प्रयच्छति गर्ह्यम्

4-4-30 प्रयच्छति गर्ह्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

'तत् गर्ह्यम् प्रयच्छति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'गर्ह्यम् प्रयच्छति' इत्यर्थे द्वितीयासमर्थात् ठक्-प्रत्ययः भवति ।

Kashika

Up

तदिति द्वितीयासमर्थात् प्रयच्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति, यत् तद् द्वितीयासमर्थं गर्ह्यं चेत् तद् भवति। द्विगुणार्थं द्विगुणम्, तादर्थ्यात् ताच्छब्द्यम्। द्विगुणं प्रयच्छति द्वैगुणिकः। त्रैगुणिकः॥ वृद्धेर्वृधुषिभावो वक्तव्यः॥ वार्धुषिकः। प्रकृत्यन्तरं वा वृद्धिपर्यायो वृधुषिशब्दः। गर्ह्यमिति किम्? द्विगुणं प्रयच्छत्यधमर्णः॥

Siddhanta Kaumudi

Up

द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः ।<!वृद्धेर्वृधुषिभावो वक्तव्यः !> (वार्तिकम्) ॥ वार्धुषिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'गर्ह्यम्' इत्युक्ते 'निन्द्यम् / धर्मशास्त्रविरुद्धम्' । 'प्रयच्छति' इत्युक्ते ददाति । यत्र नियमबाह्यरूपेण (= निन्द्यरूपेण) किञ्चन दीयते, तत्र दातुः निर्देशं कर्तुम् द्वितीयासमर्थात् ठक्-प्रत्ययः भवति । यथा - द्विगुणं प्रयच्छति सः = द्विगुण + ठक् → द्वैगुणिकः धनिकः । अत्र प्रयुक्तः 'द्विगुण'शब्दः 'द्विगुणार्थम् यत् दीयते' तस्य निर्देशं करोति । यदि कश्चन धनिकः 'द्विगुणं कृत्वा पुनः स्वीकरिष्यामि' इति चिन्तयित्वा ऋणं ददाति, तर्हि तत् दानम् निन्द्यम् / धर्मशास्त्रविरुद्धमस्तीति मन्यते । अतः अत्र 'द्विगुणम्' इति गर्ह्यमस्ति, अतः वर्तमानसूत्रेण तस्मात् ठक्-प्रत्ययं कृत्वा 'द्वैगुणिक' इति प्रातिपदिकं सिद्ध्यति । यः धनिकः गर्ह्यं द्विगुणं प्रयच्छति, सः 'द्वैगुणिकः धनिकः' । तथैव - त्रिगुणं (गर्ह्यम्) प्रयच्छति सः = त्रिगुण + ठक् → त्रैगुणिकः धनिकः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!वृद्धेः 'वृधुषि'भावः वक्तव्यः!> । इत्युक्ते, 'वृद्धि'शब्दात् 'गर्ह्यम् प्रयच्छति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति, तथा 'वृद्धि'शब्दस्य 'वृधुषि' इति आदेशः भवति । वृद्धि + ठक् → वृधुषि + ठक् → वार्धुषिक / वार्द्धुषिक । वृद्धिं गर्ह्यं प्रयच्छति सः वार्धुषिकः । (वृद्ध्यर्थं यत् दीयते तस्यापि 'वृद्धि' इत्येव संज्ञा । तस्मात् अत्र प्रत्ययविधानं क्रियते ।)

Balamanorama

Up

<<प्रयच्छति गर्ह्यम्>> - प्रयच्छति गह्र्रम् । तदिति द्वितीयान्तमनुवर्तते । गर्ह्रं प्रयच्छतीत्यर्थे द्वितीयान्ताट्ठगित्यर्थः । द्विगुणार्थं द्रव्यं द्विगुणमिति । द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षितमित्यर्थः । तत्प्रय्च्छति द्वैगुणिक इति । द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः ।अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धकः॑ इत्यादिधर्मशास्त्रविरुद्धत्वादिह गह्र्रमिति भावः । वृद्धेरिति । वृद्धिशब्दादुक्तार्थे ठकि प्रकृतेत्र्रधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धुषिक इति । वृद्ध्यर्थं द्रव्यं-वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दाट्ठक इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः ।वृद्ध्याजीवस्तु वार्धुषि॑रिति तु प्रमाद एव ।

Padamanjari

Up

द्विगुणार्थं द्विगुणमिति । द्वैगुणिक उतमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्ह्येकगुणं दत्वा द्विगुणं गृह्णाति, अत एव तद्गर्ह्यं भवतीति । तस्माद् द्विगुणार्थे द्विगुणशब्दो वर्तयितव्यः । वार्धुषिक इति । वृद्ध्यर्थे धने वृद्धिशब्दः । प्रकृत्यन्तरमेवेति । एतच्च वार्धुषिक इत्येतद्वृत्तिविषयमेव । नियतविषया अपि हि शब्दा भवन्ति, वृद्धिशब्दादनभिधानान्नैव भविष्यति, तेन वार्धिक इत्यनिष्टप्रसङ्गो नोद्भावनीयः । अत कथम्'वार्धुदासमकम्पत ववान्यस्य च वार्द्धुषेः' इति ? स्वच्छन्दवाच ऋषयः ॥