4-4-12 वेतनादिभ्यः जीवति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन वेतनादिभ्यः जीवति' (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः
वेतनादिगणस्य शब्दानां विषये तृतीयासमर्थात् 'जीवति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।
तेनेति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यो जीवतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। वेतनेन जीवति वैतनिकः कर्मकरः। धनुर्दण्डग्रहणमत्र संघातविगृहीतार्थम्। धानुर्दण्डिकः। धानुष्कः। दाण्डिकः॥ वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषण। उपस्ति। सुख। शय्या। शक्ति। उपनिषत् । उपवेष। स्रक् । पाद। उपस्थान। वेतनादिः॥
वेतनेन जीवति वैतनिकः । धानुष्कः ॥
वेतनादिगणे ये शब्दाः पाठ्यन्ते, तेषां विषये 'अनेन सह जीवति सः' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति । वेतानादिगणः अयम् - वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषन। उपस्ति। सुख। शय्या। शक्ति। उपनिषत्। उपवेष। स्रक्। पाद। उपस्थान। उदाहरणानि - 1. वेतनेन जीवति सः = वेतन + ठक् → वेतन + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → वैतन + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → वैतन् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → वैतनिक तथैव - जालेन जीवति सः = जाल + ठक् → जालिक । शक्त्या जीवति सः = शक्ति + ठक् → शाक्तिक । 2. उपनिषद्भिः जीवति सः = उपनिषद् + ठक् → उपनिषद् + क [<<ठस्येकः>> 7.3.50 इति इक्-आदेशे प्राप्ते तं बाधित्वा <<इसुसुक्तान्तात् कः>> 7.3.51 इत्यनेन ककारादेशः] → उपनिषत्क [<<खरि च>> 8.4.55 इति चर्त्वम्] ज्ञातव्यम् - अस्मिन् गणे 'धनुर्दण्ड' शब्दः निर्दिष्टः अस्ति । अस्य विषये काशिकाकारः वदति - 'धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम्'। इत्युक्ते, 'धनुर्दण्ड' इत्यनेन सह 'धनुष्' तथा 'दण्ड' - एतयोः अप्यत्र समावेशः कर्तव्यः । यथा - धनुषा जीवति सः धानुष्कः । दण्डेन जीवति सः दाण्डिकः । धनुर्दण्डेन जीवति सः धानुर्दण्डिक ।
<<वेतनादिभ्यो जीवति>> - वेतनादिभ्यो जीवति ।जीवतीत्यर्थे तृतीयान्तेभ्यष्ठ॑गिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुष्क इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् ।
धनुर्दण्डग्रहणं सङ्घातविगृहीतार्थमिति । तन्त्रावृत्येकशेषाणामन्यतमाश्रयणात् ॥