प्रहरणम्

4-4-57 प्रहरणम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य

Sampurna sutra

Up

'तदस्य प्रहरणम्' (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।

Kashika

Up

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति। असिः प्रहरणमस्य आसिकः। प्रासिकः। चाक्रिकः। धानुष्कः॥

Siddhanta Kaumudi

Up

तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥

Laghu Siddhanta Kaumudi

Up

तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥

Neelesh Sanskrit Detailed

Up

प्रहरणम् इत्युक्ते शस्त्रम् । प्रथमासमर्थात् प्रहरणवाचिशब्दात् 'अस्य अस्ति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. दण्डः प्रहरणमस्य सः दाण्डिकः । दण्ड + ठक् → दाण्डिक । 2. चक्रं प्रहरणमस्य च चाक्रिकः । 3. धनुः प्रहरणमस्य सः धानुष्कः । प्रक्रिया इयम् - धनुस् + ठक् [यद्यपि प्रातिपदिकस्य दृश्यरूपम् 'धनुष्' इति अस्ति, तथापि <<आदेशप्रत्यययोः>> 8.3.59 इत्यनेन विधीयमानं 'षत्वम्' त्रिपादीकार्यमस्ति , अतः अत्र असिद्धम् ज्ञातव्यम् ।] → धनुस् + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति ठकारस्य ककारादेशः] → धानुस् + क [<<किति च>> 7.2.118 इति आदिवृद्धिः] → धानुरुँ + क [<<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति अङ्गस्य पदसंज्ञा । <<ससजुषो रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ] → धानुः + क [<<खरवसानयोर्विसर्जनीयः>> 8.3.14 इति विसर्गः] → धानुष् + क [<<इणः षः>> 8.3.39 इति विसर्गस्य षकारः] → धानुष्क ज्ञातव्यम् - प्राग्दीव्यतीय-अधिकारे <<तदस्यां प्रहरणम् इति क्रीडायां णः>> 4.2.57 इति कश्चन अर्थः विधीयते । अस्मिन् अर्थे प्रहरणवाचिशब्दात् क्रीडायाः निर्देशं कर्तुम् 'ण'-प्रत्ययः भवति । यथा - दण्डं प्रहरणमस्यां क्रीडायाम् सा दाण्डा क्रीडा । वर्तमानसूत्रे तु प्रहरणधारिणः निर्देशः क्रियते, न तु क्रीडायाः । यथा, दण्डं प्रहरणमस्य राज्ञः सः दाण्डिकः राजा । द्वावपि अर्थौ भिन्नौ स्तः एतत् स्मर्तव्यम् ।

Balamanorama

Up

<<प्रहरणम्>> - प्रहरणम् ।तदस्ये॑त्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रह्यियतेऽनेनेति प्रहरणम्ायुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षः ।

Padamanjari

Up

प्रहरणमायुधम्, प्रह्रियतेऽनेनेति कृत्वा । धानुष्क इति । पूर्ववत् कादेशः, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् ॥