4-4-22 संसृष्टे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन संसृष्टे' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
'संसृष्टम्' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।
तेनेत्येव। तृतीयासमर्थात् संसृष्ट इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। संसृष्टमेकीभूतमभिन्नमित्यर्थः। दध्ना संसृष्टं दाधिकम्। मारिचिकम्। शार्ङ्गवेरिकम्। पैप्पलिकम्॥
दध्ना संसृष्टं दाधिकम् ॥
दध्ना संसृष्टं दाधिकम्॥
'संसृष्टम्' इत्युक्ते 'एकीकृतम्' । एकीकृतः यः पदार्थः, तस्य निर्देशः एकीकरणस्य साधनेन कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - दध्ना संसृष्टम् दाधिकम् , मरिचेन संसृष्टम् मारिचिकम् । प्रक्रिया इयम् - दधि + ठक् → दधि + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इकारादेशः] → दाधि + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → दाध् + इक [<<यस्येति च>> 6.4.148 इति इकारलोपः] → दाधिक
<<संसृष्टे>> - संसृष्टे । संसृष्टमित्यर्थे तृतीयान्ताट्ठागित्यर्थः ।
ननु यद्येन संसृष्ट्ंअ ततेन संस्कृतं भवति; ततश्च संस्कृतमित्येव संसृष्टेऽपि प्रत्ययः सिद्धः ? न सिध्यति; सत उत्कर्षाधानमु संस्कारः, एकीभावस्तु उ संसर्गः, न च यत्रासौ तत्रावश्यमुत्कर्षोऽस्ति, अशुचिद्रव्यसंसर्गे हि प्रत्युतापकर्ष एव भवति । तस्मात्संसृष्ट इति वक्तव्यम् । यद्यस्य निबन्धनमस्त्येतदेवास्तु, मा भूत्संस्कृतमित्येतत् ? तदवश्यं कर्तव्यम्, इहापि यथा स्यात् - विद्यया संस्कृतो वैद्यक इति, न ह्यत्र संसर्गोऽस्ति; मूर्तिधर्मत्वात् । किञ्च'कुलत्थकोपधादण्' संस्कृत एव यथा स्यात्ससृष्टे मा भूदित्येमवर्थं संस्कृतमित्येतद्भवतीति वक्तव्यम् ॥