3-1-8 सुपः आत्मनः क्यच् प्रत्ययः परः च आद्युदात्तः च कर्मणः समानकर्तृकात् इच्छायां वा
index: 3.1.8 sutra: सुप आत्मनः क्यच्
कर्मणः इच्छायां वा इत्यनुवर्तते। इषिकर्मणः एषितुः एव आत्मसम्बन्धिनः सुबन्तादिच्छायामर्थे वा क्यच् प्रत्ययो भवति। आत्मनः पुत्रम् इच्छति पुत्रीयति। सुब्ग्रहणं किम्? वाक्यान् मा भूत्। महान्तं पुत्रम् इच्छति। आत्मनः इति किम्? राज्ञः पुत्रम् इच्छति। ककारः नः क्ये 1.4.15 इति सामान्यग्रहणार्थः। चकारस् तदविघातार्थः। क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः। इदम् इच्छति। उच्चैरिच्छति। नीचिअरिच्छति। छन्दसि परेच्छायाम् इति वक्तव्यम्। मा त्वा वृका अघायवो विदन्।
index: 3.1.8 sutra: सुप आत्मनः क्यच्
॥ अथ तिङन्तनामधातुप्रकरणम् ॥
इषिकर्मण एषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥
index: 3.1.8 sutra: सुप आत्मनः क्यच्
इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्॥
index: 3.1.8 sutra: सुप आत्मनः क्यच्
सुप आत्मनः क्यच् - अथ नमधातुप्रक्रिया निरूप्यन्ते । सुप आत्मनः । प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । सन्निधानादिच्छां प्रत्येव कर्मत्वं विवक्षितम् । आत्मन्शब्दः स्वपर्यायः । तादथ्र्यस्य शेषत्वविवक्षायां षष्ठी । स्वर्थात्कर्मण इति लभ्यते । स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः । तथा च स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेः सुबन्तादिच्छायां क्यज्वा स्यादिति फलति । तदिदमभिप्रेत्य आह — इषिकर्मण एषितृसम्बन्धिन इत्यादिना । एषित्रर्थादिषिकर्मण इत्यर्थः । एषित्रा स्वार्थं यदिष्यते कर्मकारकं ।द्वाचकात्सुबन्तादिति यावत् । धात्ववयवत्वादिति । सुबन्तात्क्यचि कृते तदन्तस्य 'सनाद्यन्ता' इति धातुत्वादिति भावः ।
index: 3.1.8 sutra: सुप आत्मनः क्यच्
सुप आत्मनः क्यच्॥ अत्रापीच्छायामित्यनुवृतेस्तदपेक्षमेव सुबन्तस्य कर्मत्वं विज्ञायते इत्याह - इषिकर्मण इति। आत्मशब्दोऽयं परव्यावृत्तिवचनः स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। स हि गृह्यमाण इच्छया वा सम्बध्येत, सुबन्तेन वा। तत्रेच्छया सम्बन्धे कर्तरि षष्ठी, आत्मनः इच्छायामात्ककर्तृकायामिच्छायामात्मा चेदिच्छतीत्यर्थः स्यात्, ततश्चात्मग्रहणमनर्थकं स्यात्, सर्वैवेहेच्छाऽऽत्मकर्तृका, तस्यास्तद्धर्मत्वात्। सुबन्तसम्बन्धे तु देवदतस्य पुत्रमिच्छति यज्ञदत इत्यत्रापि प्राप्नोति, परस्यापि हीष्यमाण आत्मन एवेष्टो भवति; तस्याप्यात्मत्वात्। अनर्थकं चात्मग्रहणं स्याद्; व्यावर्त्याभावात्। वृक्षस्य जलमिच्छति, खट्वायाः पादमिच्छतीत्यादौ यत्राचेतनार्थ किञ्चिदिष्यते तद्व्यावर्त्यमिति चेत्, न; तत्रापि चेतनस्यैव परमशेषित्वात्। सर्वमेव हि भोग्यं चेतनानामेव शेषभूतं खट्वायाः पादमिच्छतीत्यत्रापि यस्य तत् ख्टवादिकमुपभोग्यं तदर्थमेव तदिष्यते, खट्वादिकं तु तस्यैव द्वारमात्रम्; अतः परव्यावृत्तिवचन एवात्मशब्दः। तत्रापि यदीच्छया सम्बन्धः स्यात्, पूर्ववत् कर्तरि षष्ठ।