4-4-50 अवक्रयः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तस्य
'तस्य अवक्रयः' इति समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
'अवक्रयः' अस्मिन् अर्थे षष्ठीसमर्थात् ठक् प्रत्ययः भवति ।
तस्येत्येव। षष्ठीसमर्थादवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अवक्रीणीतेऽनेनेत्यवक्रयः, पिण्डक उच्यते। शुल्कशालाया अवक्रयः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। नन्ववक्रयोऽपि धर्म्यमेव? नैतदस्ति। लोकपीडया धर्मातिक्रमेणाप्यवक्रयो भवति॥
षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥
'अवक्रय' इत्युक्ते अधिभारः / विक्रीकरः । वाणिज्यार्थम् तैलधान्यादीनि वस्तूनि एकस्मात् स्थलात् अन्यस्मिन् स्थले यदा नीयन्ते, तदा यानि भिन्नानि शुल्कानि दातव्यानि, तेषाम् निर्देशः 'अवक्रय' अनेन क्रियते । यस्य स्थलस्य अवक्रयः निर्दिश्यते, तस्मात् षष्ठीसमर्थात् अवक्रयं निर्देशयितुम् ठक् प्रत्ययः भवति । यथा - 1. शुल्कशालायाः अवक्रयः शौल्कशालिकः । शुल्कशाला + ठक् → शौल्कशालिक । शुल्कशालायां यः अधिभारः दातव्यः सः शौल्कशालिकः । 2. आपणस्य अवक्रयः आपणिकः । आपण + ठक् → आपणिक । आपणे दीयमानः अवक्रयः इत्यर्थः ।
<<अवक्रयः>> - अवक्रयः । तस्येत्यनुवर्तते । तदाह — षष्ठन्तादिति ।
अवक्रीयतेऽनेनेत्यवक्रय इति । क्रयो नाम उ स्वद्रव्यत्यागेन परद्रव्यस्वीकरणम्, तस्यावमत्वमवशब्दो द्योतयति । वाणिज्यार्थं तैलधान्यादिकं देशान्तरं नयताऽस्मिन् शुल्कस्थाने प्रतिभारमेतावद् देयमिति तद्देशादिपतिना यत्कल्पितं सोऽवक्रयः, पिण्डक इति चोच्यते । तत्र स्वद्रव्यमेव दत्वा स्वद्रव्यमेव स्वीक्रियते इत्ययमवक्रयो भवति, न तु मुख्यः । नन्वित्यादि । अवक्रयस्याप्यनादिप्रवृतत्वादिति भावः । लोकपीडयेति । अर्थलोभेन धर्मातिक्रमेण धर्मापेतत्वं दर्शयति ॥