3-1-19 नमोवरिवस्चित्रङः क्यच् प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् कर्मणः करणे
index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्
करणे इति वर्तते। नमस् वरिवस् चित्रङित्येतेभ्यो वा क्यच् प्रत्ययो भवति, करणविशेषे पूजादौ। नमसः पूजायाम् नमस्यति देवान्। वरिवसः परिचर्यायाम् वरिवस्यति गुरून्। चित्रङ आश्चर्ये चित्रीयते। ङकार आत्मनेपदार्थः।
index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्
करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥
index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्
नमोवरिवश्चित्रङः क्यच् - नमोवरिवस् । नमस्, वरिवस्, चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी । आत्मनेपदार्थं चित्रशब्दो ङिन्निर्दिष्टः ।शब्दवैरे॑त्यतः करणे इत्यनुवर्तते । करणं - क्रिया । सा च पूजापरिचर्याऽऽश्चर्यात्मिका विवक्षिता,नमसः पूजायां॑वरिवसः कारकविभक्तेर्बलीयस्त्वाद्द्वितीया । परिचर्या शुश्रूषेति मत्वाह — शुश्रूषते इत्यर्थ इति । आश्चर्यशब्दो विस्मयवाचीति मत्वाह- विस्मयते इत्यर्थ इति । विस्मापयते इत्यन्ये इति । आश्चर्यशब्दो विस्मापनपर इति भावः ।ततश्चित्रीयमाणोऽसा॑विति भट्टिः । असौ — मायामृगो विस्मयमुत्पादयन्नित्यर्थः ।
index: 3.1.19 sutra: नमोवरिवश्चित्रङः क्यच्
नमोवरिवश्चित्रडः क्यच्॥ करणविशेषे पूजादाविति।'करणे' इति सामान्यानुवृतावप्यभिधानशक्तिस्वाभाव्याद्विशेष उपलभ्य इति भावः। नमस्यति देवानिति।'नमः स्वस्तिस्वाहा' इति चतुर्थी न भवति, प्रत्ययार्थे गुणीभूतस्य नमः शब्दस्य निष्कृष्य सम्बन्धाभावात्। अथ वा - नमस्यति नमस्कारेण पूजयतीत्यर्थः। तत्र ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीयेव भवति। एवं च नमस्करोति देवानित्यादावपि द्वितीयेव भवति। परिचर्यायामिति। परिचर्याउ शुश्रूषा। चित्रीयते इति। अवयवकृतं लिङ्गं समुदायस्य विशेषकं भवतीति क्यजन्तादात्मनेपदं भवति,'क्यचि च' इतीत्वम्। एतदर्थमेव च शब्दवैरादिसूत्रे चित्रशब्दो न पठितः। चित्रीयत इति। विस्मयत इत्यर्थ इत्येके। विस्मापयत इत्यर्थ इत्यन्ये। तथा च भट्टिकाव्ये मायामृगं प्रकृत्य भवति'ततश्चित्रीयमाणो' सौऽ इति॥