धर्मं चरति

4-4-41 धर्मं चरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

'तत् धर्मम् चरति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'चरति' अस्मिन् अर्थे द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति ।

Kashika

Up

धर्मशब्दात् तदिति द्वितीयासमर्थात् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिरासेवायां नानुष्ठानमात्रे। धर्मं चरति धार्मिकः॥ अधर्माच्चेति वक्तव्यम्॥ आधर्मिकः॥

Siddhanta Kaumudi

Up

धार्मिकः ।<!अधर्माच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ आधर्मिकः ॥

Laghu Siddhanta Kaumudi

Up

धार्मिकः <<अधर्माच्चेति वक्तव्यम्>> (वार्त्तिकम्)। आधर्मिकः॥

Neelesh Sanskrit Detailed

Up

यः धर्मम् चरति (धर्मसम्मतं वर्तनं करोति इत्यर्थः) तस्य निर्देशार्थम् द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति । धर्मं चरति सः धार्मिकः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अधर्मात् चेति वक्तव्यम्!> । इत्युक्ते, 'अधर्म' शब्दात् अपि ठक्-प्रत्ययः भवति । यथा - अधर्मं चरति सः = आधर्मिकः ।

Balamanorama

Up

<<धर्मं चरति>> - धर्मं चरति । चरतीत्यर्थे द्वितीयान्ताद्धर्मशब्दाट्ठगित्यर्थः । अधर्माच्चेतीति ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तदन्ताऽग्रहणादप्राप्ते आरम्भः ।

Padamanjari

Up

अधर्माच्चेति वक्तव्यमिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद्वचनम् । आधर्मिक इति । नञत्र विरोधिवचनः, पापाचार इत्यर्थः ॥