3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ्
index: 3.1.15 sutra: कर्मणो रोमन्थतपोभ्यां वर्तिचरोः
रोमन्थशब्दात् तपःशब्दाच् च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ् प्रत्ययो भवति। रोमन्थं वर्तयति रोमन्थायते गौः। हनुचलने इति वक्तव्यम्। इह मा भूत्, कीटो रोमन्थं वर्तयति। तपसः परस्मैपदम् च। तपशचरति तपस्यति।
index: 3.1.15 sutra: कर्मणो रोमन्थतपोभ्यां वर्तिचरोः
रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनीयां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते ।<!हनुचलन इति वक्तव्यम् !> (वार्तिकम्) ॥ चर्वितस्याकृष्यपुनश्चर्वण इत्यर्थः । नेह कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थं इति कैयटः । वर्तुलं करोतीत्यर्थं इति न्यासकारहरदत्तौ ।<!तपसः परस्मैपदं च !> (वार्तिकम्) ॥ तपश्चरति तपस्यति ॥
index: 3.1.15 sutra: कर्मणो रोमन्थतपोभ्यां वर्तिचरोः
कर्मणः रोमन्थतपोभ्यां वर्तिचरोः - कर्मणो रोमन्थ । वृतुधातोण्र्यन्तात्धात्वर्थनिर्देशे इग्वक्तव्यः॑ इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेः संपदादित्वाद्भावे क्विप् । वर्ति चर अनयोद्र्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । तपोभ्यामिति । रोमन्थमिति । उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् । उद्गीर्णस्य = उदरादुपरि कण्ठ्दवारा निर्गतस्य, निगीर्णस्य = अपानद्वारा निर्गतस्य च मन्थः = चर्वणं रोमन्थ इत्यर्थः । वर्तयतीति । आवर्तयतीत्यर्थः । हनुचलन इति । हनु = तालु, तच्चलने सत्येव अयं विधिरित्यर्थः । तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात्क्यङिति फलितम् । तदाह — चर्वितस्येति । हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीट इति । इह हनुचलनाऽभावान्न क्यङिति भावः । तदेवोपपादयति — अपानेति । तपसः परस्मैपदं चेति — वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्राच्चरणे क्यङं लभते, ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव च लभते इत्यर्थः । तपस्यतीति । प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्वर्वर्तिविभक्त्यभावात् 'नः क्ये' इति नियमाच्च पदत्वाऽभावान्न रुत्वमिति भावः ।
index: 3.1.15 sutra: कर्मणो रोमन्थतपोभ्यां वर्तिचरोः
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः॥'कर्मणः' इति पञ्चमी, रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्। प्रत्येकसम्बन्धात्वेकवचनम्। वर्तीति। ण्यन्ताद् वृतेः'ण्यासश्रन्थो युच्' इति युचि प्राप्तेऽस्मादेव निपातनात् क्तिन्। युजपि भवति - वर्तना । चरणं चर्, संपादित्वाद्भावे क्विप्। हनुचलन इति। हनुचलनसहचरितं चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं तत्रेत्यर्थः। कीटो रोमन्थं वर्तयतीति। अवगीर्णमपादानप्रदेशान्निः सृतं रोमन्थाख्यं द्रव्यं वर्तयतिउ वृतं करोति, गुलिकां करोतीत्यर्थः। नात्र हनुचलनमस्ति। तपसः परस्मैपदं चेति। एवं च'नमोवरिवः' आदिसूत्रे तपः शब्दः पठितव्यस्तथा तु न कृतमित्येव। इह'तपस्यते लोकं जिगीषुरग्नेः' इति'तपस्यते लोकं जिगीषुरग्नेः' इति छान्दसत्वादात्मनेपदम्॥