3-1-11 कर्तुः क्यङ् स लोपः च प्रत्ययः परः च आद्युदात्तः च इच्छायां वा सुपः क्यच् उपमानात् आचारे
index: 3.1.11 sutra: कर्तुः क्यङ् सलोपश्च
आचारे इत्यनुवर्तते। उपमानात् कर्तुः सुबन्तादाचारेऽर्थे वा क्यङ्प्रत्त्ययो भवति, सकारस्य च लोपो भवति। अन्वाचयशिष्टः सलोपः, तदभावेऽपि क्यङ् भवत्येव। श्येन इवाचरति काकः श्येनायते। कुमुदं पुष्करायते। सलोपविधावपि वाग्रहणं सम्बध्यते, सा च व्यवस्थितविभाषा भवति। ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया। {सकारस्येष्यते लोपः शब्दशास्त्रविचक्षनैः} ओजायमानं यो अहिं जघान। ओजायते, अप्सरायते। पयायते, पयस्यते। सलोपविधौ च कर्तुः इति स्थानषष्ठी सम्पद्यते, तत्र अलोऽन्त्यनियमे सति हंसायते, सारसायते इति सलोपो न भवति। आचारेऽवगल्भक्लीबहोडेभ्यः क्विब् वा वक्तव्यः। अवगल्भते, अवगल्भायते। क्लीबते, क्लीबायते। होडते, होडायते। सर्वप्रातिपदिकेभ्य इत्येके। अश्व इव आचरति अश्वायते, अश्वति। गर्दभायते, गर्दभति।
index: 3.1.11 sutra: कर्तुः क्यङ् सलोपश्च
उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः ।<!ओजसोऽप्सरसो नित्यमितरेषां विभाषया !> (वार्तिकम्) ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ् मानिनोश्च <{SK837}> । कुमारीवाचरति । कुमारायते । हरिणीवाचरति । हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्वाविव पट्वीमृदूयते ॥ न कोपधायाः <{SK838}> । पाचिकायते ।<!आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः !> (वार्तिकम्) ॥ वाग्रहणात्क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनानिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् ।<!सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः !> (वार्तिकम्) ॥ पूर्ववार्तिकं तु अनुबन्धासञ्जानार्थं, तत्र क्विबनूद्यते । प्रादिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । अतो गुणे <{SK191}> इति शपा सह पररूपम् । अ इवाचरति अति । अतः अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे <{SK191}> । अत आदेः <{SK2248}> इति दीर्घः । णल् औ वृद्धिः । अतुसादिषु तु आतो लोप इटि च <{SK2372}> इत्यालोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालांचकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचिर्वृद्धिः - <{SK2297}> इत्यत्र धातौरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव । श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्था <{SK2223}> इति, भुवो वुक् <{SK2174}> इति, भवतेरः <{SK2181}> इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । द्रुरिव द्रवति । णिश्रि - <{SK2312}> इति चङ् न । अद्रावीत् ॥
index: 3.1.11 sutra: कर्तुः क्यङ् सलोपश्च
