तदस्मै दीयते नियुक्तम्

4-4-66 तत् अस्मै दीयते नियुक्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक्

Sampurna sutra

Up

'तत् अस्मै नियुक्तम् दीयते' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते' अस्मिन् अर्थे प्रथमासमर्थात् 'ठक्' प्रत्ययः भवति ।

Kashika

Up

तदिति प्रथमासमर्थाद् अस्मा इति चतुर्थ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं तच्चेद् दीयते नियुक्तम्। नियोगेनाव्यभिचारेण दीयत इत्यर्थः। अव्यभिचारो नियोगः। अग्रे भोजनमस्मै नियुक्तं दीयत आग्रभोजनिकः। आपूपिकः। शाष्कुलिकः। केचित् तु नियुक्तं नित्यमाहुः। अपूपा नित्यमस्मै दीयन्त आपूपिकः॥

Siddhanta Kaumudi

Up

अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'नियुक्तम्' इत्युक्ते नियोगेन / अव्यभिचारेण / अवधारणया दत्तम् । यत्र कश्चन पदार्थः कस्मैचित् नियममनुसृत्य दीयते (न हि भ्रष्टाचाररूपेण / व्यभिचाररूपेण), तत्र सः पदार्थः 'नियुक्तम्' दीयते इति उच्यते । यथा, कार्यालये वित्तकोषे वा पङ्क्तौ यः प्रथमः तिष्ठति, तस्य कार्यमादौ क्रियते, ततः यः द्वितीयः तिष्ठति तस्य कार्यम् क्रियते - एतादृशम् नियमरूपेण क्रमेणैव कार्यम् भवति, पङ्क्तिमुल्लङ्घ्य कार्यं न क्रियते, अतः अत्र 'नियुक्तम्' कार्यम् भवति इत्युच्यते । अस्यां स्थितौ यस्य कार्यं क्रियते तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - 1. अग्रे भोजनमस्मै नियुक्तं दीयते सः = अग्रभोजन + ठञ् → आग्रभोजनिकः । नियममनुसृत्य यस्मै आदौ भोजनं दीयते सः आग्रभोजनिकः । अत्र 'नियमः' इत्यनेन 'अधिकारः' / 'पङ्क्तौ क्रमाङ्कः' इति निर्दिश्यते । 2. अपूपाः अस्मै नियुक्तम् दीयन्ते सः आपूपिकः ।

Balamanorama

Up

<<तदस्मै दीयते नियुक्तम्>> - तदस्मै दीयते नियतम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः ।

Padamanjari

Up

अव्यभिचारोनियोग इति । अस्मिन्पक्षे नियुक्तमिति क्रियाविशेषणत्वात्कर्मणि द्वितीया । अग्रभोजनमस्मै नियुक्तं दीयत इति । यद्यग्रभोजनं दीयते तदास्मै एवेत्येष नियोगार्थः । तेन कदाचिल्लोपेऽपि न नियुक्तताया हानिः । केचित्विति । अत्र पक्षे नियुक्तमित्यन्तसंयोगे द्वितीया ॥