
तेनेत्येव। उडुपेन तरति औडुपिकः॥
यः तरति (= प्लवति) तस्य निर्देशः तरणस्य साधनेन कर्तुम् साधनवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा - 1. काण्डप्लवेन तरति सः काण्डप्लविकः । 2. उडुपेन तरति सः औडुपिकः । प्रक्रियायाः उदाहरणम् - उडुप + ठक् → उडुप + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → औडुप + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → औडुप् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → औडुपिक