ऋतेरीयङ्

3-1-29 ऋतेः ईयङ् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः

Kashika

Up

index: 3.1.29 sutra: ऋतेरीयङ्


ऋतिः सौत्रो धातुः धृणायां वर्तते, ततः ईयङ् प्रत्ययो भवति। ङकार आत्मनेपदार्थः। ऋतीयते, ऋतीयेते, ऋतियन्ते। ईयङ्वचनं ज्ञापनार्थं, धातुविहितानां प्रत्ययानामायनादयो न भवन्तीति।

Siddhanta Kaumudi

Up

index: 3.1.29 sutra: ऋतेरीयङ्


ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां च इत्येके । सनाद्यन्ता - <{SK2304}> इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा <{SK2305}> इतीयङभावे शेषात्कर्तरि - <{SK2259}> इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ॥ इति तिङन्तभ्वादिप्रकरणम् ।

Balamanorama

Up

index: 3.1.29 sutra: ऋतेरीयङ्


ऋतेरीयङ् - ऋतेरीयङ् । ऋतेर्धातुपाठेऽदर्शनादाह — ऋतिः सौत्र इति । स्वार्थे इति । अर्थविशेषस्याऽनिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः । इदन्तत्व हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयथ्र्यात् । नच इदन्तत्वे सति 'एरनेकाचः' इति यण् स्यादिति वाच्यम्, एवमपि 'ऋतेर्ङ्यः' इति ङ्यप्रत्यये कृतेअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घेणैव सिद्धे इयङ्विधिवैयथ्र्यात् । एके इति । अन्ये इत्यर्थः । ऋतीयते इति । ईयङोऽदन्तत्वाच्छपि पररूपम् । ऋतीयांचक्रे इति ।कास्प्रत्यया॑दित्याम् । ऋतीयिता । ऋतीयिष्यते । ऋतीयताम् । आर्तीयत । ऋतीयेत । ऋतीयिषीष्ट । आर्तीयिष्ट । आर्तीयिष्यत । आनर्तेति । ऋत् इति तकारान्ताल्लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषेअत आदे॑रित्यभ्यासस्य दीर्घेतस्माननुड्द्विहलः॑ इति नुट्,नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्रते॑ इत्युक्तेरिति भावः । आनृततुः आनृतुः । अनिट्सु अस्याऽपाठात् थलि नित्यमिट् । आनर्तिथ आनृतथुः आनृत । आनर्त । आनृतिव आनृतिम । अर्तिता । अर्तिष्यति । ऋत्यात् । आर्तीदिति । 'इट ईटि' इति सिज्लोपः । आडागमः । आर्तिष्यत् । अथ लुगविकरणान् धातून्निरूपयितुमुपक्रमते — अद भक्षणे इति । अनिडयम् ।

Padamanjari

Up

index: 3.1.29 sutra: ऋतेरीयङ्


ऋतेरीयङ्॥ सौत्र इति। अस्मिन्नेव सूत्रे उच्चरित इत्यर्थः। घृणायां वर्तत इति। नात्र कृपायां घृणाशब्दः, किं तर्हि? जुगुप्सायास;'घृणा जुगुप्साकृपयोः' इति वचनात्। जुगुप्साउनिन्दा, बीभत्सेत्यर्थः। ऋतीयाशब्दो बीभत्सापर्यायो निघण्टुअषु पठितः। अथ कस्मादीयणुच्यते न च्छणेóवोच्यते, तस्य ईयादेशे कृते ऋतीयत इति सिद्धम्, परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशोच न स्यादिति चेत्? न; अन्तङ्गत्वात्, आयन्नदिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति वचनादन्तरङ्गत्वम्। ज्ञापनार्थ तु, एतज्ज्ञापयति - धातुप्रत्ययानामयन्नादयो न भवन्तीति, तेन'कणेष्ठः' इत्यत्रेकादेशो न भवति। क्वचितु वृतावेवं पठ।ल्ते - ठृतेश्च्छङ्ऽ इत्येव सिद्धे ईयङ्वचनं ज्ञापक् - धातुविहितानामायन्नादयो न भवन्तीति। अत्र ब्रूमः -'द्विवचनविभज्योपपदे तरप्च्छसुनौ' इत्येव सिद्धे ईयसुन्वचनं ज्ञापकं प्रातिपदिकप्रत्ययानामायन्नादयो न भवन्तीति। उच्यन्ते चायन्नादयस्ते वचनादुभयेषामपि स्युः, तस्माद्दतेश्च्छङ्त्याइदि वृतौ न पठनीयमिति॥