लमात्मग्रहणमनर्थकं स्यात्, सर्वस्या एवेच्छाया एषितृकर्तृकत्वा दिति सुबन्तेन सम्बध्यते, सुबन्तात्कर्मण इच्छायामभिधेयायां क्यज् भवलि, तच्चेत्सुबन्तमात्मनः स्वस्य सम्बन्धि भवति। कस्य स्वस्येत्यपेक्षायामिच्छया एषितुः सन्निधापितत्वात् तस्येवैषितुरात्मनः सम्बन्धि इति विज्ञायते, तदाह - एषितुरेवात्मसमम्बन्धिनः सुबन्तादिति। न चैवमात्मनः पुत्रं परस्य दासमिच्छतीत्यत्रापि सुबन्तस्यात्मसम्बन्धित्वात्प्रसङ्गः, नात्र यथाकथंचिदात्मसम्बन्धित्वं विवक्षितम्, किं तर्हि? इष्यमाणमेव रूपमात्मसम्बन्धित्वेन यदेष्यते तदा प्रत्ययः। पुत्रीयतीति।'क्यचि च' इतीत्वम्। सुप इति किमिति। कर्मण इति वचनातिङ्न्तादप्रसङ्गः, न हि तिङ्न्तं कर्म। धातोश्चाप्रसङ्गः विशेषविहितेन सना बाधितत्वात्। ङ्याप्प्रातिपदिकादुत्पतावपि न कश्चिद्दोषः;'नः क्ये' इति पदसंज्ञाविधानात्। तच्च क्रियमाणे सुब्ग्रहणे नियमार्थम् - नान्तमेव क्ये पदमिति। तदेव ङ्याप्प्रातिपदिकादुत्पतौ विध्यर्थ भविष्यति। नन्वसति सुब्ग्रहणे ङ्याप्प्रातिपदिकात्सुबन्ताच्चोत्पत्त्व्यमविशेषात्, ततश्च'नः क्ये' इत्येतद्यद्येवं विध्यर्थम्, उभयथापि दोषः; नियमार्थे हि वाच्यतीत्यादौ प्रातिपदिकात्सुबन्ताच्चोत्पतौ यद्यपि दोषाभावः, नकारान्तेषु प्रातिपदिकादुत्पत्तिपक्षे नलोपो न स्यात्। अथ तेषु प्रातिपदिका दुप्तौ विध्यर्थम्, एवं सति वाच्यतीत्यादौ सुबन्तादुत्पत्तिपक्षे जश्त्वादिपदकार्यं स्यात्, अतः सुबन्तादेव यथा स्यात्प्रातिपदिकान्मा भूदिति नियमार्थं सुब्ग्रहणं कर्तव्यमेव। एवं तर्हि कर्मग्रहणाद् ङ्यप्प्रातिपदिकादप्रसङ्गः सुबन्तमेव हि कर्माभिधायि; पञच्कपक्षेऽपि द्योतकविभक्तेरपेक्षितत्वात्। तदेवं सुबन्तमपहाय न क्वचित्प्रसङ्ग इति मत्वा प्रश्नः। वाक्यादिति। पदसमूहादित्यर्थः। महन्तं पुत्रमिच्छतीति। किं च स्याद्यद्यत्र स्यात्? प्रत्ययार्थे गुणभूतयोर्महत्पुत्रशब्दयोरसति परस्परसम्बन्धे समासो न स्यात्, तथा च तन्निबन्धनमात्वं न स्यात्। किमिदानीं न भवति - महापुत्रीयतीति? भवति, यदैतद्वाक्यं भवति - महान्पुत्रो महापुत्रः महापुत्रमिच्छीति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेवात्र न भवति? प्रत्ययग्रहणपरिभाषया समुदायस्यासुबन्तत्वात्। किं पुनरयं कर्मणोः समुदायः? आहोस्वित्समुदायः कर्म? किं चातः? यदि कर्मणोः समुदायः, न कर्मग्रहणेन गृह्यते इति समुदायादप्रसङ्ग? अथ समुदायः कर्म, अवयवाद् द्वितीया न प्राप्नोत्यकर्मत्वात्? एवं तर्हि कर्मणोरेवायं समुदायः, सुब्ग्रहणं तु यदत्र कर्म तस्मान्मा भूदिति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेव तस्मान्न स्यात्, सुबन्तमेव हि