कमेर्णिङ्

3-1-30 कमेः णिङ् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कमेर्धातोर्णिङ् प्रत्ययो भवति। णकारो वृद्ध्यर्थः। ङ कार आत्मनेपदार्थः। कामयते, कामयेते, कामयन्ते॥

Siddhanta Kaumudi

Up

स्वार्थे । ङित्त्वात्तङ् । कामयते ॥

Laghu Siddhanta Kaumudi

Up

स्वार्थे। ङित्त्वात्तङ्। कामयते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कमेर्णिङ्>> - कमेर्णिङ् । शेषपूरणेन सूत्रं व्याचष्टे -स्वार्थे इति । अर्थविशेषाऽनिर्देशादिति भावः । णङावितौ ।णेरनिटी॑त्यत्रोभयोग्र्रहणायाऽनुबन्धकरमम् । ङित्त्वात्तङिति । अनुदात्तेत्वं तु णिङभावे 'चकमे' इत्यादौ चरितार्थमिति भावः । कामयत इति । णिङि 'अत उपधाया' इति वृद्धौकामी॑ति णिङन्तम् ।क्ङिति चे॑ति निषेधस्तु न,अनिग्लक्षणत्वात् । णिङन्तस्य धातुत्वाल्लडादयः । तत्र लटि शपि गुणेऽयादेशे कामयते इति रूपम् । कामयेति इत्यादि सुगमम् । लिटि 'कास्यनेकाच' इत्यामि, 'आम' इति लिटो लोपे ' कामि-आम्' इति स्थिते, सार्वधातुके॑ति गुणं बाधित्वाणेरनिटी॑ति वक्ष्यमाणे णिलोपे प्राप्ते ।

Padamanjari

Up

कमेर्णिङ्॥ इह णिङे णकारः'णेरनिटि' इति विशेषणे चरितार्थो ङ्कारोऽप्यात्मनेपदार्थ इत्युभयोश्चरितार्थयोः प्राप्नोति, ज्ञापकात्सिद्धम्, यदयम्'न कम्यमिचमाम्' इति कमेर्मित्संज्ञायां प्रतिषेधं शास्ति, तज् ज्ञापयति - भवत्यत्र वृद्धिरिति, तस्य हि प्रयोजनम् -'मितां ह्रस्वः' इति ह्रस्वो मा भूदिति यदि चात्र वृद्धिर्न स्याद् ह्रस्व एवोपधेति कृत्वा नित्संज्ञाप्रतिषेधोऽनर्थकस्स्यात्। नैतदस्ति ज्ञापकम्, यदा णिङ्न्ताद्धेतुमण्णिच् क्रियते तदा णिङ्न्तस्य णिचि या वृद्धिस्तस्या ह्रस्वो मा भूदित्येवमर्थमेतत्स्यात्, न च णिजपेक्षाया अपि वृद्धेर्णिङ्मेव ङ्तिमपेक्ष्य प्रतिषेधः। किं कारणम्? ङ्तीइति निमितसप्तमी। ननु च न णिङ्न्तस्य णिचि वृद्ध्या भवितव्यम्; णिङ व्यवहितत्वात्, णिलोपे कृते स्थानिवद्भावाद्व्यवधानमेव। यदा तर्हि णिडन्ताच्चिण्णमुलौ सवतस्तदा'चिण्णमुलोदीर्घो' न्यतरस्याम्ऽ इत्येव विधिर्मा भूदित्येवमर्थो मित्संज्ञाप्रातिषेधः स्यात्। किं पुनः कारणम्? तत्र'दीर्घो' न्यतरस्याम्ऽ इत्युच्यते न प्रकृतो ह्रस्व एव विकल्प्येत, एवं हि कमेर्मित्संज्ञाप्रतिषेधो न र्तव्यो भवति। कथम्? यदा णीङ् वृद्धिर्नास्ति तहा ह्रस्व एवोपधेति सत्यपि ह्रस्वविकल्पे नैवानिष्टप्रसङ्गः, अशमि अशामीत्यादि च सिद्धम्? नैवं शक्यम्; यदा शमिप्रभृतिभ्यो णिजन्तेभ्यो द्वितीयो णिच् क्रियते तदा न स्यात्। यश्च णमुल्परो णिज् द्वितीयः, न तस्मिन् प्रथमेन णिचा व्यवहितत्वात्। यस्मिश्च मिदङ्गं प्रथमे णिचि, नासौ चिण्णमुल्परः, द्वितीयेन व्यवहितत्वात्। णिलोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव।'दीर्घो' न्यतरस्याम्ऽ इत्युच्यमाने पुनरत्रापि भवति, दीर्घविधिं प्रति स्थानिवद्भावनिषेधात्। तथा शमिप्रभृतिभ्यो यङ्न्तेभ्यो णिच्यल्लोपयलोपयोरल्लापस्य स्थानिवद्भावादसत्यां वृद्धौ चिण्णमुलोः कृतयोरशंशमि, असंशामि, शंशमम्, शंशाममिति न स्यात्। दीर्घः पुनर्विकल्प्यमानोऽत्रापि भवति; तद्विधौ स्थानिवद्भावप्रतिषेधात्। तथा'हेड्ःअ अनादरे' घटादिः, ठेच इग्घ्रस्वादेशेऽ, हिड।ल्ति, तत्र चिण्णमुलोः कृतयोर्ह्रस्वे विकल्प्यमाने अहिडि, अहेडीति स्यात्; दीर्घे तु पुनरहिडि, अहीडीति भवति। तस्माद्दीर्घ एव विकल्पनीयः, ततश्च मित्संज्ञाप्रतिषेधोऽपि तन्निवृतये वक्तव्यः। तथा ठायादय आर्द्धधातुके वाऽ इति णिङ्भावे णिचि सति वृद्धौ कृतायाम्'मितां ह्रस्वः' इति ह्रस्वो मा भूदित्येवमर्थोऽपि सित्संज्ञाप्रतिषेधो वक्तव्य एवेत्यज्ञापकमेतत्। एवं तर्ह्यस्थानेऽयं यत्नः क्रियते, नैवात्र प्रतिषेधः प्राप्नोति, किं कारणम्? इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः न चैषा इग्लङ्णा वृद्धिरित्यलमति कर्कशप्रक्रियातर्कानुसरणेन॥