सार्वधातुके यक्

3-1-67 सार्वधातुके यक् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः भावकर्मणोः

Sampurna sutra

Up

भावकर्मणोः सार्वधातुके धातोः यक्-प्रत्ययः

Neelesh Sanskrit Brief

Up

कर्मणिप्रयोगे भावेप्रयोगे च सार्वधातुके प्रत्यये परे धातोः यक्-प्रत्ययः भवति ।

Neelesh English Brief

Up

In the कर्मणि and the प्रयोगे भावे प्रयोग, धातु gets 'यक्' प्रत्यय when followed by a सार्वधातुक प्रत्यय.

Kashika

Up

भावकर्मवाचिनि सार्वधातुके परतो धातोर्यक् प्रत्ययो भवति। आस्यते भवता। शय्यते भवता। कर्मणि — क्रियते कटः। गम्यते ग्रामः। ककारो गुणवृद्धिप्रतिषेधार्थः। यग्निवधाने कर्मकर्तर्युपसंख्यानम्, विप्रतिषेधाद्धि यकः शपो बलीयस्त्वम्। क्रियते कटः स्वयमेव। पच्यत ओदनः स्वयमेव॥

Siddhanta Kaumudi

Up

धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना, उत्पादना क्रिया सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां समानाधिकरण्याभावात्प्रथमपुरुषः । तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् ॥ अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ॥

Laghu Siddhanta Kaumudi

Up

धातोर्यक् भावकर्मवाचिनि सार्वधातुके। भावः क्रिया। सा च भावार्थकलकारेणानूद्यते। युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः। तिङ्वाच्यक्रियाया अद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किंत्वेकवचनमेवोत्सर्गतः। त्वया मया अन्यैश्च भूयते। बभूवे॥

Neelesh Sanskrit Detailed

Up

यदि धातोः अनन्तरम् कश्चन सार्वधातुकप्रत्ययः विधीयते, तर्हि कर्मणिप्रयोगे भावे प्रयोगे च धातोः अनन्तरम् (परन्तु सार्वधातुकप्रत्ययात् पूर्वम्) 'यक्'-प्रत्ययः अपि आगच्छति । यथा - पठ् + लट् [कर्मणिप्रयोगस्य वर्तमानकालस्य च विवक्षायाम् <<वर्तमाने लट्>> 3.2.123 इति लट्-लकारः ।] → पठ् + त [ <<भावकर्मणोः>> 1.3.13 इत्यनेन आत्मनेपदम् । प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> 3.4.78 इति 'त' प्रत्ययः] → पठ् + यक् + त [<<सार्वधातुके यक्>> 3.1.67 इति यक्-प्रत्ययः] → पठ् + य + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारः] → पठ्यते । ज्ञातव्यम् - 1) <<तिङ्शित्सार्वधातुकम्>> 3.4.113 इत्यनेन सर्वे तिङ्-प्रत्ययाः शित्-प्रत्ययाः च 'सार्वधातुक'संज्ञां प्राप्नुवन्ति । 2) <<लः कर्मणि च भावे च अकर्मकेभ्यः>> 3.4.69 इत्यनेन लकाराः सकर्मकेभ्यः धातुभ्यः कर्मणिप्रयोगे तथा अकर्मकेभ्यः धातुभ्यः भावेप्रयोगे भवितुमर्हन्ति । 3) आर्द्धधातुकप्रत्यये परे कर्मणिप्रयोगे भावे प्रयोगे वा 'यक्' इति गणविकरणम् न आगच्छति । यथा, पठ्-धातोः कर्मणि प्रयोगे लृट्-लकारस्य प्रथमपुरुषैकवचनम् 'पठिष्यते' इत्यत्र 'पठ् + इट् + स्य + ते' इत्यनेन रूपं सिद्ध्यति, अत्र 'यक्' विकरणं न विधीयते ।

