संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ

6-3-110 सङ्ख्याविसायपूर्वस्य अह्नस्य अहन् अन्यतरस्यां ङौ उत्तरपदे

Sampurna sutra

Up

संख्या-वि-साय-पूर्वस्य उत्तरपदे अह्नस्य ङौ अहन् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

संख्यावाचीशब्दात् परस्य , 'वि'शब्दात् परस्य, तथा 'साय'शब्दात् परस्य 'अह्न' शब्दस्य ङि-प्रत्यये परे विकल्पेन 'अहन्' आदेशः भवति ।

Neelesh English Brief

Up

When the word अह्न appears as an उत्तरपद in a समास where the पूर्वपद is either a number, or the words वि or साय, it is optionally converted to अहन् in presence of the प्रत्यय ङि.

Kashika

Up

संख्या वि साय इत्येवंपूर्वस्याह्नशब्दस्य स्थानेऽहनित्ययमादेशो भवत्यन्यतरस्यां ङौ परतः। द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। द्व्यह्नि, द्व्यहनि। त्र्यह्नि, त्र्यहनि। द्व्यह्ने। त्र्यह्ने। व्यपगतमहो व्यह्नः। व्यह्नि, व्यहनि, व्यह्ने। सायमह्नः सायाह्नः। सायाह्नि, सायाहनि, सायाह्ने। एकदेशिसमासः पूर्वादिभ्योऽन्यस्यापि भवतीत्येतदेव विसायपूर्वस्याह्नस्य ग्रहणं ज्ञापकम्। तेन मध्यमह्नो मध्याह्न इत्यपि भवति। संख्याविसायपूर्वस्येति किम्? पूर्वाह्णे। अपराह्णे॥

Siddhanta Kaumudi

Up

सङ्ख्यादिपूर्वस्याह्नस्याऽहनादेशो वा स्यान् ङौ । द्व्यह्नि । द्व्यहनि । द्व्यह्ने । विगतमहर्व्यह्नः । व्यह्नि । व्यहनि । व्यह्ने । अह्नः सायः सायाह्नः । सायाह्नि । सायाहनि । सायाह्ने । इत्यदन्ताः ॥ विश्वपाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यदि 'अह्न'-शब्दः कस्मिंश्चित् समस्तपस्य उत्तरपदे आगच्छति, तदा तस्य समस्तपदस्य पूर्वपदम् कश्चन संख्यावाची शब्दः अस्ति (यथा - एक, द्वि, त्रि आदयः), उत 'वि' शब्दः अस्ति, उत 'साय' शब्दः अस्ति, तर्हि सप्तमी-एकवचनस्य ङि-प्रत्यये परे 'अह्न' शब्दस्य वैकल्पिकः अहन्-आदेशः भवति । अग्रे [<<विभाषा ङिश्योः>> 6.4.136 इति वैकल्पिकः अकारलोपं कृत्वा 'अह्नि, अहनि' एते द्वे रूपे भवतः । अहन्-आदेशस्य अभावे तु 'राम'शब्दवत् 'अह्ने' इत्येव रूपम् भवति । कानिचन उदाहरणानि एतादृशानि - 1. 'द्व्योः अह्नोः भवः' अस्मिन् अर्थे <<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इत्यनेन तद्धितार्थः समासः जायते, येन 'द्व्यह्नः' इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् द्व्यह्ने, द्व्यह्नि, द्व्यहनि - एते भवन्ति । 2. 'व्यपगतमहः' अस्मिन् अर्थे <<कुगतिप्रादयः>> 2.2.18 इत्यनेन प्रादिसमासे कृते 'व्यह्नः' इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् व्यह्ने, व्यह्नि, व्यहनि - एतानि भवन्ति । 3. 'सायमह्नः' अस्मिन् अर्थे <<पूर्वपरावरोत्तरमेकदेशिनैकाधिकरणे>> 2.2.1 एकदेशीसमासे कृते 'सायाह्नः' इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् सायाह्ने, सायाह्नि, सायाहनि - एतानि भवन्ति । एतान् शब्दान् विहाय अन्यत् किमपि पूर्वपदमस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा, 'पूर्वाह्न' इत्यस्य सप्तम्येकवचनम् 'पूर्वाह्ने' इत्येव जायते ।

Balamanorama

Up

<<संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ>> - ङौ विशेषमाह — सङ्ख्याविसाय । सङ्ख्या च विश्च सायश्च सङ्ख्याविसायाः । ते पूर्वे यस्मादिति विग्रह इत्यभिप्रेत्याह — सङ्ख्येत्यादिना । सङ्ख्यापूर्वमुदाहरति — द्व्यह्नि द्व्यहनीति । अल्लोपे तदभावे च रूपम् । व्द्यह्ने इति । अहन्नादेशाऽभावे रूपम् । एवं विपूर्वमुदाहरति-विगतमिति ।प्रादयो गताद्यर्थे प्रथमये॑ति समासः । पूर्ववदह्नादेशः । सायपूर्वमुदाहरति-अहः साय इत्यादिना । अत एव ज्ञापकादेकदेशिसमासः । विआपा इति । आबन्तत्वाऽभावान्न सुलोपः । एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भावः । विआं पाति=रक्षतीत्यर्थे 'आतोऽनुपसर्गे कः' इति प्राप्ते वाऽसरूपन्यायेनआतो मनिन्क्वनिब्वनिपश्चे॑ति चकाराद्विच् । यद्यपि तत्रविदुपेश्छन्दसी॑त्यतश्छन्दसीत्यनुवर्तते तथापि वेदेऽनेन क्विच्, लोके तुअन्येभ्योऽपि दृश्यते॑ इति विच् । अन्ये तुक्विप्चे॑ति सूत्रेण क्विपमाहुः ।घुमास्थे॑तीत्त्वं तु न,वकारे ईत्त्वप्रतिषेधः॑ इति वार्तिकात् । क्वनिपि 'पावान' इत्येतदर्थं तस्यावश्यकत्वात् । क्विपस्त्वादन्तेभ्यो भाष्यानुक्तक्विब्भ्योऽनभिधानमेवेति शब्देन्दुशेखरे स्पष्टम् । अत एव भाष्येपावान॑इत्य्तर वनिपा रूपसिद्धिमाश्रित्यईत्त्वमवकारादाविति वक्तव्य॑मिति वार्तिकं प्रत्याख्यातम् । ततश्च 'विआपाः' इत्यत्र विजेव । विआपा-औ इति स्थितेप्रथमयोः पूर्वसवर्णः॑ इति प्राप्ते- ।

Padamanjari

Up