6-3-1 अलुक् उत्तरपदे
index: 6.3.1 sutra: अलुगुत्तरपदे
अलुकिति च, उत्तरपदे इति च एतदधिकृतम् वेदितव्यम्। यदिति ऊर्ध्वमनुक्रमिष्यामोऽलुकुत्तरपदे इत्येवं तद् वेदितव्यम्। वक्ष्यति
index: 6.3.1 sutra: अलुगुत्तरपदे
॥ अथ अलुगुसमासप्रकरणम् ॥
अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥
index: 6.3.1 sutra: अलुगुत्तरपदे
अलुगुत्तरपदे - अथाऽलुक्समासो निरूप्यते — अलुगुत्तरपदे । नाऽयं विधिः, 'राजपुरुष' इत्यादावतिप्रसङ्गात्,पञ्चम्याः स्तोकादिभ्यः॑ इत्याद्यारम्भाच्च । किंतु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्याह-अलुगधिकारः प्रागानङ इति । 'आनङृतः' इत्यतः प्रागित्यर्थः । उत्तरपदेति । षष्ठस्य तृतीये पादे अद्यमिदं सूत्रम् । #इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोतत्रपदादिकारनियमे भाष्येमेव प्रमाणम् ।
index: 6.3.1 sutra: अलुगुत्तरपदे
अलुगिति चेत्यादि । प्रत्येकं स्वरितत्वप्रतिज्ञानं दशेयति, अस्य पोरयोजनम् - एकस्य निवृतावपरस्य निवृत्तिर्मा भूदिति । स्तोकान्मुक्त इति । करणे च स्तोकाल्पकृच्छ्र इत्यादिना पञ्चमी, स्तोकान्तिक इत्यादिना समासः । उतरपद इति किमिति । लुक् तावत्समास एव प्राप्तः प्रतिषिध्यते इति सामर्थ्यादुतरपद तैत्येतल्लभ्यते । नलोपो नञः इत्यादौ च न समासे इत्ययो हि समासग्रहणानुवृतेरुतरपदलाभात् नतरामित्यादौ नञो नलोपाद्यभावः सिद्ध इति पश्नः । निस्तोक इति । अत्रोतरपदभूतेभ्योऽपि स्तोकादिभ्यः परस्याः पञ्चम्या अलुक्प्रसङ्गः । ननु च लक्षणप्रतिपदोक्तपरिभाषया स्तोकादिभ्यः प्रतिपदं या पञ्चमी विहिता, यश्च तेषां प्रतिपदोक्तः समासस्तस्या एव तत्रैव वा लुग्भविष्यति, तत्किमेतन्निवृत्यर्थेनोतरपदग्रहणेन इत्यत आह - अन्यार्थमित्यादि । आनण्ःóतो द्वन्द्वे उतरपदे परतो यथा स्यात्, उतरपदस्य मा भूद् - होतापोतारौ, तान्यथा परमपि सर्वनामस्थानापेक्षत्वेन बहिरङ्गम ऋतो ङ् गुणिं बाधित्वा द्वन्द्वक्रियानन्तरप्राप्त आनङ् स्यात्, होतापोतृभ्यामित्यादौ च स्यादेव । तथा इको ह्रस्वोऽङ्यो गालवस्य इति उतरपदे यथा स्याद् , ग्रामणीरित्यादावुतरस्य पदस्य मा भूदित्येवमाद्यर्थमुतरपदाधिकारोऽवश्यं कर्तव्यः स इहैव क्रियेत, समासानुवृत्तिः - लक्षकणप्रतिपदोक्तपरिभाषा नाक्षयितव्या भवतीति । आ कुत तैमावधिकारौ इत्यपेक्षायामाह - अलुगधिकार इत्यादि । ऋकारान्तस्य ह्युतरपदेऽनन्तरे पितृपुत्र इत्यादौ आनङ भवितव्यम् । यदि चात्रालुक् स्याद्विभक्त्या व्यवधानं स्यात् । यद्वा - साक्षान्निर्दिष्टमानङदिकार्यं प्रकरणप्प्तस्यालुको निवर्तकमिति अलुगधिकारः प्रगानङ्ः तथाङ्गस्य विधीयमानं कार्यं यत्राङ्गमित्येतद्भवति तत्रैव भवति । कस्मिंश्चैतद्भवति प्रत्यये, न तूतरपद तथैति सामर्थ्याद् उतरपदाधिकारः प्रागङ्गाधिकारात् ॥