1-1-66 तस्मिन् इति निर्दिष्टे पूर्वस्य
'तस्मिन्' इति निर्दिष्टे पूर्वस्य
सूत्रेषु सप्तमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य पूर्वस्य कार्यम् भवति ।
The words in the सप्तमी विभक्ति are used to indicate that the कार्य happens on an immediately previous entity.
तस्मिन्निति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नोत्तरस्य। <<इको यणचि>> ६.१.७७ — दध्युदकम्। मध्विदम्। पचत्योदनम्। निर्दिष्टग्रहणमानन्तर्यार्थम्। अग्निचिदत्रेति व्यवहितस्य मा भूत्॥
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम्॥
अष्टाध्याय्याः इदम् परिभाषासूत्रम् अस्ति । भिन्नेषु सूत्रेषु यत्र सप्तमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् सप्तम्यन्तशब्दात् अव्यवहितस्य पूर्वस्य भवति (इत्युक्ते, विना व्यवधानम् पूर्वं यः शब्दः यत् वा शब्दस्वरूपं विद्यते, तस्यैव एतत् कार्यं भवति इत्याशयः) । सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते ।
<<तस्मिन्निति निर्दिष्टे पूर्वस्य>> - तस्मिन्निति निर्दिष्टे ।इको यणची॑त्यत्र अचि इको यण् स्यादित्यवगतम् । तत्राऽचो वर्णान्तराधिकरणत्वं न संभवतीति सतिसप्तम्याश्रयणीया,-अचि सति इको यण् स्यादिति । तत्र व्यवहितेऽव्यवहिते च इको यण् प्राप्तः । ततश्चसमिध॑मित्यत्र धकारल्यलहितेऽकारे सत्यरि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्तः । ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण् स्यात् । तत्राऽव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते । तस्मिन्निति न तच्छब्दः स्वरूपपरः । तथा सतितस्मिन्नणि च युष्माकास्माकौ॑ इत्यादावेव प्रवर्तेत, न त्विको यणचीत्यादौ । किन्तु इको यणचीत्यादिसूत्रगतस्याऽचीत्यादिसप्तम्यन्तपदस्यतस्मिन्नि॑त्यनुकरणम् ।इती॑त्यनन्तरं 'गम्येऽर्थे' इति शेषः । निरिति नैरन्तर्ये । दिशिरुच्चारणे । एवं च इको यणचि रायो हलीत्यादिसूत्रेषु इचि हलि इत्येवं सप्तम्यन्तपदगम्येऽर्तेऽकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टेऽव्यवहितोच्चारिते सति पूर्वस्य कार्यं भवति, न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः । व्यवधान#ं च वर्णान्तरकृतमेव निषिध्यते, नतु कालकृतम् ।इको यणची॑त्यादौ कालकृतव्यवधानस्य संहिताधिकारादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधिकारस्य वैयथ्र्यापातात् । एवं च ये संहिताधिकारबहिर्भूताः 'आनङृतो द्वन्द्वे'देवताद्वन्द्वे च॑ इत्यादय उत्तरपदे परत आनङादिविधयस्ते सर्वे अगनाविष्णू इत्यग्नाविष्णू इत्याद्यवग्रहे कालव्यवधानेऽपि भवन्ति । एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह — सप्तमीनिर्देशेनेत्यादिना । — इति सूत्राक्षरानुयायी पन्थाः ।अतिशयने तम॑बित्यत्र तु नेयं परिभाषा प्रवर्तते, सर्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाऽव्यवहितोच्चारितत्वरूपनिर्धिष्टत्वाऽसंभवात् । नचैवमपिकर्तृकर्मणोः कृती॑त्यत्रापि अस्याः परिभाषायाः प्रवृत्तौकर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यान्नतु 'कृतिः कृष्णस्य' 'कर्ता जगत' इत्यत्र इति वाच्यं, लक्ष्यानुरोधेन क्वचिदेवंजातीयकेष्वस्याः परिभाषाया अप्रवृत्तिरिति 'श्नान्नलोप' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । वस्तुतस्तु भाष्यानुसारेणाऽत्र सूत्रे निर्दिष्टग्रहणं संहिताधिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते ।
इतिकरणस्य गौरित्ययमाहेत्यादौ स्वरूपपदार्थकत्वेन व्यवस्थापकत्वादर्शनात् 'तस्मिन्नणि च' इत्यत्रोपातस्यैदमनुकरणम्, ततश्च तत्रैवास्य प्रवृत्तिः स्याद् । अस्ति च तत्र व्यवच्छेद्यं हे यौष्माकीणमस्मभ्यं देहि, आस्माकीनं युष्मभ्यं ददामीति परनिवृत्तिः, तामिनां भ्रान्तिमपाकरोति - तस्मिन्निति सप्तम्यर्थनिर्देश इति । एतेन 'तस्यापत्यम्' 'तत्र भवः' इत्यादिवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः, तद्वदेव तस्मिन्निति सामान्यविशेषणमचि, हलीत्यादीनामुपलक्षणम्; न त्वनुकरणमिति दर्शयति । एतच्चेतिकरणाल्लभ्यते । स हि पदार्थविपर्यासकृत् । शास्त्रे च स्वारुपपादर्थः, तस्य विपर्यासोऽर्थपदार्थकता । यदि च 'तस्मिन्नणि च' इत्यत्रैवैतदुपास्थास्यत तत्रैव पूर्वग्रहणमकरिष्यतेति भावः । किमर्थं पुनरिदमारभ्यते ? 'इको यणचि' इत्यादौ सन्देहः-किं सत्सप्तमी ? किं वा गङ्गायां घोष इति वदौपश्लेषिकाधिकरणे सप्तमी ? इति । तत्र सत्वं परस्य च पूर्वस्य च सम्भवति, एवमुपश्लेषोऽपि । तत्र पूर्वस्य परस्य च व्यवहितानन्तरस्य यण् प्राप्तः, दध्युदकादिषु तु युगपदेकस्य कार्यित्वनिमितत्वायोगात्पर्यायेण यण् प्राप्तः; इष्यते च पूर्वस्यैव स्यादनन्तरस्यैवेति, तत्र निमार्थमिदम् - सप्तमीनिर्देशे पूर्वस्य भवति अनन्तरस्यैवेति । 'इको यणचि' इत्यादेश्च सकृत्प्रवृत्तिः, सा चेवं विशोषितेति न क्वाप्यनिष्टशङ्का । तत्राद्यं नियमं दर्शयति-पूर्वस्यैवेति । व्यावत्यं दर्शयति-नोतरस्येति । पचत्योदनमिति । यद्यप्यत्रानियमप्रसङ्गो नास्ति, तथापि 'इको यणचि' इत्यस्मिन्सूत्रेऽनियमप्रसङ्गे नियमः क्रियत इत्येतदपि भवत्येवोदाहरणम् । द्वितीयं नियमं दर्शयति-निर्दिष्टग्रहणमिति । दिशिरुच्चारणक्रियः, निःशब्दो नैरन्तर्ये, निरन्तरं दिष्टो निर्दिष्ट इत्येवमानन्तर्यमर्थो भवति, तत्रैवं वचनव्यक्तिः-अचि हलीत्यादौ पूर्वस्यैव कार्यं भवति, तत्र निर्दिष्टे उ निरन्तर एवोच्चारित इति तत्रार्थात्पूर्वस्यानन्तरस्येत्यर्थो भवति । तदाह-व्यवहितस्य मा भूदिति । अन्यथा व्यवहिते मा भूदिति वक्तव्यम्; पूर्वपदस्य व्यवहितेऽपि वृतेस्तस्य प्रसङ्गात् ॥