बाष्पोष्मभ्यामुद्वमने

3-1-16 बाष्पोष्मभ्याम् उद्वमने प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ् कर्मणः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मण इति वर्तते। बाष्पशब्दादूष्मशब्दाच्च कर्मण उद्वमनेऽर्थे क्यङ् प्रत्ययो भवति। बाष्पमुद्वमति, बाष्पायते। ऊष्मायते॥ फेनाच्चेति वक्त व्यम्॥ फेनमुद्वमति, फेनायते॥

Siddhanta Kaumudi

Up

आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते ।<!फेनाच्चेति वाच्यम् !> (वार्तिकम्) ॥ फेनायते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बाष्पोष्माभ्यां उद्वमने>> - बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति ।कर्मणो रोमन्थे॑त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्वमतीत्यर्थः ।

Padamanjari

Up