गुपूधूपविच्छिपणिपनिभ्य आयः

3-1-28 गुपूधूपविच्छिपणिपनिभ्यः आयः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः

Kashika

Up

index: 3.1.28 sutra: गुपूधूपविच्छिपणिपनिभ्य आयः


गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्यः आयप्रत्ययो भवति। गोपायति। धूपयति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययमुत्पादयति न व्यवहारार्थः। शतस्य पणते। सहस्रसय पणते। अनुबन्धश्च केवले चरितार्थः, तेन आयप्रत्ययान्तान्नात्मनेपदं भवति।

Siddhanta Kaumudi

Up

index: 3.1.28 sutra: गुपूधूपविच्छिपणिपनिभ्य आयः


एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-<{SK2189}> इति गुणः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.28 sutra: गुपूधूपविच्छिपणिपनिभ्य आयः


एभ्य आयः प्रत्ययः स्यात् स्वार्थे ॥

Balamanorama

Up

index: 3.1.28 sutra: गुपूधूपविच्छिपणिपनिभ्य आयः


गुपूधूपविच्छिपणिपनिभ्य आयः - गुपूधूप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाऽभावादाह — स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तुगोपायतं नः सुमनस्यमान॑ इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापिएकादेश उदात्तेनोपादात्तः॑ इत्युदात्तत्वे,त॑मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्यउदात्तादनुदात्तस्य स्वरितः॑ इति स्वरितत्वमिति बोध्यम् । 'धातोरेकाच' इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्त्वात्कार्यं गुणादि भवति । तदाह - पुगन्तेति गुण इति ।

Padamanjari

Up

index: 3.1.28 sutra: गुपूधूपविच्छिपणिपनिभ्य आयः


गूपूधूपविच्छिपणिपनिभ्य आयः॥ विच्छायतीति। विच्छिरयं तुदादौ पठ।ल्ते, तत्सामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति, न तु शप्, यथा - जुगुप्सते इत्यात्मनेपदम्, तेन विच्छायन्ती विच्छायतीति ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पो भवति। अन्ये तु सार्वधातुकेऽप्यायप्रत्ययस्यैव तुदादिपाठसामर्थ्येन विकल्पमाहुः। स्तुत्यर्थेनेति। भट्टिकाव्ये तु व्यवहारार्थादप्यायः -'न चपोलेभे वणिजां पणायान्' इति। अनुबन्धः केवलेऽचरितार्थ इति। अवयवेष्वचरितार्थ लिङ्गं समुदायस्य विशेषकं भवति, यथा - गुपादीनामनुदातत्वमिति भावः। ये तु व्यवहारार्थादप्यायमिच्छन्ति तेषामपि पणिष्यते पाणयिष्यतीत्यादावनुबन्धः केवले चरितार्थः॥