काम्यच्च

3-1-9 काम्यच् च प्रत्ययः परः च आद्युदात्तः च कर्मणः समानकर्तृकात् इच्छायां वा सुपः आत्मनः क्यच्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुबन्तात् कर्मण आत्मेच्छायां काम्यच् प्रत्ययो भवति। आत्मनः पुत्रमिच्छति, पुत्रकाम्यति। वस्त्रकाम्यति। योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः। ककारस्येत्संज्ञा प्रयोजनाभावान् न भवति। चकारादित्वाद् वा काम्यचः। उपयट्काम्यति।

Siddhanta Kaumudi

Up

उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह यस्य हलः <{SK2631}>इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥

Laghu Siddhanta Kaumudi

Up

उक्तविषये काम्यच् स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। पुत्रकाम्यिता॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<काम्यच्च>> - ॒सुप आत्मनः क्य॑जित्युत्तरमिदं सूत्रम् । तदाह — उक्तविषये इति । पुत्रकाम्यतीति । कस्येत्संज्ञा तु न, फलाऽभावात् । अनर्थकत्वादिति । काम्यच एकदेशस्य यकारस्य अर्थाऽभावादित्यर्थः । ननु बेभिदितेत्यत्राऽपि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह — यस्येतीति । 'यस्य हलःर' इत्यत्रयस्ये॑त्यनेन यकाराऽकारसङ्घातग्रहणमित्यनुवपदमेवोक्तमित्यर्थः । तथा च बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्याऽर्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्याऽनर्थकत्वाल्लोपो नेति भावः । यशस्काम्यतीति । 'सोऽपदादौ' इति सत्वम् । ननु किमात्मन इच्छति किंकाम्यति, स्वःकाम्यतीति कथम् मान्ताव्ययानां ने॑त्यनुवृत्तेरित्यत आह — मान्ताव्ययेभ्योऽप्ययमिति ।

Padamanjari

Up

काम्यच्च॥ किमर्थो योगविभागः, न'सुप आत्मनः क्यच्काम्यचौ' इत्येकयोग एव क्रियते, एवं हि चकारो न कर्तव्यो भवति? तत्राह - योगविभाग इत्यादि। एकयोगे हि सति उतरसूत्रे द्वयोरप्यनुवृत्तिः स्यात्। ननु योगविभागेऽप्यानन्तर्यात्काम्यच एवानुवृत्तिः प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स क्यचोऽनुकर्षणार्थः, तदनुकर्षणस्य चैतदेव प्रयोजनम् - उतरत्रानुवृत्तिर्यथा स्यात्। काम्यचस्तु योगविभागसामर्थ्यादननुवृत्तिः। प्रयोजानाभावादिति। अग्निकाम्यतीत्यादौ गुणनिषेधो न प्रयोजनम्, अनार्द्धधातुकत्वादेव गुणस्याप्रङ्गत्।'विजुपे च्छन्दसि' उपयट्, उपयजमिच्छति उपयट्काम्यतीत्यत्र न संप्रसारणं प्रयोजनम्; यजादिभिः कितो विशेषणात् - यजादिभ्यो यो विहितः किदिति। वाक्काम्यतीत्यत्रापि धातोः सरूपग्रहणे कार्यविज्ञानान्न संप्रसारणं प्रयोजनम्। चकारादित्वाद्वेति। केचिद्व्याचक्षते - अन्तेऽस्य चकारोऽनर्थकः, धातुस्वरेणैवान्तोदातत्वस्य सिद्ध्त्वात्, स आदौ कर्तव्यः। अथ वा - अन्तेऽपि कृतो नियमार्थः संपद्यते - चिद्वायं व्यपदेष्टव्यो नानुबन्धान्तरेणेति तेनान्ते कृत आदित्वफलसंपादनादादितः संपद्यत इति। अन्ये तु'सुप आत्मनः क्यच्' 'काम्यच्च' इति द्विचकारकनिर्देशाश्रयेण चकारादित्वं वर्णयन्तिऽ चित्करणं तु पुत्रकामिष्यतीत्यत्र सति शिष्टमपि स्यस्वरं चित्स्वर एव यथा स्यादिति॥