मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्

3-1-21 मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः णिच् प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् करणे

Kashika

Up

index: 3.1.21 sutra: मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्


मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्यः करणे णिच् प्रत्ययो भवति। मुण्डं करोति मुण्डयति। मिश्रयति। श्लक्ष्णयति। लवणयति। व्रतात् भोजने तन्निवृत्तौ च पयो व्रतयति। वृषलान्नं व्रतयति। वस्त्रात् समाच्छादने संवस्त्रयति। हलिं गृह्णाति हलयति। कलिं गृह्णाति कलयति। हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्यम्। अजहलत्। अचकलत्। कृतं गृह्णाति कृतयति। तूस्तानि विहन्ति वितूस्तयति केशान्। विशदीकरोति इत्यर्थः।

Siddhanta Kaumudi

Up

index: 3.1.21 sutra: मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्


कॄञर्थे । मुण्डं करोति मुण्डयति ।<!व्रताद्भोजनतन्निवृत्त्योः !> (वार्तिकम्) ॥ पयः शूद्रान्नं वा व्रतयति ।<!वस्त्रात्समाच्छादने !> (वार्तिकम्) ॥ संवस्त्रयति ।<!हल्यादिभ्यो ग्रहणे !> (वार्तिकम्) ।<!हलिकल्योरदन्तत्वं च निपात्यते !> (वार्तिकम्) ॥ हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति । कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाश - <{SK2563}> इत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धेः केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति ।<!अर्थवेदयोरप्यापुग्वक्तव्यः !> (वार्तिकम्) ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरूपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । उपसर्गात्सुनोति - <{SK2270}> इति षः । अभ्यषेणयत् । प्राक्सितात् - <{SK2276}> इति षः । अभिषिषेणयिषति । स्थादिष्वभ्यासेन च - <{SK2277}> इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुम् म्रदयति । अम्म्रदत् । भृशं कृशं दृढम् । भ्रशयति । क्रशयति । द्रढयति । अबभ्रशत् । अचकशत् । अदद्रढत् । परिव्रढत् । ऊढिमाख्यत् द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊढमाख्यत् । औजढत् । औडढत् । ओः पुयण्जि - <{SK2577}> इति सूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् । प्रकृत्यैकाच् <{SK2010}> । वृद्धिपुकौ । स्वापयति । त्वां मां वाऽऽचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः वृद्धिः पुक् । त्वादयति । मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाच् <{SK2010}> इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रोष्ठाद्युदाहरणविशेषेऽऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धिते <{SK679}> इति टिलोपः । प्रकृतिभावस्तु न येन नाप्राप्तिन्यायेन टेः <{SK1786}> इत्यस्यैव बाधको हि सः । भत्वाकत्संप्रसारणम् । अन्ये तु । नस्तद्धिते <{SK679}> इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् । टेः <{SK1786}> इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे । विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणं नेत्येके । संप्रासारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चामाचष्टे उदीचयति ॥ उदैचिचत् । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्णे - <{SK91}> इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । समिअचिचत् । तिर्यञ्चामाष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेमनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्र - <{SK2183}> इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे साध्राययति । अससध्रायत् । विष्वद्यञ्चम् । अविविष्वद्रायत् । देवद्र्यञ्चम् देवद्राययति । अदिदेवद्रायत् । अदद्र्यञ्चम् । अददद्रायत् । अदमुयञ्चम् । अदमुआययति । आददमुआयत् । अमुमुयञ्चम् । अमुमुआययति । चङ् । आमुमुआययत् । भुवम् भावयति । अबीभवत् । भ्रुवमबुभ्रवत् । श्रियमशिश्रयत् । गामजूगवत् । रायमरीरयत् । नावमनूनवत् । स्वश्वम् स्वाशश्वत् । स्वः ॥<!अव्ययानां भमात्रे टिलोपः !> (वार्तिकम्) ॥ स्वयति । असस्वत् । असिस्वत् । बहून् भावयति । बहयतीत्यन्ये विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीत् । पयस्यति । इह टिलेपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि दूरयत्यवनते विवस्वतीति । दूरमतति अयते वा दूरात् । दूरातं कूर्वतीत्यर्थः । युवानं यवयति कनयति । युवाल्पयोः - <{SK2019}> इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्फिरं स्फापयति । उरुं वरयति । वारयति । बहुलं बंहयति । गुरुं गरयति । तृप्रं त्रापयति । दीर्घं द्राघयति । वृन्दारकं वृन्दयति ॥। इति तिङन्तनामधातुप्रकरणम् ।