कर्तुः क्यङ् सलोपश्च - कर्तुः क्यङ् ।कर्तु॑रित्यावर्तते ।कर्तुः क्य॑ङित्येकं वाक्यम् । अत्र कर्तुरिति पञ्चम्यन्तम् । उपमानादाचारे इत्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वेति च । तदाह — उपमानादिति । उपमानं यत्कर्तृकारकं तद्वृत्तेः सुबन्तादित्यर्थः ।कर्तुः सलोपश्चे॑ति द्वितीयं वाक्यम् । चकारःतु॑पर्यायो भिन्नक्रमः । 'स' इति लुप्तषष्ठीकं पृथक्पदं ।कर्तु॑रिति षष्ठन्तस्य विशेषणम् । तदन्तविधिः । तदाह — सान्तस्य त्विति । पक्षे इति । क्यङभावपक्षे इत्यर्थः । क्यङभावपक्षे सकारलोप इति भ्रमं वारयति — सान्तस्य लोपस्त्विति । एतच्च महाभाष्ये स्पष्टम् । क्यङि सलोपविकल्पः सर्वत्र स्यादित्यत आह — स च व्यवस्थित इति । सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति — ओजसोऽप्सरस इति । इदं वार्तिकम् । ओजश्शब्द इति । क्यङन्तोऽयम् । 'सनाद्यन्ता' इति धातुत्वाद्वृत्तिः । तत्र ओजश्शब्द ओजस्विनि वर्तत इत्यर्थः । ओजायते इति । अप्सरश्शब्दात्क्यङि सलोपदीर्घौ । क्यङो ङित्त्वादात्मनेपदम् ।इतरेषां विभाषये॑त्यस्योदाहरति — यशायते यशस्यते इति । यशस्वीवाचरतीत्यर्थः । विद्वायते विद्वस्यते इति । विद्वानिवाचरतीत्यर्थः । विद्वच्छब्दात्क्यङि सलोपविकल्पः । त्वद्यते मद्यते इति । त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात्क्यङिप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तस्य त्वमौ । युष्मद्यते अस्मद्यते इति । यूयमिव वयमिव आचरतीत्यर्थः । 'त्वमावेकवचने' इत्यस्मात्प्रत्ययोत्तरपदयोश्चे॑ति सूत्रे 'एकवचने' इत्नुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मादोस्त्वमाविति भावः । कुमार्यादिशब्दात्क्यङि पुंवत्त्वं स्मारयति — क्यङ्मानिनोश्चेति । कुमारायते इति । पुंवत्त्वेन ङीषो निवृत्तौ दीर्घः । हरितायते इति । हरिणीशब्दात् क्यङि पुंवत्त्वेनवर्णादनुदात्ता॑दिति नत्वस्य ङीषश्च निवृत्तौ दीर्घः । गुरूयते इति । गुर्वीशब्दात्क्यङि ङीषो निवृत्तौ दीर्घः । सपत्नायते इति । शत्रुपर्यायात् सपत्नशब्दाच्छाङ्र्गरवादित्वेन ङीनन्तात्पुंवत्त्वेन ङीनो निवृत्तौ दीर्घ इति भावः । सपतीयते इति । समानः पतिः स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च निष्पन्नात्सपत्नीशब्दात्क्यङि पुंवत्त्वेन ङीब्नत्वयोर्निवृत्तौ दीर्घ इति भावः । सपत्नीयते इति । युवायते इति । युवतिशब्दात्क्यङि पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ नलोपे दीर्घ इति भावः । वयोवाचिनां जातिकार्यं वैकल्पिकमितिजातेरस्त्रीविषया॑दित्यत्र भाष्ये स्पष्टम् । एतेनजातेश्चे॑ति निषेधादिह पुंवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पट्वीमृदूयते इति ।आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वे॑ति वार्तिकम् । उपमानादित्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वाग्रहणस्याऽस्मिन्प्रकरणे अनुवृत्त्यैव सिद्दे वागरहणं व्यर्थमित्यत आह — वाग्रहणात्क्यङपीति । अन्यथा विशेषविहितत्वात्क्विपा क्यङो बाधः स्यादिति भावः । तथाचाऽत्र वाशब्दो विकल्पार्थक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात्समुच्चीयते इति केचित् । अवगल्भादयत इति ।गल्भ अवगल्भ इति इवाचरति, क्लीब इवाचरति, होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः क्विप्क्यङाविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह — क्विप्संनियोगेनेति । अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वं चाऽत्र प्रतिज्ञायते । ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तेत्त्वादात्मनेपदं लभ्यते । तदाह — तेन तङिति अवगल्भते इति । क्विपि भकारादकारस्य लोपे हल्नताल्लडादौ तङि शविति भावः । ननु अवगल्भांचक्रे, क्लीबाञ्चक्रे, होडांचक्रे इत्यतर् कथमाम् अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेनकास्यनेका॑जित्यस्याऽप्रवृत्तेः । न चअवगल्भे॑त्यस्य क्विबन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम्,उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते॑ इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह — भूतपूर्वादपीति । क्विबुत्पत्तेः प्राक्तनमनेकाच्त्वं भूतपूर्वगत्या आश्रित्येत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह — एतद्वार्तिकेति ।सर्वप्रातिपदिकेभ्यः क्विब्वे॑ति वक्ष्यमाणवार्तिकादेव अवगल्भते, अवजगल्भे इत्यादिसिद्धौ पुनरेभ्यः क्विब्विधां तत्संनियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीत्यर्थः । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनपदसिद्धावुपक्षीणत्वात्कथमुक्तज्ञापकतेत्याशङ्क्य निराकरोति — नचेत्यादि । कुत इत्यत आह — केवलानामिति । अच्प्रत्ययरहितानां धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधातूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसंभवात् । तच्च कुत इत्यत आह — धातूनामनेकार्थत्वादिति । एवं चआचारेऽवगल्भे॑ति क्विब्विधानमनुबन्धासञ्जनार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीति सिद्धम् । न चसर्वप्रतापिदकेभ्यः॑ इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथं तस्य उक्तज्ञापकतेति वाच्यं,सर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विपि तथा प्रयोगे इष्टापत्तेः, भूतपूर्वाश्रयणपरभाष्यप्रामाण्येनसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकस्य अवगल्भादिभ्योऽप्रवृत्तिविज्ञानाद्वेत्यास्तां तावत् । आचारेऽवगल्भे॑त्यत्र अवेत्यस्य प्रयोजनमाह — अवेत्युपसर्गेति । केवलादिति । उपसर्गविहीनाद्गल्भशब्दादित्यर्थः । उपसर्गान्तरेति । प्रगल्भाऽनुगल्बादिशब्दादित्यर्थः । क्यङेवेति । न तु क्विबित्यर्थः । माधवादय इत्यस्वरसोद्भावनम् । तद्बीजमाह — तङ् नेति तूचितमिति । केवलादुपसर्गान्तरविशिष्टाच्च गल्भशब्दात्, प्रगल्भादिशब्दाच्च अनेन क्विबभावेऽपिसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विब्निर्बाधः । परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः । सर्वप्रातिपदिकेभ्यः इति । 