शिल्पम्

4-4-55 शिल्पम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य

Sampurna sutra

Up

'तदस्य शिल्पम्' (इति) समर्थानां प्रथमात् परः ठक् तद्धितप्रत्ययः

Neelesh Sanskrit Brief

Up

'अस्य शिल्पम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।

Kashika

Up

तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति॥

Siddhanta Kaumudi

Up

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥

Laghu Siddhanta Kaumudi

Up

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥

Neelesh Sanskrit Detailed

Up

'शिल्पम्' इत्युक्ते कौशल्यम् / प्रावीण्यम् । यस्य प्राविण्यम् विद्यते, तस्य निर्देशार्थम् 'यस्मिन् प्राविण्यम् विद्यते' तादृशात् प्रथमासमर्थात् ठक्-प्रत्ययः भवति । यथा - 1. मृदङ्गवादनं शिल्पमस्य सः = मृदङ्ग + ठक् → मार्दङ्गिकः । 2. वीणावादनं शिल्पमस्य सः = वीणा + ठक् → वैणिकः । 3. पणववादनं शिल्पमस्य सः = पणव + ठक् → पाणविकः । ज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि कौशलम् तु 'वादनम्' इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु वाद्यवाचिशब्दात् विधीयते, न हि वादनवाचिशब्दात् । अस्मिन् विषये न्यासकारः वदति - 'मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः।' इत्युक्ते अत्र 'मृदङ्ग'शब्देन 'मृदङ्गवादनम्' इत्यस्यैव अर्थस्य ग्रहणं भवति करणीयं च ।

Balamanorama

Up

<<शिल्पम्>> - शिल्पम् । तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु 'मार्दङ्गिक' इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात् । तत्राह — मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः ।

Padamanjari

Up

कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति । ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह - मृदङ्गेत्यादि । मृदङ्गवादनशब्दातु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृतेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ॥