तत्? असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। अक्रिययाणे पुनः सुब्ग्रहणे नायं पदविधिर्भवति। यत्र हि पदस्यैवासाधारणं किञ्चिद्रूपमाश्रितं स पदविधिः, कर्मग्रहणं तु न पदस्यैवासाधारणम्,'धातोः कर्मणः' इत्यपदेपि द्दष्टत्वात्। अन्ये त्वाहुः - समुदायस्यापि कर्मत्वमवयवयोश्च महत्वविशिष्टस्य पुत्रस्यैष्यमाणत्वादिति तेषां समुदायादवयवाच्च मा भूदिति सुब्ग्रहणम्। राज्ञः पुत्रमिच्छतीति। नन्वसामर्थ्यादेवात्र न भविष्यति, कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति? यत्र तर्ह्यन्तरेणापि तृतीयस्य पदस्य प्रयोगं परस्येति गम्यते तत्र मा भूत् यथा - अघमिच्छति, व्यसनमिच्छतीति, न हि कश्चिदात्मनोऽघमिच्छति। ककार इत्यादि। स्यादेतत् -'नः क्ये' इत्यत्रापि मा कारि ककार इति? यद्येवम्, सामसु साधुः अत्रापि प्राप्नोति। चकात्स्तदविघातार्थ इति। स्वरस्तु प्रत्ययस्वरेण सिद्धो धातुस्वरेण वा, अकारस्तु द्दषदमिच्छति द्दष्यद्यति, द्दषद्यतेर्ण्वुल्, ठतो लोपःऽ'यस्य हलः' 'क्यस्य विभाषा' - द्दषदकः, अत्रातो लोपस्य स्थानिवद्भावात् ठत उपधायाःऽ इति वृद्धिर्मा भूत्। मृदमिच्छति मृद्यति, मृद्यतेः ठचो यत्ऽ, अतो लोपादि पूर्ववत् - मृद्यम्,'यतो' नावःऽ इत्याद्यौदातत्वं यथा स्यादिति। पुत्रीयतीत्यादौ च शपा सहैकादेश उदातो भवति। क्यचि मान्ताव्ययप्रतिषेध इति। मान्तग्रहणं प्रातिपदिकस्य विशेषणम्, न सुबन्तस्य । तेन पुत्रमिच्छतीत्यादौ क्यज् भवति, काविच्छति कानिच्छतीत्यादौ च न भवति। उच्चौर्नीचैरिति। अधिकरणप्रधानयोरप्यनयोराधेये यदा वृत्तिस्तदा कर्मत्वम्, गोसमानाक्षरनान्तादित्येके। गोशब्दात्समानाक्षरान्नान्ताच्च क्यज् भवतीत्येके मन्यन्ते। अकारादयो दश समानाक्षराः; तत्र लृवर्णान्तस्य, ऋकारान्तस्य च प्रातिपदिकस्याभावादेकारान्पूर्वेषां सप्तानामचां ग्रहणम्। अस्मिन्पक्षे वाच्यतीत्यादि न सिद्ध्यति, तस्मान्नायं स्थितः पक्ष इत्याहुः। अत एवास्य वृतावनुपन्यासः। परेच्छायामिति। शेषष्ठयाः समासो न कर्तृषष्ठयाः, सुबन्तद्वारकश्च परस्येच्छया सम्बन्धः, परस्य सुबन्तार्था या इच्छा तस्यामित्यर्थः। अघायव इति।'क्याच्छन्दसि' इत्युप्रत्ययः, ठश्वाघस्यात्ऽ इत्यात्वम्। एतदेव क्यचि परत आत्वविधानं ज्ञापकम् च्छन्दसि परेच्छायामपि क्यज् भवतीति, न हि कश्चिदात्मनोऽघमिच्छति। न चाचारक्यजर्थम्, च्छन्दस्यघशब्दाचारे क्यचोऽदर्शनात्। अथास्मात्क्यजन्ताल्लकृत्यक्तखलर्था भवन्तः क्व भवन्ति? यथायोगं भावे कर्तरि च, न तु कर्मणि। प्रकृत्यर्थविशिष्टाया नियतविषयअया इच्छायाः क्यजन्तेनाभिधानम्, न सा वस्त्वन्तरं विषीयकरोति, अतो जीवत्यादिवदकर्मकः क्यजन्तः। आचारक्यजन्ते तूपमानकर्मणः पुत्रादेरन्तर्भावेऽपि उपमेयस्यच्छात्रादेरनन्तर्भावातस्मिन्कर्मणि लादयो भवन्त्येव - पुत्रीय्यतेच्छात्रः पुत्रायितव्य इत्यादि, यथा - श्येनायते काक इति उपमानकर्तुरन्तर्भावेऽपि उपमेयकर्तरिलो भवति, तद्वत्। इह च माणवकं मुण्डं करोति मुण्डते माणवकः, मुण्डयितव्यो माणवक इति ण्यन्तो धातुर्मौण्ड।