'आचारे' इति शेषः । नन्वनेनैव वार्तिकेन सिद्धेआचारेऽवगल्भे॑ति वार्तिकं व्यर्थमित्यत आह — पूर्ववार्तिकं त्विति । अन्त्यवर्णस्य इत्संज्ञासिद्ध्यर्थमित्यर्थः । तर्हि तत्र क्विब्ग्रहणं व्यर्थमित्यत आह — तत्र क्विबनूद्यते इति । तत्संनियोगेनानुबन्धासङ्गार्थमित्यर्थः । पदकार्यं नेति ।राजानती॑त्यादौ नलोपादिकं नेत्यर्थः । अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः । पररूपमिति । कृष्णशब्दात् क्विबन्ताल्लडादौ शप 'अतो गुणे' इति पररूपमित्यर्थः । कृष्णांचकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्णायात् । अतो लोपात्परत्वात्अकृत्सार्वे॑ति दीर्घः । पूर्वविप्रतिषेधस्य विहितत्वादतो लोप इत्यन्ये । अ इवेति । अः = विष्णुः । स इवेत्यर्थः । अतीति । शपा पररूपम् । असि अथः अथ । आमि आवः आमः । क्विप्प्रत्ययान्तत्वाल्लिटि 'कास्प्रत्ययात्' इत्याम्प्रत्ययमाशङ्क्य आह — प्रत्ययग्रहणमपनीयेति । औ अतुः उरिति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियां दर्शयति — द्वित्वमिति । णलिद्विर्वचनेऽची॑ति लोपस्य निषेध इति भावः । अतोगुणे इति । द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं बाधित्वा पररूपमिति भावः । अत आदेरिति । न च परत्वान्नित्यत्वादपवादत्वाच्च 'अतो गुणे' इत्यस्मात्प्राक्अत आदे॑रित्यस्य प्रवृत्तिरिति वाच्यं, तस्य बहिरङ्गत्वात्अत आदे॑रित्स्यापवादत्वेऽपि आनर्देत्यत्र हलादिशेषात्प्रागेव परत्वात्अत आदे॑रित्यस्य चरितार्थत्वेन बाधकत्वाऽसंभवात् ,अपवादोऽपि यद्यन्यत्र चरितार्थस्तह्र्रन्तरङ्गेण बाध्यते॑ इत्युक्तेरित्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्तितथापि न्याय्यत्वादेवमुक्तम् । णल औ इति । पररूपे दीर्घे च आ अ इति स्थितेआत औ णलः इत्यौत्वमिति भावः । वृद्धिरिति । आ औ इति स्थितेवृद्धिरेची॑ति वृद्धिरित्यर्थः । तथा च 'औ' इति रूपं परिनिष्ठितम् । अतुसादिष्विति । अ अतुस्, अ उस्, इति स्थिते द्वित्वे पररूपे 'अत आदेः' इति दीर्घे आतो लोप इत्यर्थः । अतुः उरिति प्रत्ययमात्रं शिष्यते । थलि इटि द्वित्वे दीर्घे आल्लोपे, - इथ अथुः अ । औ इव इम । वस्तुतस्तुकास्यनकाज्ग्रहण॑मिति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च, प्रत्ययान्ताच्च आमिति लभ्यते । अत एवआचारेऽवगल्भक्लीबहोडेभ्यः॑ इति वार्तिके 'अवगल्भांचक्रे' इत्यादौ अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपिकास्प्रत्यया॑दित्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् । इता । इष्यति । अतु- अतात् अतामन्तु अ-अतात् अतमत । आनि आव आम । आत् आतामान् । आः आतमात । आमाव आम । विधिलिङि एत् एताम् एयुः । एः एतम् एत । एयम् एव एम । यात् यास्ताम् यासुः । लुङि 'इट ईटि' इति सिज्लोपेआटश्चे॑ति वृदिंध बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत् ऐष्टाम् ऐषुरित्यादीति केचित् । आर्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याऽभावादाण्नेत्यन्ये । ईत् इष्टामित्यादि । ऐष्यत् । ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्राप्तिपदिकत्वाऽभावात्ततः कथं क्विबित्यत आह — लिङ्गविशिष्टेति । वस्तुतस्तु आबन्तेभ्य आचारे क्विब्नास्त्येवेति विआपाशब्दनिरूपणे प्रपञ्चितम् । ङीप्साहचर्यादिति । ङ्यन्तादाचारक्विबन्ताद्गौरीशब्दाल्लुङि अगौरयदित्यादौ तिस्योडर्न्तात्परत्वाऽसंभवात्तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः । कवयतीति । शपि गुणाऽयादेशौ । कवीयादिति ।अकृत्सार्वे॑ति दीर्घः । लुङि अकवि ईत् स्थिते सिचि वृद्धिमाशङ्क्य आह — सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपतो लाभेऽपिऋत इद्धातो॑रित्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भावः । कैयटादय इति ।इको गुणवृद्धी॑ति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः । माधवस्त्विति ।सिचि वृद्धि॑रित्यत्रऋत इद्धातो॑रित्यतो धातुग्रहणानुवृत्तौ मानाऽभावेन धातुरेव यो धातुरित्युक्तार्थाऽलाभादिति तदाशयः । वस्तुतस्तु 'इको गुणवृद्धी'वदव्रजहलन्तस्याऽचःर॑ इत्यादिसूत्रस्थभाष्ये सिचि परत एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्य आचारक्विब्नास्त्येवेति शब्देन्दुशेखरे प्रपञ्चितम् । विरिवेति । विः = पक्षी, स इवेत्यर्थः । अभिव्यक्तत्वेनेति ।अभिव्यक्तपदार्था ये॑इति न्यायेनेति भावः । बुभावेति । इह न वुक् । अभ्यासस्य अत्त्वं च न । अभावीदिति । इहगातिस्थे॑ति सिचो न लुक् । चङ् नेति ।णिश्री॑ति सूत्रे द्रुग्रहणेन धातुपठास्थस्यैव ग्रहणादिति भावः ।
index: 3.1.11 sutra: कर्तुः क्यङ् सलोपश्च
कर्तुः क्यङ् सलोपश्च॥ आचार इति वर्तत इति तेन तदपेक्षमुपमानस्य कर्तृत्वं विज्ञायत इति भावः। सलोपश्चेति। यद्ययं चशब्दः समुच्चयवृत्तिर्गृह्यएत तदेकमेव वाक्यं स्यात् - क्यङ्सलोपौ भवतीति, ततश्च यत्रैव सलोपस्तत्रैव क्यङपि स्याद् - ओजायत इति, इह तु न स्यात् - श्येनायते काक इति। अतोऽन्वाचये चशब्दे वाक्यभेदश्चाश्रयणीयः - अविशेषेणोपमानात्कर्तुः क्यङ् भवति, यत्र तु सकारः सम्भवति तत्र तस्य लोप इति तदिदमुक्तम्। अन्वाचयशिष्टः सलोपस्तदसम्भवेऽपि क्यङ् भवतीति। श्येनायत इति ठकृत्सार्वधातुकयोर्दीर्घःऽ। सलोपविधावपीति। सलोपस्यान्वाचयशिष्टत्वेन वाक्यभेदे सत्ययमपि गुणो भवतीत्यर्तः। अपिशब्देनैतद्दर्शयति - क्यङ्विधौ तावत्सम्बद्ध्यते वाक्यसंपादनाय, एवं सलोपविधावपीति। ओजायत इति। ओजः शब्दो वृत्तिविषये तद्वति वर्तते। ओजसोप्सरसोनित्यं पयसस्तु विभाषयेति। अन्यस्य