Balamanorama

Up

<<सार्वधातुके यक्>> - सार्वधातुके यक् । धातोरिति । 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति ।चिण्भावकर्मणो॑रित्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिज्नयबोधे प्रकारो भावः । कवेरयं भाव इत्यादौ अभिप्रायः ।भावः पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु॑ इति नानार्थरत्नमाला ।भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु॑ इत्यमरः । इह तु 'लः कर्मणि' इत्यत्र भावशब्दो भावनायां यौगिक इत्याह — भावो भावनेति । लः कर्मणी॑त्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह — उत्पादनेति । उत्पत्त्यनुकूलो व्यापार इत्यर्थः । एवं च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृद्ध्यावादेशयोर्भाविशब्दात्एर॑जिति भावे अचि णिलोपे भावशब्दः, भावयतेरुत्पत्त्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारेण्यासश्रन्थो यु॑जिति युचि अनादेशे टापि भावनाशब्द इति बोध्यम् । उत्पादना चेयं धात्वर्थान्नातिरिच्यते इति दर्शयतुमाह — क्रियेति । धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथाहिफलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको — विक्लित्त्यनुकूलव्यापारः । तत्र विक्लित्त्यंशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता,धातूपात्तव्यापाराश्रय कर्ते॑ति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लत्तिः फलं, तदाश्रयत्वादोदनं कर्म,व्यापारजन्यफलशालि कर्मे॑ति सिद्धान्तात् । एवं सकर्मकेषु सर्वत्र ज्ञेयम् ।एध वृद्धौ॑इत्यस्मिन्नकर्मकेऽपि वृद्ध्यनुकूलव्यापारो धात्वर्थः । नचैवं सति 'एधते देवदत्त' इत्यत्र धातूपात्तव्यापाराश्रयत्वाद्व्यापारव्यधिकरणफलाश्रयत्वं कर्मत्व॑मिति सिद्धान्तात् । एवं च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः, धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् । तदुक्तं — व्यापारो भावना सैवोत्पादना सैव च क्रिये॑ति । ननूत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापार्थकत्वं तु न संभवति, एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे, तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह — सा चेत्यादि । पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकं क्रियामाहुः । पचित्वादितविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकबेदाद्विक्लित्त्यादिफलविशेषस्य, क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः । तथा च भट्टिराह — विभज्य सेनां परमार्थ सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्॥॑ इति । अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः । तत्र सत्ता आत्मभरणम् । तदनुकूलव्यापारस्तु जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति वाष्र्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः । भूवादिसूत्रे भाष्ये स्पष्टमेतत् । प्रपञ्चतं च मञ्जूषायामित्यलम् । ननूत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वेलः कर्मणि च भावे चे॑ति भावे कथं लकारविधिः । अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह — भावार्थकलकारेणानूद्यते इति । 'द्वौ' 'त्रयः' इत्यादौ द्विवचनबहुवचनवदति भावः । युष्मदस्मद्भ्यामिति । युष्मदि अस्मिद च तिङ्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ । युष्मदस्मदोस्तिङ्सामानाधिकरण्यं च तिङ्वाच्यकारकवाचित्वमेव । भावे लकारे तु 'आस्यते त्वया'आस्यते मये॑त्यादौ भाव एव तिङ्वाच्यो नतु युष्मदस्मदर्थौ, अतो न मध्यमोत्तमावित्यर्थः । कर्मलकारे तुत्वं वन्द्यसे॑,॒अहं वन्द्ये॑ इत्यादौ लकारस्य, युष्मदस्मदोश्च सामनाधिकरण्यसंभवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते । तिङ्वाच्येति । सत्त्वं = द्रव्यं — लिङ्गसङ्क्यान्वययोग्यम् । तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा = लिङ्गसङ्ख्यान्वयाऽयोग्या, शब्दशक्तिस्वभावात् । ततश्च तस्यां तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेर्युवाभ्यां युष्माभिर्वा आस्यते इत्यादौ न द्विवचनं, बहुवचनं चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियाया लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तं भवति । तद्यथा - पाकौ पाका इत्यादि । तदुक्तं — ॒सार्वधातुके य॑गिति सूत्रे भाष्ये -कृदभिहितो भावो द्रव्यवत्प्रकाशते॑ इति । द्रव्यवल्लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः, शब्दशक्तिस्वभावादिति भावः । ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विवहुवचनाऽभावे आस्यते इत्यादौ एकवचनं च न स्यादित्यत आह — किं त्वेकवचनमेवेति ।तिङ्वाच्यभावलकारस्ये॑ति शेषः । तस्येति ।द्वेयकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मिति सूत्रन्यासं भङ्क्त्वा 'एकवचनं' द्विबहुषु द्विबहुवचने॑ इति सूत्रन्यासः कर्तव्यः । तत्र द्वित्वबहुत्वयोर्द्विबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् । एवं च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन औत्सर्गिकतया एकत्वसङ्ख्यानपेक्षत्वाद्भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति । भावलकारे कर्तुस्तिङ्वाच्यत्वाऽभावेन अनभिहितत्वात्तृतीयेत्यर्थः । त्वया मयेति । त्वत्कर्तृकं मत्कर्तृकमन्यकर्तृकं भवनमित्यर्थः ।