Balamanorama

Up

index: 3.1.21 sutra: मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्


मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् - मुण्डमिश्र । कृञर्थे इति । शेषपूरणमिदम्,शब्दवैरे॑त्तः करणे इत्यनुवृत्तेरिति भावः । व्रताद्भोजनेति वार्तिकम् । पयः शूद्रान्नं वा व्रतयतीति । पयो भुङ्क्ते, शूद्रान्नं वर्जयतीत्यर्थः । वरुआआत्समाच्छादने — इत्यपि वार्तिकम् । भाष्ये तु न दृश्यते । संवरुआयतीति । वरुओण सम्यगाच्छादयतीत्यर्थः॥ वरुआं परिधत्ते इति वा । हल्यादिभ्यो घणे — इति वार्तिकम् । भाष्ये तु न दृश्यते । हलिकल्योरिति । हलिकली इदन्तौ । हलकलशब्दावदन्तौ, अकारे इष्ठवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताब्यां लडादीति भावः । महद्धलं हलिरिति । अत्र वृद्धप्रयोगोऽन्वेषणीयः । अचकलदित्यत्र सन्वत्त्वाऽप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम्, इकारलोपेऽप्यग्लोपित्वसिद्धेरित्यत आह — परत्वादिति । इकारस्य णौ इष्ठवत्त्वे टिलोपात्प्रागेव परत्वात्अचो ञ्णिती॑ति वृद्धौ कृतायामैकारस्य इष्ठवत्त्वाट्टिलोपेऽग्लोपित्वं न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद्वृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः । अत इति । अग्लोपित्वात्सन्वत्त्वम्,दीर्घो लघो॑रिति दीर्घश्च नेत्यर्थः । कृतं गृह्णातीति । उपकारं स्वीकरोतीत्यर्थः । पठितुं य#उक्ता इति । लाघवादेकसूत्रत्वं युक्तमित्यर्थः । केषांचिदिति । मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽपीति । अन्यथा णिजन्तस्याऽस्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज्न भवेत्, सविशेषमानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनग्र्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्यतीत्यर्थः । स्पष्टं चेदं 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थ मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः । 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः ।सुप आत्मनः इति सूत्रभाष्ये तुमुण्डयति माणवक॑मित्यत्र गमकत्वाण्णिच्,महान्तं पुत्रमिच्छती॑त्यादौ त्वगमकत्वान्न क्यजित्युक्तम् । तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वरुआमिति । निर्मलं करोतीत्यर्थः । लवणयति व्यञ्जनमिति । लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति । एवं च ताभ्यां सापेक्षभ्यां न णिच्, तद्ग्रहणस्य अदन्तत्वनिपातनेन चरितार्थत्वादिति भावः । ननु सत्यशब्दा॒त्तत्करोती॑ त्यादिनैव णिच् सिद्धेःसत्यापे॑ति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह- सत्यस्यापुगर्थमिति । केषांचिदिति । पाशादीनामित्यर्थः । सत्यापयतीति । आपुग्विधिसामर्थ्यान्न टिलोपः । पाशं विमुञ्चतीत्यादौप्रातिपदिकाद्धात्वर्थे॑ इति णिच् । अभिषिषेमयिषतीति । अभिषेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचं गृह्णाति त्वचयतीति कथम् । त्वच्छब्दाच्चकाराण्णिचि टिलोपे त्वयतीत्यापत्तेरित्यत आह — त्वचेति । 'त्वच संवरणे' इत्यस्मात्पुंसि संज्ञायां घः प्रायेणे॑ति घप्रत्ययय इत्यर्थः । पुंवद्भावादय इति.आदिना रभावटिलोपादिग्रहणम् । एतयतीति । 'भस्याऽढे' इति पुंवत्त्वस्य इष्ठनि प्रवृत्तेर्णावपि तस्याऽतिदेशात्वर्णादनुदात्तादिति स्त्रीप्रत्ययस्य, तत्संनियोगशिष्टनत्वस्याऽपि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसात्पुंवद्भावे उदाहरणान्तरमाह - दरदमिति । दरदिति कश्चिद्राजा, तस्यापत्यं दारदः ।