तु यशः प्रभृतेर्नैव भवतीत्येके, नेति वयम्। ओजोप्सरोव्यतिरिक्तस्य सकारान्तस्योपलक्षणार्थं पयोग्रहणम्। अत एव सलोपो वा। ओजसोप्सरसोर्नित्यमिति सामान्येन वार्तिकम्; तेन यशायते इत्याद्यपि भवतिसलोपोऽप्सरस एवेत्ययं तु पक्षो भाष्येऽपि न स्थितः। सलोपविधो कर्तुरिति स्थानषष्ठी संपद्यते इति। प्रत्ययविधौ यत्पञ्चम्यन्तं तदेव लोपेन सम्बन्धेऽर्थाद्विभक्तिविपरिणामो भवतीति षष्ठ।ल्न्तं सम्पद्यत इत्यर्थः। तत्रालोऽन्त्यस्येति नियमे सतीति। सकारेण कर्तुर्विशेषणातदन्तविधिविज्ञानातदर्थमेव च सेति पृथक् पदं लुप्तषष्ठीकम्। क्वचित् अलोऽन्त्यनियमे सतीति पाठः, तत्र सूत्रैकदेशानुकरणत्वात्समासेऽपि विभक्तेर्लुगभावः, यथा - अस्यवामीयमिति। आचार इत्यादि। क्यङ्पवादोऽयम्।'गल्भ धार्ष्ट।ले,'क्लीबृ अधार्ष्ट।ले' 'होड्ःअ अनादरे' - एते पचाद्यजन्ता गृह्यन्ते, त्सय चाकारस्य वाक्ये' नुदातत्वानुनासिकत्वे प्रतिज्ञायेते, तेन क्विबन्तादात्मनेपदं भवति। वावाचनात्क्विपा मुक्ते क्यङ् भवति, क्विप्सन्नियोगेनानुनासिकत्वप्रतिज्ञानात् क्यङ्पक्षे इत्संज्ञा न भवति। किमर्थ पुनरिदम्, यावता गल्भादयो धातव एवानुदातेनः पठ।ल्न्ते, तेभ्यो गल्भत इत्यादि सिद्ध्यति, एतेभ्य एव पचाद्यजन्तेभ्यः क्यङ् इवगल्भायते इत्यादि, यद्यपि धार्ष्ट।लदावर्थे गल्भादयः पठ।ल्न्ते, तथाप्यनेकार्थत्वाद्धातूनामवगल्भ इवाचरतीत्यत्रार्थेऽपि त एव वर्तिष्यन्ते? सत्यम्; अवगल्भांचक्रे इत्यादौ प्रत्ययान्तत्वादाम्यथा स्यादित्येवमर्थ क्विब् विधीयते। अथ यदा धातुभ्य एव लिड् विधीयते तदा कथं भवितव्यम्? अवजगल्भे, विचिक्लीबे, विजुहोडे इति। अन्ये तु - धातुभ्य एव क्विब् विधीयते इति वदन्त एतानि रूपाणि न सम्भवन्तीत्याहुः, भाष्यविरोधात्। भाष्यकारस्तावत्सर्वप्रातिपदिकेभ्य इत्यनेन सिद्धिमाशङ्कते - न तर्हीदानीमित्यादिना। न हि धातुग्रहणे सति तेन सिद्धिशङ्कोपपद्यते। वार्तिककारोऽपि'सर्वप्रातिपदिकेभ्यः' इति वदन् गल्भादिष्वपि प्रापितदिकग्रहणमेव मन्यते। न केवलं गल्भादिभ्य एव, अपि तर्हि सर्वेभ्य एव प्रातिपदिकेभ्य इति हि तस्यार्थः।'सर्वप्रातिपदिकेभ्यः' इत्यत्र'सर्वेभ्यः' इति वक्तव्ये प्रातिपदिकग्रहणात् प्रातिपदिकादेव क्विब् विधीयते, न सुबन्तात्; तेन पदत्वाभावादश्वतीति ठतो गुणेऽ इति शपा पररूपं भवति, विधुरविशब्दाभ्यां क्विपि शपि गुपे ठेङः पदान्तादतिऽ इति न भवति। विधवति, रवयति, राजनतीति नलोपो न भवति। वाचतीत्यादौ तु कुत्वजश्त्वादि न भवति। येऽपि सर्वप्रातिपदिकेभ्यः क्विपमिच्छन्ति, तैरपि गल्भाद्यनुक्रमणं कर्तव्य मात्मनेपदार्थाननुबन्धानासंक्ष्यामीति॥ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः॥ 3,1,12 ॥ भृशादिभ्यो बुव्यच्वेर्लोपश्च हलः॥ लोपविधौ'भृशादिभ्यः' इति पञ्चमी स्थानषष्ठ।