ल्गुणविशिष्टद्रव्यमात्रमन्तर्भावयितुं शक्तः, न तु माणवकादिकं विशेषमिति तस्य धातावनन्तर्भावातत्र लादयो भवन्ति। यद्येवम्, अनेन हेतुना क्यजन्तादपि प्राप्नोति। माणवकं मुण्डमिच्छति मुण्डीयति माणवकम्, मुण्डीय्यते माणवक इति, नात्र क्यचा भवितव्यमसामर्थ्यात्? कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। णिजपि तर्हि न प्राप्नोति? स्यादेतत् - नोभौ करोतियुक्तौ मौण्ड।ल्ं माणवकश्च, न हि माणवकत्वं क्रियते, ततश्च मुण्डं करोतीत्यत्रैवार्थे मुण्ड।ल्तोति णिजुत्पद्यते। मुण्डं करोति माणवकमित्यत्र वाक्येऽपि मुण्डस्यैव कर्मत्वम्, तत्सामानाधिकरण्यातु माणवकाद् द्वितीयोत्पतिः। तदेवं माणवकादयो मौण्ड।ल्स्याधारविशएषप्रतिपादनार्थमुपादीयमानाः करोतियुक्ता न भवन्ति। यदा पुनरुभौ करोतियुक्तौ भवतः, न भवति तदा वृत्तिः, तद्यथा - बलीवर्द्दं करोति तं च मुण्डं करोति मुण्डयति बलीवद्दमिति णिज्भवति। यद्येवम्, अनेनैव हेतुना क्यजपि न प्राप्नोति। यदि चाधारत्वेनापि माणवकोऽपेक्ष्यते, पुनरपि सापेक्षता। किञ्च, यदि न माणवकः करोतियुक्तः, कथं तत् लकार उत्पद्यते - मुण्ड।ल्ते माणवक इति? कश्चायं न्यायो न माणवकः करोतियुक्त इति? न ह्यसौ मौण्ड।ल्मात्रेण सन्तुष्यति,माणवकस्थमसौ मौण्ड।ल्भिनिर्वत्तयति, ततश्च स्वरूपेणाक्रियमाणोऽपि माणवको मुण्डपरूपेण क्रियते, इष्यते च। तदेवं सति यदि णिज् भवति क्यजपि स्याद् अथ क्यज्न भवति णिजपि न स्यादिति समानं वचः। एवं तर्हि मुण्डादयो गुणवचनाश्च सापेक्षाः, उच्यते च णिच्, स वचनात्सापेक्षेभ्योऽपि भविष्यति, क्यच् पुनरनपेक्षेभ्यः पुत्रादिभ्यः सावकाश इति माणवकं मुण्डमिच्छतीत्यादौ सापेक्षेभ्यो न भविष्यतीति? यद्यप्ययमपि णिज् गुणमात्रकरणविवक्षायां सावकाशः - मुण्डयत्ययं नापितः प्रवीणो मौण्ड।ल्करणैति, तथापि तत्करोतीति सिद्धे णिचि पुनर्विधानमिदं सापेक्षेभ्योऽपि यथा स्यादित्येवमर्थमेव। यद्वा - द्विविधा मुण्डाद्यः - धातवः, प्रातिपदिकानि च। तत्र सूत्रे धातव उपातास्तेभ्यः स्वभावत एव विशिष्टक्रियावचनेभ्यो णिज्भविष्यति, प्रातिपदिकानां तु विग्रह एव - माणवकं मुण्डं करोतीति। अथ वा नेदं युगपदुभयं भवति - वाक्यं च प्रत्ययश्च, ततश्च मुण्डयतीति द्रव्यमात्रं प्रतीयते, तत्र विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। अथ वा - मुण्डस्यैव शुद्धेन करोतिनाऽन्वयः, मौण्ड।ल्विशिष्टेन तु माणवकस्य, यथा - गां दोग्धि पय इति शुद्धस्य दुहेः पूर्वं गवभिसम्बन्धः, पश्चातु गोदुहिना पयसः। क्यच्प्रत्ययस्त्वनभिधानान्न भवति। माणवकं मुण्डयतीत्युक्ते माणवकं मुण्डमिवाचरतीत्यर्थान्तरमेव प्रतीयते। तदेवमिच्छाक्यजन्ताद्भावे कर्तरि च लादय इति स्थितम्॥