द्व्यञ्मगधे॑त्यण् । स्त्र्यपत्ये तु दरदोऽपत्यं स्त्री दरत् ।अतश्चे॑त्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्टवत्त्वात् पुंवत्त्वेन स्त्रियामित्यनुवृत्तौअतश्चे॑ति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दादयतीति रूपं सिध्यति । पुंवद्भावाऽभावे तु दरच्छब्दस्य टिलोपे सति दरयतीति स्यादिति भावः । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धि ।पृथुं मृदुं भृशं चैव, कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् । इति । क्रमेणोदाहरति — पृथुमिति । 'आचष्टे' इति शेषः । प्रथयति । तत्र प्रक्रियां दर्शयति — वृद्धौ सत्यामिति । पृथु इ इति स्थिते परत्वाद्वृद्धौ कृतायां टिलोपः । अथवा कृतायामकृतायां च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धेः प्राक्टिलोपः । उभयथापिर ऋतः इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्त्वकृतायां वृद्धौ उकारस्य लोपः, कृतायां तु औकारस्य लोपः । तथा चशब्दान्तरस्य प्राप्नुवन् विधिरनित्यः॑ इति टिलोपोऽनित्यः । ततश्च परत्वाट्टिलोपात् प्राग्वृद्धिरेवेतिमुण्डमिश्रे॑ति सूत्रे भाष्ये स्थितम् ।वृद्धौ सत्यां पूर्वं वा टिलोप॑ इति मूलं तु कृताऽकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् । अपिप्रथदिति । वृद्धौ सत्यां टिलोप#ए अग्लोपित्वाऽभावात् सन्वत्त्वे 'सन्यतः' इति इत्त्वमिति भावः । अपप्रथदिति । वृद्धेः पूर्वं टिलोपेन उकारस्य निवृत्तावग्लोपित्वात्सन्वत्त्वान्वत्त्वाऽभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्वं पश्चाद्वा टिलोपेऽपि अग्लोपित्वान्न सन्वत्त्वमिति भावः । औजिढदिति । वहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः । तस्माण्णौ टिलोपे ऊढि इतिण्यन्ताल्लुहि चङि आटि वृद्धौ औढि अ त् इति स्थिते प्रक्रियां दर्शयति- ढत्वादीनामिति । ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात्अजादेर्द्वितीयस्ये॑ति ह्तशब्दस्य द्वित्वमित्यर्थः । इत्युक्तमिति ।लुग्विकरणप्रक्रियायां ऊर्णुञ्धाता॑विति शेषः । एवं च ह् तिशब्दस्य द्वित्वे हलादिशेषेकुहोश्चु॑रिति हस्य चुत्वमिति भावः । ढिशब्दस्येति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इत्स्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाऽभावादिति भावः । ऊढमाख्यदिति । वहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दाण्ण्यन्ताल्लुङि चङि ढत्वादीनामसिद्धत्वात्ह् ते॑त्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् । औडढदिति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इति ढत्वादीनामसिद्धत्वाऽभावपक्षे ढशब्दस्य द्वित्वे रूपम् । नन्विह परत्वाट्टिलोपे सति णिच्सहितस्य ह् तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह — ओः पुयणित्यादि । स्वशब्दाण्णिचि टिलोपमाशङ्क्याह — प्रकृत्यैकाजिति । प्रकृतिभावाट्टिलोपाऽभावे अकारस्य वृद्धौ आकारे पुगागमः । तदाह — वृद्धिपुकाविति । त्वापयति मापयतीत्यत्र प्रक्रियां दर्शयति — मपर्यन्तस्येति । युष्मदस्मद्भ्यां णौप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तसय् त्वमौ । त्व अद् इ, म अद् इ, इति स्थिते आह — पररूपादिति । कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वं बोध्यम् । त्व इ म इ इति स्तिते आह — वृद्धिरिति । अकारस्य आकारः । टिलोपस्य स्थानिवत्तवं तु न शङ्क्यम्, अजादेशत्वाऽभावात् । पुगिति ।