3-1-14 कष्टाय क्रमणे प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ्
क्यङ नुवर्तते, न क्यष्। कष्टशब्दाच् चतुर्थीसमर्थात् क्रमणेऽर्थेऽनार्जवे क्यङ् प्रत्ययो भवति। कष्टाय कर्मणे क्रामति, कष्टायते। अत्यल्पमिदमुच्यते॥ सत्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्॥ कण्वचिकीर्षा पापचिकीर्षा, तस्यामेतेभ्यः क्यङ् प्रत्ययो भवति। सत्रायते। कष्टायते। कक्षायते। कृच्छ्रायते। गहनायते। कण्वचिकीर्षायामिति किम्? अजः कष्टं क्रामति॥
चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ।<!सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् !> (वार्तिकम्) ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्वपदविग्रहः । सत्रायते । कक्षायते इत्यादि ॥
चतु्र्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ॥
<<कष्टाय क्रमणे>> - कष्टाय क्रमणे ।क्रमण॑शब्दं विवृणोति उत्साहे इति । अस्वरितत्वात् क्यषिति नानुवर्तते इति भावः ।क्रियार्थोपपदस्ये॑ति चतुर्तीति मत्वा आह — पापं कर्तुमिति । क्रमते इत्यत्रवृत्तिसर्गतायनेषु क्रमः॑ इति तङ् ।कण्वचिकीर्षाया॑मित्यत्र कण्वपदं व्याचष्टे — कण्वं पापमिति । सत्रादिशब्दान्विवृणोति — सत्रादय इति । द्वितीयान्तेभ्य इति । चिकीर्षायां द्वितीयान्तस्यैवाऽन्वययोग्यत्वादिति भावः । कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः । केचित्तुकण्वे॑त्यविभक्तिकम् । कण्वर्तिभ्य इति व्याचक्षते । अस्वपदविग्रह इति । वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः । इदं कष्टं शब्दाद्नयत्रैव । 'कष्टाय क्रमते' इति तु स्वपदविग्रहोऽस्त्येव । भाष्ये एवं विग्रहं प्रदश्र्य सत्रादिषु विग्रहाऽप्रदर्शनादित्याहः ।
कष्टाय क्रमणे॥ चतुर्थीसमर्थादिति। सङ्गतार्थःऊउसमर्थः,'चतुर्थ्या समर्थ' इति तृतीयासमासः। प्रत्ययार्थेन क्रमणेन सह सङ्गतार्थत्वं यस्य चतुर्थीकृतं तस्मादित्यर्थः। एतच्च'कष्टाय' इति निर्देशादेव लभ्यते। क्रमणशब्दस्य पादविहरणे प्रसिद्धत्वातत्रैव प्रत्ययो मा विज्ञायीत्याह - क्रमणेऽर्थेऽनार्जव इति। अनार्जवं कौटिल्यम्, इह त्वनार्जवशब्दोऽनाकरणरूपे क्रमणे पर्यवस्यत्यर्थात्। किं पुनः क्रमणम्? उत्साहः, यथा व्याकरणाध्ययनाय क्रमते उत्सहत इत्यर्थ इति व्याख्यातम्। कष्टाय कर्मणे क्रमत इति।'कृच्छ्रगहनयोः कषः' इति कृच्छ्र इडभावः, कृच्छ्रमुदुः खम्। इह तु तत्कारणं पापं कर्म, कृच्छ्र्ंअ पापं कर्म कर्तुमुत्सहत इत्यर्थः।'वृत्तिसर्ग' इत्यात्मनेपदम्। प्रायेण तु परस्मैपदं पठ।ल्ते, तत्र पापं कर्म कर्तुकामः कुटिलमाचरतीत्यर्थः अनुत्साहत्वात्परस्मैपदम्। अत्यल्पमिदमुच्यत इति। सर्वलक्ष्यासंग्रहात्। कथं तर्हि वक्तव्यमित्याह - सत्रकक्षेत्यादि। अस्मिन्पक्षे द्विदीयान्तेभ्यः प्रत्ययः; चिकीर्षां प्रति कर्मत्वात्। कण्वचिकीर्षायामिति। प्रकृतिप्रत्ययसमुदायस्यायमर्थनिर्देशः। कण्वमुपापम्। सत्रादयो हि वृत्तिविषये पापपर्यायास्तेभ्यश्चिकीर्षायां प्रत्ययः, पापं चिकीर्षतीत्यस्वपदेन विग्रहः। अजः कष्ट्ंअ क्रामतीति। क्रमिरत्र पादविहरणे वर्तते, कष्ट्ंअ गहनदेशं क्रामति गच्छतीत्यर्थः॥