उपमानादाचारे

3-1-10 उपमानात् आचारे प्रत्ययः परः च आद्युदात्तः च कर्मणः इच्छायां वा सुपः क्यच्

Kashika

Up

index: 3.1.10 sutra: उपमानादाचारे


क्यचनुवर्तते, न काम्यच्। उपमनात् कर्मणः सुबन्तादाचारेऽर्थे वा क्यच् प्रत्ययो भवति। आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैव उपमानस्य कर्मता। पुत्रमिव आचरति पुत्रीयति छात्रम्। प्रावारीयति कम्बलम्। अधिकरणाच् चेति वक्तव्यम्। प्रासादीयति कुट्याम्। पर्यङ्कीयति मञ्चके।

Siddhanta Kaumudi

Up

index: 3.1.10 sutra: उपमानादाचारे


उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् ।<!अधिकरणाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रसादे ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.10 sutra: उपमानादाचारे


उपमानात्कर्मणः सुबन्तादाचारेर्थे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। विष्णूयति द्विजम्॥ सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः । अतो गुणे। कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ॥

Balamanorama

Up

index: 3.1.10 sutra: उपमानादाचारे


उपमानादाचारे - उपमानादाचारे ।सुप आत्मनः क्य॑जित्यतः सुप इत्यनुवर्तते ।धातोः कर्मणः समानक्रतृका॑दित्यतः कर्मण इति । तदाह - उपमानात्कर्मण इत्यादिना । उपमां यत्कर्मकारकं तद्वृत्तेः सुबन्तादित्यर्थः । पुत्रमिवेति । 'धातोः कर्मणः' इत्यतो वेत्यनुवृत्तिरनेन सूचिता । छात्रं पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति । द्विजं विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति । उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः । प्रासादीयति कुटआमिति । प्रासादे इव कुठआं ह्मष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति । कुटआमिव प्रासादे क्लिष्टो वर्तते इत्यर्थः ।

Padamanjari

Up

index: 3.1.10 sutra: उपमानादाचारे


उपमानादाचारे॥'कुड।ले' इत्युपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमेवेति कर्मविवक्षायामेतत्प्रयोगसम्भवाद्वचनारम्भः। कुट।लमिति तु युक्तः पाठः॥