अर्ती॑त्यनेनेति भावः । तदेवं प्राचीनमतमुपन्यस्यस्वमतमाह — त्वादयतीत्यादिना । तदेवोपपादयति — अन्तरङ्गत्वादिति । त्व अद् इ, म अद् इ, इति स्थिते नित्यमपि टिलोपं बाधित्वा अन्तरङ्गत्वात्पररूपे कृतेप्रकृत्यैका॑जिति प्रकृतिभावे टिलोपस्याऽप्रवृत्तौ उपधावृद्धिरिति भावः । ननु इष्ठेमेयस्सु किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ट इत्युदाहरणानि प्रदश्र्य,नैतदस्ति प्रयोजनंप्रस्थस्फे॑ति विहित प्रादीनामाभीयत्वेनाऽसिद्धतया तत्र टिलोपाऽप्रसक्ते॑ रित्युक्त्वा, श्रेयान् श्रेष्ठ इत्यत्र 'प्रशस्यस्य श्रः' इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनाऽसिद्धत्वाऽभावाट्टिलोपे प्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तरं प्रदश्र्य॑श्रादेशे अकारोच्चारणसामर्थ्याट्टिलोपो न भविष्यती॑त्युक्त्वा, रुआग्वितमः रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति लुकि टिलोपनिवृत्त्यर्थं प्रकृतिभावविधानमित्युक्त्वा, प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यती॑ति 'प्रकृत्यैका' जित्यस्य् भाष्ये प्रत्याख्यातत्वात्त्वादयति मादयतीत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्क्य निराकरोति — न चेत्यादि । कुत इत्यत आह — भाष्यस्येति । उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्यं, न तु प्रकृततिभावप्रत्याख्यानमभिमतम्, स्वमाचष्टे स्वपायतीत्यादौ तदावश्यकत्वात् । अत एवप्रकृत्यैकाजिष्ठेमेयस्सु चेन्नैकाच उच्चारणसामर्थ्यादवचनात्पर्कृतिभावः॑ इति वार्तिकव्याख्यावसरेअन्तरेणापि वचनं प्रकृतिभावो भविष्यती॑ति भाष्ये उक्तम् । अन्यथा 'अन्तरेणैव वचन' मित्युच्येतेत्यास्तां तावत् ।प्रत्ययोत्तरपदयोश्चे॑त्यत्र 'एकवचने' इत्यनुवृत्तम् । तच्च यौगिकमाश्रीयते । तेन एकत्वविशिष्टवाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वाऽऽह युवामावां वेति । न च द्वयोरुक्तौ युवावादेशौ शङ्क्यौ, विभक्तेर्लुका लुप्तत्वात् । न च लुकः प्रागेव युवावौ किं न स्यातामिति वाच्यम् ।अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते॑ इत्युक्तेरिति भावः । शावयतीति । आआनमाचष्टे इत्यर्थः । आन्शब्दाण्णौ आन् इ इति स्थिते आह — नस्तद्धिते इति ।प्रकृत्यैका॑जिति प्रकृतिभावमाशङ्क्याह — प्रकृतिभावस्तु नेति । कुत इत्यत आह — येनेति ।टे॑रिति टिलोपे प्राप्ते सत्येवप्रकृत्यैका॑जित्यारभ्यते, 'नस्तद्धिते' इत्यस्य रुआजिष्ठ इत्यादावप्राप्तावपि प्रकृतिभाव आरभ्यते इति भावः । भत्वादिति । इष्ठवत्त्वेन भत्वात्आयुवे॑त संप्रसारणमित्यर्थः । तथा च आन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनाऽसिद्धत्वादन्नन्तत्वाद्वस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धावावादेशः । अन्येत्विति । इष्ठनि दृष्टस्यैव इष्ठवदित्यतिदेशः । टेरित्येव टिलोप इष्ठनि दृष्टो, न तु॑ 'नस्तद्धिते' इति । अतो नाऽस्यातिदेश इत्यर्थः । नन्वतिशयेन ब्राहृआ ब्राहिऋष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह — ब्राहिऋष्ठ इत्यादाविति । तेनेति । 'नस्तद्धिते' इत्यस्याऽप्रवर्तनेनेत्यर्थः । ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याऽभावे संप्रसारणे शुनयतीति रूपमित्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु ब्राहृवच्छब्दादिष्ठानि टेरिति टिलोपापवादेविन्मतोर्लु॑गिति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव । ततश्चइष्ठनि तस्याऽदृष्टत्वा॑ दित्यत्युक्तम् । किं चब्राहिऋष्ठ इत्यादौ परत्वाट्टेरित्यस्य प्रवृत्ति॑रित्ययुक्तम्, केवलस्य ब्राहृन्शब्दस् वेदादिवचनस्य गुणवचनत्वाऽभावेन इष्ठनो दुर्लभत्वात्,अजादी गुणवचनादेवे॑त्युक्तेः । मत्वन्तादिष्ठनि तु मतोर्लुकि तेनटे॑रित्यस्य प्रवृत्तिबाधेन लुगुत्तरं तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् । विद्वयतीति । विद्वस् शब्दाण्णौ टिलोपः । ननु इष्ठवत्त्वाद्भत्वेवसोः संप्रसारण्मित्याशङ्क्याह — अङ्गवृत्तेति ।अङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यमिति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्रटे॑रित्यसो लोपे वस्वन्तत्वाऽभावात्संप्रसारणाऽप्रसक्तेरङ्गवृत्तपरिभाषोपन्यासो वृथेत्यस्वरसं सूचयति — इत्येके इति । संप्रासरणे इति । विद्वच्छब्दाम्णौ इष्ठवत्त्वेन टिलोपे कृते वकारस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्य्नते इत्यर्थः । अत्रापि पूर्ववदेवाऽस्वरसः, टिलोपे सति वस्वन्तत्वाऽभावात् । नित्यत्वादिति । टिलोपे कृते अकृते च प्रवृत्तेः संप्रसारणं नित्यम् । टिलोपस्तु कृते संप्रसारणे पूर्वरूपे च कृते उसो भवति, अकृते तु अस इत्यनित्यः,शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायादिति भावः । ननु कृतेऽपि संप्रासरणे पररूपात्प्राक् अस एव टिलोप इति तस्यनित्यत्वमित्यत आह — अन्तरङ्गत्वात्पूर्वरूपं टिलोप इति । संप्रसारणे पूर्वरूपे च कृते उसो लोपेऽपि वस्वन्तत्वस्य विनङ्क्ष्यत्त्वान्न संप्रसाणमित्यस्वरसं सूचयति — इत्यपरे इति । एवं च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्तपिरभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति । उत्पूर्वकादञ्चेः ऋत्विगित्यादिना क्विनिअनिदिता॑मिति नलोपे उदच्शब्दः । तस्माण्णौ इष्ठवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वाउद ई॑दिति ईत्त्वेउदीची॑ति ण्यन्ताल्लडादय इति भावः । उदैचिदिति । लुङिद्विर्वचनेऽची॑ति णिलोपनिषेधाच्चिशब्दस्य द्वित्वम् ।उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते॑ इत्युक्तेरुद उपर्याडिति भावः । एवं च उदः पृथक्करणेनप्रकृत्यैकाजिति प्रकृतिभावान्न टिलोपः । प्रतीचयतीति । 'अच' इत्यल्लोपे 'चौ' इति पूर्वस्य दीर्घः । प्रत्यचिचदिति । इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नाऽसिद्धत्वम्, लोपस्य णिनिमित्तत्वात्, आटस्तु लुङ्निमित्तत्वात् । इकोऽसवर्णे इतीति । 'न समासे' इति तु न, पृथक्करणेन समासनिवृत्तेः । समीचयतीति । 'समःसमि' इति सम्यादेशः । 'अच' इति लोपे 'चा' विति दीर्घः । सम्यचिचदिति । सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम्, पृथक्करणेन उत्तरपदपरत्वाऽभावेऽप्य्नतरङ्गत्वाज्जातः सम्यादेशो न निवर्तते । तिराययतीति ।तिर॑सित्यव्ययम् । तत्पूर्वादञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोर्निवृत्तौ 'तिरसस्तिर्यलोपे' इति तिरिभावे इकारस्य वृद्धावायादेशे 'तिरायी' त्यस्माण्ण्य्नताल्लडादीति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । नन्वस्तु तिरसस्तिरिः, तत्र रेफादकारस्य टेरिति लोपः स्यादित्यत आह — असिद्धवदवेति । प्रथमटिलोपोऽसिद्ध इत्यन्वयः । तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटेर्लोपःतिरे टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथं तिरेष्टिलोपे कर्तव्ये असिद्धत्वं, टिलोपशास्त्रस्य एकत्वादित्यत आह — चिणो