4-4-43 समवायान् समवैति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु
index: 4.4.43 sutra: समवायान् समवैति
'तत् समवायान् समवैति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः ।
index: 4.4.43 sutra: समवायान् समवैति
'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति ।
index: 4.4.43 sutra: समवायान् समवैति
समवायावाचिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः समवैति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समवायः समूहः उच्यते, न संप्रधारणा। समवायानिति बहुवचनं सरूपविधिनिरासार्थम्। समवैति आगत्य तदेकदेशी भवति इत्यर्थः। समवायान् समवैति सामवायिकः। सामाजिकः। सामूहिकः। सान्निवेशिकः।
index: 4.4.43 sutra: समवायान् समवैति
सामवायिकः । सामूहिकः ॥
index: 4.4.43 sutra: समवायान् समवैति
'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । एतादृशस्य पदार्थस्य निर्देशं कर्तुम् द्वितीयासमर्थात् समवायवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -
समाजम् समवैति सः सामाजिकः । आदौ समाजे नास्ति, परन्तु अनन्तरमागत्य समाजस्यैव अवयवः भवति इत्यर्थः ।
समूहम् समवैतिः सः सामूहिकः ।
सन्निवेशं समवैति सः सान्निवेशिकः ।
समवायम् समवैति सः सामवायिकः ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'समवायान्' इति बहुवचनस्य निर्देशः एतत् दर्शयति यत् अत्र 'शब्दग्रहणम्' न इष्यते, अपितु अर्थग्रहणम् इष्यते । इत्युक्ते, 'समवाय' अस्मिन् अर्थे यः कोऽपि शब्दः प्रयुज्यते, तस्मात् अनेन सूत्रेण ठक् प्रत्ययः भवितुमर्हति ।
index: 4.4.43 sutra: समवायान् समवैति
समवायान् समवैति - समवायान्समवैति । द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति=मेलयतीत्यर्थः ।
index: 4.4.43 sutra: समवायान् समवैति
समवायः समूह उच्यत इति । समवयन्ति तस्मिन्निति कृत्वा । न सम्प्रधारणेति । समयपूर्वस्येणः सम्प्रधारणायामपि प्रयोगोऽस्तीतिमन्यते । समागत्य तदेकदेशीभवतीत्यर्थ इति । तत्र गुणभूतसमागमापेक्षया समवायमिति द्वितीयानिर्देशः । लोके तु प्रायेण सप्तमी प्रयुज्यते - द्रव्ये गुणाः समवयन्तीति ॥