आयादय आर्धद्धातुके वा

3-1-31 आयादयः अर्धधातुके वा प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः

Kashika

Up

index: 3.1.31 sutra: आयादय आर्धद्धातुके वा


आर्धधातुकविषये आर्धधातुकविवक्षायामायादयः प्रत्यया वा भवन्ति। गोप्ता, गोपायिता। अर्तिता, ऋतीयिता। कमिता, कामयिता। नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्धधातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति। गुप्तिः। गोपाया।

Siddhanta Kaumudi

Up

index: 3.1.31 sutra: आयादय आर्धद्धातुके वा


आर्धधातुकविवक्षायामायादयो वा स्युः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.31 sutra: आयादय आर्धद्धातुके वा


आर्धधातुकविवक्षायामायादयो वा स्युः। कास्यनेकाच आम् वक्तव्यः (वार्त्तिकम्) । लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥

Balamanorama

Up

index: 3.1.31 sutra: आयादय आर्धद्धातुके वा


आयादय आर्धद्धातुके वा - आयादयः । आय आदिर्येषां ते आयादयः ।आय ईयङ्णिङ् चेति त्रय आयादयो मताः॑ । गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ्, कमेर्णिङित्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति । 'आर्धधातुके' इति विषयसप्तमीति भावः । परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात्, आर्धधातुकोपदेशकालेऽदन्तत्वाऽभावादिति भावः ।

Padamanjari

Up

index: 3.1.31 sutra: आयादय आर्धद्धातुके वा


आयादय आर्द्धधातुके वा॥ ठार्द्धधातुकेऽ इति परसप्तम्यामायादिविधिभिरेकवाक्यता स्यात्, भिन्नवाक्यतायामयमर्थो भवति - गुपादिभ्य आर्द्धधातुके परतो वाऽऽयप्रत्ययो भवति, एवमुतरत्रापि, ततश्चार्द्धधातुके एव विकल्पेनायादयः स्युः, सार्वधातुके नैव स्युः? नैष दोषः, पृथागारम्भाद्यदि ह्यार्द्धधातुक एवायादीनामुत्पत्तिः स्याततो गुपादिभिः संयुज्यैव निर्दिशेत् - गुपादिभ्य आर्द्धधातुके वेति, एवं हि आयादय इति न वक्तव्यं भवति। पृथकतं निर्दिशति, तेन मन्यामहे - व्यापारभेदेनैकवाक्यतेति। ततश्चायमर्थो भवति - गुपादिभ्यो नित्यमायादयो भवन्त्यार्द्धधातुके वेति। एवमपि गुपादेर्यदार्द्धधातुकं प्राप्तं तत्र ततो विहिते विकरणविकल्पे नायादयः स्यु; ततश्च स्त्रीभावविवक्षायं गुपेरप्रत्ययान्तत्वाभावात् क्तिनि कृते यदायप्रत्ययो न भवति तदा गुप्तिरिति काममिष्ट्ंअ सिद्ध्यति। यदा तु भवति तदाऽल्लोपयलोपयोर्गोपातिरित्यनिष्ट्ंअ प्राप्नोति, गोपायेति चेष्ट्ंअ न सिद्ध्यति। भिन्नवाक्यतायामायाद्यन्ताद्यदार्द्धधातुकं प्रप्तं तत्र ततो विहिते आयादयो वा भवन्तीत्यर्थः स्यात्। तत्र चायाद्यान्ताद्यदार्द्धधातुकमिति वदता तेषामुत्पत्तिस्तावदङ्गीकृतअ। न चोत्पन्नानामुत्पत्तिविकल्पः शक्यते कर्तुमिति लोकन्यायेन निवृत्तिविकल्पो भवति। ततश्चायप्रत्ययान्तात् स्त्रीभावविवक्षायामप्रत्ययादित्यकारे कृते निवृत्यभावपक्षे गोपायेति काममिष्ट्ंअ सिद्ध्यति। निवृत्तिपक्षे तु गोपेत्यनिष्ट्ंअ प्राप्नोति, गुप्तिरिति चेष्ट्ंअ न सिद्ध्यति। लिटि च निवृत्यभावपक्षे गोपायाञ्चकारेति काममिष्ट्ंअ सिद्ध्यति, निवृत्तिपक्षे तु यदि लिटि परतो निवृत्तिस्तथापि प्रत्ययलक्षणेन कास्प्रत्ययादित्यामा भवितव्यम्, अथाप्यामि कृते निवृत्तिस्तथापि तस्यैव श्रवणं प्राप्नोतीति सर्वथा गोपांचकारेत्यनिष्ट्ंअ प्राप्नोतीति, जुगोपेति चेष्ट्ंअ न सिद्ध्यति। तस्माद् दुष्ट एवायं परसप्तमीपक्ष इति मत्वाह - आर्द्धधातुके विषय इति। कोऽर्थः? इत्याह - आर्द्धधातुकविवक्षायामिति। आर्धधातुकमिहोत्पादयिष्यामीति बुद्धौ सत्यामित्यर्थः। विषयसप्तमीपक्षेऽपि भिन्नवाक्यतायामार्द्धधातुके विधित्सिते आयादयो भवन्तीत्युक्ते, कुतो विधित्सिते? इत्यपेक्षायामायाद्यन्तस्यापि धातुत्वातत इति गम्यते ततश्च निवृत्तिपक्ष एवाश्रित इति स एव दोषो यं पूर्वमवोचाम। तस्मादेकवाक्यतयोत्पतिविकल्प इत्याह - नित्यप्रत्ययप्रसङ्गे तदुत्पत्तिरार्द्धधातुकविषेये विकल्प्यत इति। किमेवं सति सिद्धं भवतीत्याह - तत्रेति॥