लुङ्न्यायेनेति । पचधातोर्भावकर्मणोर्लुङस्तङि प्रथमपुरुषैकवचने तशब्दे परेचिण् भावकर्मणो॑रिति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात्तिङश्चे॑ति तरपि तदन्तात्किमेत्तिङव्ययघादा॑मित्याम्प्रत्यये अपाचिततरामिति स्थितेचिणो लु॑गिति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति, स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकोऽसिद्धत्वेन व्यवधानादिति स्थितिः । एवमिहापीत्यर्थः । अत इति । प्रतमटिलोपस्याऽसिद्ध्त्वादित्यर्थः । अङ्गवृत्तपरिभाषया वेति ।पुनष्टिलोपे ने॑त्यनुषज्यते । न च तिरेरिकारस्याङ्गवृत्तपरिभाषयाटे॑रिति लोपाऽभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम्, अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्तेः । अग्लोपित्वादिति । तिरस् अच् इ इति स्थितेटे॑रित्यचो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम्चो धातोर्लोपे अकारस्यापि लोपसत्त्वादित्यभिमानः । सध्राययतीति । सहस्य सध्रिः । तिराययतीतिवद्रूपम् । सहेत्यस्य उपसर्गत्वाऽभावान्न पृथक्करणम् । तदाह — अससध्रायदिति । विष्वद्रञ्चमिति । विष्वक् अच् इ इति स्थितेविष्वग्देवयोश्चे॑ति विष्वक्शब्दटेरद्रआदेशे टेरित्यचो धातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् । देवद्रञ्चमिति । देवशब्दस्य टेरद्रआदेशे देवद्राययतीति सिद्धवत्कृत्य लुङ्याह — अदिदेवद्रायदिति । अतितिरायदितिवद्रूपम् । आददद्रायदिति । सर्वनामत्वाददस्शब्दस्य टेरद्रआदेशः ।त्यदाद्यत्वे सत्येव उत्त्वमत्वे॑ इति पक्षे इदम्, अदस्शब्दाद्विभक्तेर्लुका लुप्तत्वेन विभक्तिपरकत्वाऽभावेन त्यदाद्यत्वाऽप्रवृत्तेः ।त्यदाद्यत्वाऽविषयत्वेऽपि उत्त्वमत्त्वे स्त॑ इति मतमाश्रित्य आह — अमुमुयञ्चमिति । अदस् अच् इ इति स्थिते टेरद्रआदेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थितेअदसोऽद्रेः पृथङ्मुत्व॑मिति मते दकाराऽकारयोर्दकाररेफयोश्च मत्वेत्त्वयोःकृतयोः अमुमु इ इति स्तिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयीति ण्यन्ताल्लडादीति भावः । मुत्वस्याऽसिद्धत्वान्न यण् । अदमुआययतीति ।केचिदन्त्यसदेशस्ये॑ति मते इदम् । भुवमिति । भुमाचष्टे इत्यर्थ भूशब्दाण्णिच् । वृद्ध्यावादेशौ, भावीत्यस्माल्लडादीति भावः । अबीभवदिति । ओः पुयण्जी॑ति इत्त्वम् । अबुभ्रवदिति । अवर्णपरकपवर्गादिपरत्वाऽभावात्ओः पुयण्जी॑ति न । स्वआमिति । सुशोभनः अआ इति विग्रहः । स्वाशश्वदिति । उपसर्गसमानाकारस्य पृथक्करणादआशब्दस्यअजादेर्द्वितीयस्ये॑ति द्वित्वमाडागमश्च । स्वरिति । स्वरित्यस्माण्णिचि 'अव्ययानां भमात्रे' इति टिलोपः, इष्ठवत्त्वेन भत्वात् ।प्रकृत्यैकाजिति प्रकृतिभावस्तु येन नाप्राप्तिन्यायेनटे॑रित्यस्यैव बाधकः । असस्वदिति । द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपं बाधित्वा स्वर्शब्दस्य द्वित्वम्, 'अ' रित्यस्य लोपे अकारस्यापि लोपसत्त्वेन अजादेशत्वादिति भावः । असिस्वदिति । अर्लोपस्य अजादेशत्वं नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाऽभावाट्टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः । बहूनिति । बहुशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशात्बहोर्लोपो भू च बहो॑रिति बहोर्भूभावः ।