ल विरिणम्यते, हला च भृशादयो विशेष्यन्ते, तत्र तदन्तविधौ सति हलन्तानां लोपो विधीयमानो भृशायते इत्यादावहलन्तेन चभवति, तदाह - हलन्तानां च विज्ञायमानेऽहलन्तानां पाठोऽनर्थकः स्यात्। अच्वेरिति प्रत्येकमभिसम्बन्धयते इति। तेनैकवचनमुपपद्यते इति भावः। किमर्थे पुनरिदमुच्यते इति। ठच्वेःऽ इत्येतदधिकृत्य प्रश्नः। तेनेति। अनुप्रयुज्यमानेन भवतिनेत्यर्थः। न च भवतेरनुप्रयोगं बाधित्वा क्यङ् भवितुमर्हति, अच्व्यन्तेषु सावकाशत्वात्। किञ्च, भवतेरभावे च्वेरपि निवृत्तिप्रसङ्गः, तद्योगे तस्य विधानात्। कथं तर्हि डाजन्तात्क्यष् भवति, यावता डाजपि भवतियोगे विधीयते? अत्र परिहारं वक्ष्यति - कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव ज्ञापकमिति। तत्सद्दशप्रतिपत्यर्थ तर्हीति। नञिवयुक्तन्यायेन च्व्यन्तसद्दशा भृशादयः कथन्नाम प्रतीयेरन्निति च्व्यन्तपर्युदासः क्रियते, साद्दश्यं चाभूतद्भावविषयत्वेनेत्याह - अभूततद्भावविषयेभ्यो मृशादिभ्य इत्यादि। भृशायते इत्यादि। अजन्तानाम् ठकृत्सार्वधातुकयोःऽ इति दीर्घः, हलन्तानां तु लोपः - असुमनाः सुमना भवति सुमनायते, दुर्मनायते इत्यादि। भृशीभवतीति। इदानीमेवोक्तम् - नास्त्यत्र प्रसङ्गः इति, तस्मादच्व्यर्थविषयं प्रत्युदाहरणं प्रदर्शनीयम् - क्व दिवा भृशा भवन्तीति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व प्रदेशे भवन्तीत्यर्थः। इह मनः शब्दः सोपसर्गः पठ।ल्ते - सुमनस्, दुर्मनस्, अभिमनस्, उन्मनस्; अत्र किं सोपसर्गात्सङ्घातात्प्रत्ययो भवति? आहोस्विदुपसर्गरवितान्मनः सब्दादेव? इति विचारः तदर्थ च किमुपसर्गः प्रकृत्यर्थविशेषणं सुमनः शब्दादिति? उत प्रत्ययार्थविशेषणम् - सुभवतो, दुर्भवतौ, अभिभवतौ, उद्भवताविति ? कथं पुनर्मनः शब्देन सह पठित उपसर्गे प्रत्ययार्थविशेषणमाशङ्क्यते, तद्विशेषणत्वे हिप्राग्भवतेः पठ।लेत? नैष शक्यः प्राग्भवतेः पठितुम्, एवं हि सर्वेभ्य एव भशादिभ्य उपसर्गविशिष्ट एव भवत्यर्थे प्रत्ययः स्याद्, मनः शब्दादेव च विशिष्टेऽर्थे इष्यत इत्येवमर्थो मनः - शब्देन सह पाठः स्यात्। तत्र यदा मनाः शब्देन स्वादीनां बहुव्रीहीस्तदा प्रकृत्यर्थविशेषणं ते भवन्ति; यदा त्वसमस्ता एव तदा प्रत्ययार्थविशेषणम्। मनः शब्दश्च वृत्तिविषये तद्वति वर्तते मनस्वी सुष्ठुअ भवतीत्यादावर्थे क्यङ् प्रत्ययः। प्राप्त्यर्थस्य वा भवतेः ठा धृषाद्वाऽ इति विकल्पितणिचोऽत्र विषये ग्रहणम्, तेन मनः कर्म शोभनं प्राप्नोतीत्यादिरर्थो भवति। तत्राद्ये पक्षेऽडाड्ल्यब्द्विर्वचनेषु दोषः, अट् - स्वमनायत, दुरमनायत। आट् - अभ्यमनायत, उदमनायत। उपसर्गस्यापि क्यङ्न्ते धातावन्तर्भावाततः पूर्वमडाटौ प्राप्नुतः, परौ चेष्येते। ल्यप् - सुमनाय्य, अभिमनाय्य, उपसर्गस्य क्त्वान्तेऽनुप्रवेशातद्व्यतिरिक्तपदाभावादसति समासे ल्यपोऽभावात्सुमनायित्वेति स्यात्। द्विर्वचनम् - क्यडन्तात्सनि कृते उपसर्गस्य सनन्तेऽनुप्रवेशातस्य द्विर्वचने सति सुसुमनायिषते अबिभिमनायिषते इति स्याद्, सुमिमनायिषते अभिमिमनायिषत इति चेष्यते? नैष दोषः, चुरादौ'संग्राम युद्धे' इति पठ।