नित्यं कौटिल्ये गतौ

3-1-23 नित्यं कौटिल्ये गतौ प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः यङ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गतिवचनाद् धातोःकौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति, चङ् क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थम्, गतिवचनान्नित्यं कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति॥

Siddhanta Kaumudi

Up

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥

Laghu Siddhanta Kaumudi

Up

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नित्यं कौटिल्ये गतौ॥'धातोः' इति वर्ते, गताविति तस्य विशेषणम्, गतौ वर्तमानाद्धातोरिति। कौटिल्ये इति। संनिधानाद् गतिविषयमेव कौटिल्यं गम्यते। चक्रम्यते, दन्द्रम्यत इति'क्रमु पादविक्षेपे' , द्रम मीमृ गतौ,'नुगता' नुनासिकान्तस्यऽ, योऽल्पीयस्यध्वनि गतागतानिकरोति स कुटिलां गति सम्पादयन्नेवमुच्यते। नित्यग्रहणमनर्थकम्, अनभिधानादेव वाक्यं न भविष्यति, न हि चंक्रम्यत इति वृतेरर्थ कुटिलं क्रमातीति वाक्यं शक्नोति गमयितुम्; संशयो हि वाक्याद्भवति - किं गतिकौटिल्यम्? उत वक्रहृदयत्वनिबन्धनं जिह्वाचरणमिति? वृतौ तु गतिकोटिल्यमेव नियतं गम्यते, कौटिल्यमात्रप्रतिपादने च वाक्यं निवारयितुमशक्यमनिष्ट्ंअ चात आह - नित्यग्रहणं विषयनियमार्थमिति। गतिकौटिल्यं विषयः, तत्रैव यङ् यथा स्यादित्येवमर्थमित्यर्थः, तदाह - गतिवचनान्नित्यं कौटिल्य एव भवतीति। व्यवच्छेद्यं दर्शयति - न तु क्रियासमभिहार इति। ननु यथा'वडवाया वृषे वाच्ये' इत्यपत्येप्राप्तस्ततोऽपकृष्य विधीयते, यथा वा'ञीतः क्त' भूते प्राप्तस्ततोऽपकृष्य वर्तमाने विधीयते, एवमत्रापि धातुमात्रात्क्रियासमभिहारे यङ् विहितः, गतिवचनात् तु कौटिल्य इति? तक्रकौडिन्यन्यायेनैव बाधः सिद्धः। यथा वा विवक्षितार्थानभिधानाद्वाक्यं न भवति तथा समभिहारानवगमाद्त्र प्रत्ययो न भविष्यति। अथैवमपि वचनापेक्षा? वाक्यनिवृतावपि वचनमपेक्षस्व! तदेतन्नित्यग्रहणं चिन्त्यप्रयोजनम्॥