इष्ठस्य यिट् चे॑ति यिडागमस्तु न, 'णाविष्ठव' दिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति । यिडभावे तत्संनियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । रुआजयतीति । इष्ठवत्वात्विन्मतो॑रिति लुक् । नचाऽजादी गुणवचनादेवेति इष्ठन्प्रत्ययः रुआग्विन्शब्दाद्दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्क्यं,विन्मतो॑रिति लुग्विधानेन रुआग्विन्शब्दादिष्ठवत्त्वसिद्धरिति भावः । उपधावृद्धिमाशङ्क्याह — संज्ञापूर्वकत्वान्न वृद्धिरिति ।णाविष्ठव॑दित्येनातिदेशेन विनो लुकः सत्त्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति । श्रीमतीशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशेन 'भस्याऽढे' इति पुंवत्त्वे 'विन्मतोः' इति मतो लुकि रेफादिकारस्य वृद्ध्यादेशयोः 'श्रायी' त्यरमाल्लडादीति भावः । अशिश्रयदिति । णावच आदेशो नेति वृद्ध्यायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृद्ध्यायादेशयोः कृतयोरुपधाह्रस्वः इति माधवः । मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्व इत्यन्ये । पयस्विनीमिति । णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयस्यतीत्यत्र इष्ठवत्त्वाट्टिलोपमाशङ्क्य आह — इह टटिलोपो नेति.कुत इत्यत आह — तदपवादस्येति । न च टिलोपं बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोः कुतो न स्यादिति वाच्यं,सत्यपि संभवे बाधन॑मिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति । स्थूलशब्दाण्णिचि इष्ठवत्त्वात्स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे #ऊकारस्य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्याऽचो ञ्णितीति वृद्धिस्तु न शङ्क्या, अङ्गकार्ये कृते पुनरङ्गकार्यस्याऽप्रवृत्तेः । दवयतीति.पूर्ववद्यणादिलोपो गुणश्च ।कथं तर्हीति ।स्थूलदूरे॑ति यणादिलोपस्य टिलोपाऽपवादत्वादिति भावः । दूरमततीति । 'अत सातत्यगमने' इति धातोःअन्येभ्योऽपि दृश्यते॑ इति क्विपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपिलोपो व्यो॑रिति यलोपेह्रस्वस्य पिती॑ति तुकि दूरादित्येव रूपम् । तस्माण्णौ टिलोपेदूरी॑ति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः । तदाह — दूरातं कुर्वतीत्यर्थ इति ।कुर्वती॑ति सप्तम्यन्तम् । यवयतीति । युवन्शब्दाण्णौ स्थूलदूरेति वनो यणादेर्लोपः । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्माल्लडादि । कनयतीति । युवन्शब्दस्य कनादेशपक्षे रूपम् । तदाह — युवाल्पयोरिति । नेदयतीति । अन्तिकशब्दस्य णौ नेदादेशः,अन्तिकबाढयोर्नेदसाधा॑वित्युक्तेः । साधयतीति । बाढशब्दस्य णौ साधादेशः । इहेति । प्रशस्ययतीत्यत्र 'प्रशस्यस्य श्रः'ज्य चे॑ति श्रज्यौ नत्यर्थः । कुत इत्यत आह — उपसर्गस्येति । तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं — ज्यापयतीति ।वृद्धस्य चे॑ति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः ।प्रियस्थिरे॑ति सूत्रक्रमेणोदाहरति — प्रियं — प्रापयतीति । प्रियशब्दस्य प्रादेशे वृद्धिः पुक् । स्थापयतीति । स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ ।वरयति वारयतीति । उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः । बंहयतीति । बहुलस्य बंहादेशः । गरयतीति । गुरोर्गुर् । वृद्धं वर्षयतीति । वृद्धस्य वर्षादेशःवृद्धस्य चे॑ति ज्यादेशेन विकल्प्यते । त्रपयतीति । तृप्रस्य त्रप् आदेशः । अदुपधः । संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् ।त्रापयती॑ति क्वचित्पाठः । द्राघयतीति । दीर्घस्य द्राघादेशः । वृन्दयतीति । बृन्दारकस्य बृन्दादेशः । इति नामधातुक्रिया ।अथ ण्यन्तप्रक्रिया ।