Padamanjari

Up

सार्वदातुके यक्॥ इहाशिषि लिङ् इलिटि चान्तरेणापि विकरणं सर्वेष्वेव धातुषु तिङमेव सद्भावे भावकर्मकर्तारस्त्रयोऽपि प्रतीयन्ते - -भविषीष्ट त्वया, कृषीष्ट घटः, भूयात्, क्रियात्, बभूवे, चक्रे घटः, बभूव, चकारेति। अतिजुहोल्यादौ कर्ता। क्वचितिङमभावेऽपि प्रतीयन्ते त्रयोऽप्यमी। अशाय्यकारि गच्छेति चिणः सन्निधिमात्रतः॥ अधोगबिभरित्यादौ धातुमात्रेऽपि कर्तृधीः। तथा व्यतिस इत्यादौ धात्वभावेऽपि कर्तृधीः॥ एवं स्थिते भूयोविषयाभ्यामन्तवयव्यतिरेकाभ्यां शब्दार्थावसायः। व्यभिचारभूमिषु तु तस्मिंस्तस्मिन्विषये तस्य तस्य शब्दस्य स स महिमेति कल्पयितुमुचि तम्। न पुनः क्वचिद्व्यभिचारदर्शनेन सर्वत्रानाश्वासः। ताद्दशौ चान्वयव्यतिरेकौ तिङमेवेति तेषामेव भावकर्मकर्तारो वाच्याः। सूत्रकारोऽप्याह -'लः कर्मणि च भावे चाकर्मकेभ्यः' इति, लादेशाश्च तिङ्ः, ततोऽपि तेषामेव तेऽर्था इति मन्यमान आह - भावकर्मवाचिगि सार्वधातुके परत इति। उतरसूत्रे च कर्तृवाचिनि सार्वधातुके परत इति शय्यत इति। ठयङ् चि क्ङितिऽ। अथ यदा द्वौ कर्तारौ बहवो वा, तदा कथमास्यते भवद्भ्याम्, आस्यते भवद्भिः - द्विवचनबहुवचने कस्मान्न भवतः? भावे भेदाभावाद्। धत्वर्थो हि भावः। कर्तृभेदेऽपि नावश्यं धात्वर्थो भिद्यते यतः। एकामेव क्रियाव्यक्ति बहुषूत्पादयत्स्वपि॥ द्दष्टमेते पचन्तीति कर्मभेदोऽपि ताद्दशः। पश्यैकस्यां क्रियाव्यक्तौ पच्यन्ते तण्डुला इति॥ न कालभेदे शब्दैक्यमास्यासिष्यत आस्यते। पाकौ पाका इति त्वत्र शब्दैक्यादेकशेषता॥ अतश्च - निवुतभेदा सर्वैव क्रियाऽऽख्यातेभिधीयते। श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना॥ इति। तदेवमाख्यातेन भावस्वरूपगतो भेदः प्रतीयत इति द्विवचनबहुवचनाभावः। यत्र तु स्वरूपगत एव भेदस्तत्र भवत्येव, यथा - उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इति। उष्ट्राणां ह्यासिकाः स्वत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उताना अवाताना विकीर्णकशा विस्रस्तवस्त्रा इति तत्साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपगतभेदावभासाद् बहुवचनम्। इवशब्दप्रयोगमन्तरेणापि चेवार्थावगतिर्भवति, तदयमर्थः - याद्दशानि हतानामनेकप्रकाराणि शयनानि ताद्दशानि देवदतादिभिः क्रियन्त इति। केचित्वत्र कर्मणि लकारमिच्छन्ति, उष्ट्रासिकाहतशायिकालक्षणस्य भावस्यः'कालाभावाध्वगन्तव्याः' इति कर्मत्वात्, यथा - गोदोहः सुप्यते इति। ककारो गुणवृद्धिप्रतिषेधार्थ इति। मृज्यत इत्यत्र वृद्धिप्रतिषेधः। यग्विधान इति। ननु च'कर्मवत्कर्मणा तुल्यक्रियः' इत्यतिदेशादेव यक् सिद्धः, किमुपसङ्ख्यानेन तत्राह - विप्रतिषेधाद्धीति। यदा'कर्मवत्कर्मणा' इत्ययं शास्त्रातिदेशः, तदा तेनतेन शास्त्रेण कर्मकार्याणि भवन्ति। तत्र कर्मणि यग्भवतीत्यस्यावकाशः - शुद्धं कर्म, पच्यते ओदन इति; कर्तरि शबित्यस्यावकाशः - शुद्धः कर्ता, भवति पचतीति; कर्मकर्तर्युभयप्रसङ्गे परत्वाच्छबेव स्यादित्यर्थः। ततर्हि उपसङ्ख्यानं कर्तव्यम्? न कर्तव्यम्;'न दुहस्नुनमां यक्चिणौ' इति यक्प्रतिषेधो ज्ञापयति - भवति कर्मकर्तरि यगिति। कार्यातिदेशे तु तस्मिंस्तेनैव सूत्रेण भवन्यगेव परो भवति॥