गुप्तिज्किद्भ्यः सन्

3-1-5 गुप्तिज्किद्भ्यः सन् प्रत्ययः परः च आद्युदात्तः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<गुप गोपने>> , <<तिज निशाने>> , <<कित निवासे>> एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति। प्रत्ययसंज्ञा चाधिकृतैव। जुगुप्सते। तितिक्षते। चिकित्सति॥ निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यतेऽन्यत्र यथाप्राप्तं प्रत्यया भवन्ति॥ गोपयति। तेजयति। सङ्केतयति। गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गुप्तिज्किद्भ्यः सन्>> - गुप्तिज्किद्भ्यः ।

Padamanjari

Up

गुप्तिज्किद्भ्यः सन्॥ गुप गोपने इति।'गुप व्याकुलत्वे' ,'गुपू रक्षणे' इत्येतयोस्तु ग्रहणं न भवति; तिजिना सह गणे पठितस्यानुदातेन एव गुपेरिहापि ग्रहणात्। प्रत्ययसंज्ञा चाधिकृतैवेति। का पुनरत्र विस्मरणाशङ्का, किन्त्वन्वर्था प्रत्ययसंज्ञा, अनर्थकस्य गुपादिसनो न स्यादित्याशङ्कानेन निवार्यते। अधिकारसामर्थ्यादनर्थकस्यापि भवतीत्यर्थः। अन्वर्थता त्वर्थवदनर्थकसम्भवेऽर्थवतो ग्रहणेहेतुः। निन्दादयस्तु गुपादीनामर्था न सनः, अन्यथा गुपादीनामानर्थक्यप्रसङ्गात्। धातूनां चानेकार्थत्वं तत्र तत्र द्दश्यते। प्रत्ययास्तु स्वार्थिका अपि भवन्ति समासान्तादिवत्। जुगुप्सते इति। धातोरित्येवमनभिधानादस्य सनोऽनाद्धधातुकत्वादिडभावः। निन्दाक्षमेति। प्रायिकमेतदुपाधिवचनम्। तथा च'क्षेत्रियच् परक्षेत्रे चिकित्स्यः' इत्यत्र ग्रन्थः - ठथ वा क्षेत्रियाणि तृणानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि, अथ वा क्षेत्रियः पारदारिकः, परदाराः परक्षेत्रेम्, तत्र चिकित्स्यो निगृहीतव्यःऽ इति। संशयेऽपि द्दश्यते - तद्व्यचिकित्सन्, य एवं विद्वान्विचिकित्सति, तच्छुश्रुवानृषिर्व्यचिकित्सदिति च। अन्यत्रेति। अर्थान्तरवृतेर्द्धात्वन्तरादित्यर्थः। एतच्च'पूर्ववत्सनः' इत्यत्र निपूणतरमुपपादितम्। गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति। एतदपि तत्रैवोपपादितम्। गुपादीष्विति बहुवचनं मान्वधादिसूत्राभिप्रायम्। कितिस्तुपरस्मैपदी, तथा चानन्तरमेव प्रयोगा दर्शिताः। सनो नकारः स्वरार्थः, नित्करणसामर्थ्याद्धातुस्वरो न भवति - यत्स्तोतारं जिघांससि सखायम्। विशेषणार्थश्च - ठज्झनगमां सनिऽ'हनेः सः' हंस इत्यत्र मा भूत्।'स्तौतिण्योरेव षण्यभ्यासात्' ,सुषुपिष इन्द्रमित्यत्र मा भूत्।'सन्यङेः' इत्यत्रापि'लिटि धातोः' इत्यतो धातोरित्यनुवृतैर्यद्यपि तृणादिभ्यः सेऽप्रसङ्गः। हंसः, वत्स इत्यादौ तु स्यादेवोणादीनां व्युत्पत्तिपक्षे। प्रतीषिषतीत्यत्र प्रतिपूर्वादिणः सनि विहिते ठजादेर्द्वितीयस्यऽ इति शब्दस्य द्विर्वचनं यथा स्यादेवमर्थः।'यथष्ट्ंअ नामधातूनामिति वक्तव्यम्' पुत्रीयिषिषति। अन्यत्र त्वार्द्धधातुके ठतो लोपःऽ सार्वधातुके शपा सहैकादेश इति नास्ति विशेषः॥