Padamanjari

Up

index: 3.1.21 sutra: मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्


मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥ किमर्थमिदम्, न प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम्; न च तत्करोतीत्यादिना तत्र धात्वर्थनियमः क्रियते, राजानमतिक्रान्तवानत्यरराजदित्यपि दर्शनात्? मुण्डं करोति माणवक मित्यादौऽ सापेक्षेभ्योऽपि णिज् यथा स्यादित्येवमर्थ प्रपञ्चार्थ वा। हलिकल्योस्त्वदन्तत्वनिपातनार्थम्, अन्यथा हलि इ कलि इ इति स्थिते ठचो ञ्णितिऽ इति वृद्धिः प्राप्नोति,'णाविष्ठवत्' इति टिलोपश्च; तत्र लोपः शब्दान्तरप्राप्त्याऽनित्यः, वृद्धिस्तु टिलोपे कृतेऽप्राप्तेवैत्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपस्तन्नाग्लोप्यङ्गं भवतीति'सन्वल्लघुनि' इति सन्वद्भावः स्यात्,'दीर्घो लघोः' इति दीर्घश्च, अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्तथाप्यगेव लुप्यते इति सन्वद्भावो न भवति, तदाह - हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति। उपलक्षणमेतत्,'दीर्घो लघोः' इति दीर्घाभावार्थ च।'दीर्घो लघोः' इत्यत्राप्यनग्लोप इति वर्तते। एवं च बलिपटुअप्रभृतिभ्यो णिचि अबिवलत्, अपीपटदिति भवति, न त्वबबलत् अपपटदिति।'सत्यापपाश' इत्यत्र मुण्डादयः पठितव्यास्तथा तु न कृतमित्येव॥