तत्र नियुक्तः

4-4-69 तत्र नियुक्तः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक्

Sampurna sutra

Up

index: 4.4.69 sutra: तत्र नियुक्तः


'तत्र नियुक्तः' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.69 sutra: तत्र नियुक्तः


'नियुक्तः' (= अधिकृतः) अस्मिन् अर्थे सप्तमीसमर्थात् ठक्-प्रत्यय भवति ।

Kashika

Up

index: 4.4.69 sutra: तत्र नियुक्तः


तत्र इति सप्तमीसमर्थान् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्तः आधिकृतो व्यापारितः इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः।

Siddhanta Kaumudi

Up

index: 4.4.69 sutra: तत्र नियुक्तः


आकरे नियुक्त आकरिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.69 sutra: तत्र नियुक्तः


'नियुक्तः' इत्युक्ते अधिकृतः / अधिकाररूपेण स्थापितः / नियोजितः । यस्मिन् स्थाने कश्चन मनुष्यः किञ्चन कार्यम् कर्तुमधिकाररूपेण स्थापितः अस्ति, तत्र तस्य मनुष्यस्य निर्देशं कर्तुम् स्थानवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -

1) शुल्कशालायां नियुक्तः शौल्कशालिकः । शुल्कशालायाम् शुल्कग्रहणकार्यार्थम् यः अधिकृतः अस्ति, सः शौल्कशालिकः अस्ति इत्युच्यते ।

2) द्वारे नियुक्तः सः दौवारिकः । प्रक्रिया इयम् -

द्वार + ठक्

→ द्वार + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ दौवार + इक [द्वारादीनां च 7.3.4 इति ऐच्-आगमः]

→ दौवार् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ दौवारिक ।

3) आपणे नियुक्तः सः आपणिकः ।

4) आकरे नियुक्तः सः आकरिकः । (आकरः इत्युक्ते शुल्कशाला)

ज्ञातव्यम् - पूर्वस्मिन् सूत्रे तदस्मै दीयते नियुक्तम् 4.4.66 इत्यत्र 'नियुक्तम्' शब्दः प्रयुक्तः अस्ति, अतः तस्मात् एव अत्र अनुवृत्तिः किमर्थम् न क्रियते, अस्मिन् सूत्रे पुनः 'नियुक्त' इति शब्दस्य प्रयोगः किमर्थम् कृतः अस्ति - इति प्रश्नः प्रायः उद्भवति । अस्य उत्तरार्थम् न्यासकारः वदति - 'अर्थभेदात्। न तस्य हि अव्यभिचारलक्षणो नित्यभावः अर्थः' । इत्युक्ते, तदस्मै दीयते नियुक्तम् 4.4.66 इत्यत्र 'नियुक्तम्' शब्दः 'अव्यभिचार' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, वर्तमानसूत्रे च 'अधिकारः' अस्मिन् अर्थे प्रयुक्तः अस्ति । द्वौ एतौ भिन्नौ अर्थौ स्तः । अनुवृत्तिः क्रियते चेत् तु अर्थभेदः न सम्भवति । अतः अत्र अनुवृत्तिः न क्रियते, अपितु 'नियुक्तम्' शब्दः पुनः निर्दिष्टः अस्ति ।

Balamanorama

Up

index: 4.4.69 sutra: तत्र नियुक्तः


तत्र नियुक्तः - तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः । नियुक्तः=अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । आकरिक इति । आकरो रत्नाद्युद्भवस्थानम् ।

Padamanjari

Up

index: 4.4.69 sutra: तत्र नियुक्तः


नियुक्तमिति प्रकृते पुननियुक्तग्रहणमर्थभेदार्थमेव, तमेवार्थभेदं दर्शयति -नियुक्तोऽधिकृत इत्यादि । किञ्च -प्रकृतं नियुक्तग्रहणं प्रकृत्यर्थविशेषणस्य दीयत इत्यस्योपाधिः, न तस्येह प्रत्ययार्थत्वं शक्यं विज्ञातुम् ॥