निकटे वसति

4-4-73 निकटे वसति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत्र

Sampurna sutra

Up

index: 4.4.73 sutra: निकटे वसति


'निकटे वसति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.73 sutra: निकटे वसति


सप्तमीसमर्थात् 'निकट' शब्दात् 'वसति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.73 sutra: निकटे वसति


निकटशाब्दात् सप्तमीस्मर्थात् वसति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। यस्य शास्त्रतो निकटवासस् तत्र अयं विधिः। आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यम् इति शास्त्रम्। निकटे वसति नैकटिको भिक्षुः।

Siddhanta Kaumudi

Up

index: 4.4.73 sutra: निकटे वसति


नैकटिको भिक्षुः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.4.73 sutra: निकटे वसति


नैकटिको भिक्षुकः ॥ इति ठगधिकारः ॥७ ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.73 sutra: निकटे वसति


यः कोऽपि शास्त्रनियमान् उल्लङ्घ्य निकटं वसति, तस्य निर्देशं कर्तुम् 'निकट' शब्दात् 'ठक्'प्रत्ययः भवति ।

यथा - 'आरण्यके भिक्षुणा ग्रामात् कोशे वस्तव्यम्' इति शास्त्रम् विद्यते । इत्युक्ते, भिक्षुः नित्यम् वने एव निवसेत्, तथा ग्रामात् 'एकं कोशं' इति दूरम् एव निवसेत् । परन्तु यदि कश्चन भिक्षुः एतम् नियममुल्लङ्घ्यम् ग्रामस्य निकटे वसति, तर्हि तस्य निर्देशं कर्तुम् 'निकट' शब्दात् ठक्-प्रत्ययः भवति । निकटे वसति सः नैकटिकः भिक्षुः ।

Balamanorama

Up

index: 4.4.73 sutra: निकटे वसति


निकटे वसति - निकटे वसति । अस्मिन्नर्थे सप्तम्यन्तातन्निकटशब्दाट्ठगित्यर्थः । नैकटिको भिक्षुरिति । ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शास्त्रमुल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । अत्र व्याख्यानमेव शरणम् ।

Padamanjari

Up

index: 4.4.73 sutra: निकटे वसति


अरण्यं निवासे यस्य स आरण्यकः, ठरण्यान्मनुष्येऽ इति वुञ् । भिक्षुः - संन्यासी । ग्रामात्क्रोशे इति ।'यतश्च निर्द्धारणम्' इति पञ्चमी । अयं च विविषोऽभिधानस्वभावाल्लभ्यते ॥