3-1-17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ् कर्मणः
शब्द वैर कलह अभ्र कण्व मेघ इत्येतेभ्यः करणे करोत्यर्थे क्यङ् प्रत्ययो भवति। शब्दं करोति, शब्दायते। वैरायते। कलहायते। अभ्रायते। कण्वायते। मेघायते॥ सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम्॥ सुदिनायते। दुर्दिनायते। नीहारायते॥ अटाट्टशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्॥ अटायते। अट्टायते। शीकायते। कोटायते। पोटायते। सोटायते। प्रुष्टायते। प्लुष्टायते॥
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥<!सुदिनदुर्दिननीहारेभ्यश्च !> (वार्तिकम्) ॥ सुदिनायते ॥
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । <=शब्दं करोति शब्दायते=> (गणसूत्रम्) ॥ <=तत्करोति तदाचष्टे=> (गणसूत्रम्) इति णिचि ॥ <!प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्!> (वार्त्तिकम्) । प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । इत्यल्लोपः । घटं करोत्याचष्टे वा घटयति ॥ इति नामधातवः ॥
<<शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे>> - शब्दवैर । करणं - क्रिया । तदाह — करोत्यर्थे इति ।तत्करोती॑ति णिचोऽपवादः । पक्षे इति । कदाचिदित्यर्थः । न्यास इति । भाष्याऽनारूढत्वमत्र अरुचिबीजम् । सुदिनदुर्दिन इति- वार्तिकम् ।करोत्यर्थे क्य॑हिति शेषः ।