7-3-20 अनुशतिकादीनां च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वपदस्य
अनुशतिक इत्येवमादीनां चाङ्गानां पूर्वपदस्य चोत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। अनुशतिकस्येदम् आनुशातिकम्। अनुहोडेन चरति आनुहौडिकः। अनुसंवरणे दीयते आनुसांवरणम्। अनुसंवत्सरे दीयत आनुसांवत्सरिकः। अङ्गारवेणुर्नाम कश्चित् तस्यापत्यम् आङ्गारवैणवः। असिहत्य — तत्र भवम् आसिहात्यम्। अस्यहत्य इति केचित् पठन्ति, ततोऽपि विमुक्तादित्वादण् ५.२.६१। अस्यहत्यशब्दोऽस्मिन्नध्यायेऽस्ति आस्यहात्यः। अस्यहेतिरित्येवमपरे पठन्ति। अस्यहेतिः प्रयोजनमस्य आस्यहैतिकः। अत एव वचनादस्य समुदायस्य प्रातिपदिकत्वं विभक्तेश्चालुक् । वध्योग इति बिदादिः ४.१.१०४ अयं तस्यापत्यं वाध्यौगः। पुष्करसत्, अनुहरत् एतौ बाह्वादिषु ४.१.९६ पठ्येते। पौष्करसादिः। आनुहारतिः। कुरुकत गर्गादिः ४.१.१०५ कौरुकात्यः। कुरुपञ्चाल — कुरुपञ्चालेषु भवः कौरुपाञ्चालः। जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति वुञ् न भवति। उदकशुद्धस्यापत्यम् औदकशौद्धिः। इहलोक। परलोक। तत्र भव ऐहलौकिकः। पारलौकिकः। <<लोकोत्तरपदस्य>> (४.१.६० वा०) इति ठञ्। सर्वलोक। तत्र विदितः सार्वलौकिकः। सर्वपुरुषस्येदं सार्वपौरुषम्। सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः। प्रयोग। तत्र भवः प्रायौगिकः। परस्त्री। पारस्त्रैणेयः। <<कुलटाया वा>> ४.१.१२७ इतीनङ्। <<राजपुरुषात् ष्यञि>> (ग०सू० १७९)। राजपौरुष्यम्। ष्यञीति किम्? राजपुरुषस्यापत्यं राजपुरुषायणिः। <<उदीचां वृद्धादगोत्रात्>> ४.१.१५७ इति फिञ्। शतकुम्भ सुखशयनादयः। शतकुम्भे भवः शातकौम्भः। सौखशायनिकः। पारदारिकः। सूत्रनडस्यापत्यं सौत्रनाडिः। आकृतिगणश्चायमिष्यते। तेनेदमपि सिद्धं भवति — अभिगममर्हति आभिगामिकः। अधिदेवे भवमाधिदैविकम्। आधिभौतिकम्। चतस्र एव विद्याः चातुर्वैद्यम्। स्वार्थे ष्यञ्॥ अनुशतिक। अनुहोड। अनुसंवरण। अनुसंवत्सर। अङ्गारवेणु। असिहत्य। वध्योग। पुष्करसत्। अनुहरत्। कुरुकत। कुरुपञ्चाल। उदकशुद्ध। इहलोक। परलोक। सर्वलोक। सर्वपुरुष। सर्वभूमि। प्रयोग। परस्त्री। राजपुरुषात् ष्यञि (ग०सू० १७९)। सूत्रनड। अनुशतिकादिः॥
एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥
एषामुभयपदवृद्धिर्ञिति णिति किति च। आधिदैविकम्। आधिभौतिकम्। ऐहलौकिकम्। पारलोकिकम्। आकृतिगणोऽयम्॥
<<अनुशतिकादीनां च>> - अनुशतिकादीनां च । आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् । तदाह — एषामिति । आधिदैविकमिति । देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः । ठञि उभयपद वृद्धिः । आधिभोतिकमिति । भूतेष्वधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति । इह लोके भवमित्यर्थः । पारलौकिकमिति । परलोके भवमित्यर्थः । सर्वत्र ठञि उभयपदवृद्धिः ।
आनुशातिकमिति । शतेन क्रीतं शतिकम्,'शताच्च ठन्यतावशते, इति ठन्, अनुगतः शतिकेन अनुशतिकः, ततः'तस्येदम्' इत्यण । आनुहौडिकं इति ।'चरति' इति ठक् । आनुसांवरणमिति ।'तत्र च दीयते कार्यं भववत्' इत्यण् । आनुसांवत्सरिकमिति ।'बह्वचो' न्तोदाताट्ठञ्' । कुरुकत-शब्दो गर्गादिः । सार्वलौकिकमिति ।'लोकसर्वलोकाभ्यां ठञ्' । सार्वभौम इति ।'सर्वभूमिपृथिवीभ्यामणञौ' । प्रयोगाधिदेवाधिभूतेत्यध्यात्मादयः । कुलटाया वेतीनङिति । अपपाठोऽयम्, तत्र हि स्वरूपग्रहणम्, । कल्याण्यादिषु परस्त्रीशब्दः पठ।ल्ते, तस्मात् कल्याण्यादीनामिनङिति पाठः । चातुर्वैद्यमिति । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्, ताः पुनश्चरस्रो विद्याःउचत्वारो वेदाः ॥