4-4-19 निर्वृत्ते अक्षद्यूतादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन निर्वृत्ते' (इति) अक्षद्युतादिभ्यः समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
'निर्वृत्ते' अस्मिन् अर्थे तृतीयासमर्थेभ्यः अक्षद्यूतगणस्य शब्देभ्यः ठक्-प्रत्ययः भवति ।
तेनेत्येव। अक्षद्यूतादिभ्यस्तृतीयासमर्थेभ्यो निर्वृत्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकं वैरम्। जानुप्रहृतिकम्॥ अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत। अक्षद्यूतादिः॥
अक्षद्युतेन निर्वृत्तमाक्षद्यूतिकं वैरम् ॥
'निर्वृत्तम्' इत्युक्ते 'कृतम् / सिद्धम्' । अक्षद्यूतादिगणस्य शब्देभ्यः 'निर्वृत्तम्' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । अक्षद्यूतादिगणः एषः - अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत। उदाहरणम् - अक्षद्यूतेन निर्वृत्तम् तत् आक्षद्यूतिकम् शत्रुत्वम् । प्रक्रिया - अक्षद्यूत + अण् → अक्षद्यूत + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → आक्षद्यूत + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → आक्षद्यूत् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आक्षद्यूतिक ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'तेन' अयम् शब्दः साधनस्य निर्देशं करोति, न हि कर्तुः । अतः 'अक्षद्यूतेन निर्वृत्तम्' इत्युक्ते' अक्षद्यूतस्य साहाय्येन निवृत्तम्' इति अर्थः क्रियते । 2. 'निर्वृत्तम्' इति कर्मणिप्रयोगः, अतः वर्तमानसूत्रेण निर्दिष्टः तद्धितान्तः शब्दः कर्मपदस्य निर्देशं करोति । यथा - अक्षद्यूतेन निर्वृत्तम् तत् आक्षद्यूतिकम् शत्रुत्वम् ।
<<निर्वृत्तेऽक्षद्यूतादिभ्यः>> - निर्वृत्तेऽक्षद्यूतादिभ्यः । निर्वृत्तमित्यर्थे तृतीयान्तेभ्योऽक्षद्यूतादिभ्यष्ठगित्यर्थः ।