ल्ते, स न पाठयः; संग्रामशब्दाद् युद्धवाचिनः'तत् करोति तदाचष्टे' इत्येव णिचः सिद्धत्वात्। पठ।ल्मानस्तु ज्ञापयति - सोपसर्गात्सङ्घाताद्धातुसंज्ञानिमितकप्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते, परिशिष्टादेव तु प्रत्यय इति। संग्रामशब्दो हि सोपसर्गः संघात एव चुरादावपि पठ।ल्ते, न तूपसर्गसद्दशावयवं शब्दान्तरम्। तथा च'वा पदान्तस्य' इति परसवर्णविकल्पो भवति, अन्यथा स न स्यात्। स एवमर्थः पठ।ल्ते - असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रमयिषत इत्यादि रूपं यथा स्यादिति, ततश्चोक्तस्यार्थस्य ज्ञापकः। नियमार्थो वा - धातुसंज्ञाहेतुः प्रत्ययः सोपसर्गाद्यदि भवति संग्रामशब्दादेवेति। ननु चात्रानुदातेदयं संग्रामयतिरिष्यते, ततश्चात्मनेपदार्थमनुबन्धमांक्ष्यामीति पाठः स्यादिति कथं ज्ञापको नियमार्थो वा भवेत्? स्यादेतत् - अनुबन्धासञ्जनार्थे हि पाठे'ग्राम युद्धे' इत्येव पठितव्यम्, संशब्दस्तु द्योतकः प्रयोगदर्शनादेव लभ्यते इङ्कोइरिवाधिः, नियमार्थस्तु संग्रामेति पाठ इति। एवमपि यथा इङ्कोरिधेः पूर्वमाण् न भवति, तथाऽस्यापि न स्यात्, तस्माद् द्वितीयः पक्ष आश्रीयते। यद्येवम्, यथा श्येनायत इति आचारार्थस्य क्यङेक्तत्वादाङ्ः प्रयोगो न भवति तथा स्वदीनामपि न स्यात्। तद्विशिष्ट एवार्थे क्यङे विधानाद् युक्तमेको पसर्गेण विशिष्टार्थे क्यणुत्पद्यत इति तस्य तेनाभिधानम्, इह पुनरनेकेन। तत्र - मनायत इत्युक्ते संदेहः स्यात् सुभवतौ दुर्भवतौ वेति? तत्रासंदेहार्थमुपसर्गः प्रयोक्तव्यः। अयं तर्हि दोषः - मनः शब्दात्क्यङ् कृते मिनायत इत्यस्य तिङ्न्तस्य स्वादेरतिङ्न्तादुतरस्य निघातः प्राप्नोति। पक्षान्तरे तु सुमनायत इत्यादि तिङ्न्तं संपद्यते इतै तद्व्यतिरिक्ताभावान्निघाताभावः। एवं तर्हि भृशादिषूपसर्गस्य पराङ्गवभावं वक्ष्यामि'सुबामन्त्रिते' इत्यस्यानन्तरं भृशादिषूपसर्ग इति। इहापि तर्हि प्राप्नोति - अभिभृशायते सुभृशायत इति? यदि नेष्यते'मनस्युपसर्गे' इति वक्ष्यामि, मनः शब्दे परत उपसर्गस्तस्यैव परस्य मनः शब्दस्याङ्गवद्भवति स्वरे कर्तव्ये इति। एवं च देवदतः सुमनायत इत्यादौ उपसर्गस्यापि'तिङ्ङतिङः' इति निघातो भवति। योऽप्याह - सुमनःशब्दात्प्रत्यये विधित्सिते उपसर्गः पृथक् क्रियते, परिशिष्टादेव प्रत्यय इति, तेनापि स्वरे पराङ्गवद्भावो वक्त्व्य एव। तदेवं प्रत्ययार्थविशेषणं स्वादयः, मनः शब्दादेव केवलात्प्रत्यय इति स्थितम्। यदि तु सामान्येन ज्ञापकमिष्यते सङ्घातात्प्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते इति, नात्रैव, यथा'प्रभौ परिवृढः' इत्यत्र वक्ष्यते - परिवृढमाचष्टे इति णिचि कत्वाप्रत्यये कृते परिवृढय्येति ल्यब् भवतीति, ततो ज्ञापकान्तरं मृग्यम्। च किंचिदुद्ग्रन्थाभिधानं सूरिभिरित्युपरम्यते॥