7-4-83 दीर्घः अकितः अभ्यासस्य यङ्लुकोः
index: 7.4.83 sutra: दीर्घोऽकितः
अकितोऽभ्यासस्य दीर्घो भवति यङि यङ्लुकि च। पापच्यते। पापचीति। याय्ज्यते। यायजीति। अकितः इति किम्? यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। ननु चात्र अपवादत्वान् नुकि कृते अभ्यासस्य अनजन्तत्वादेव दीर्घत्वं न भविष्यति? एवं तर्हि अकितः इत्यनेन एतज् ज्ञाप्यते, अभ्यासविकारेष्वपवादा न उत्सर्गान् विधीन् बाधन्ते इति। किम् एतस्य ज्ञापने प्रयोजनम्? डोढौक्यते इत्यत्र दीर्घोऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते, अचीकरदित्यत्र दीर्घो लघोः 7.4.94 इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते मीमांसते, ई च गणः 7.4.97 इतीत्वेन हलादिशेषो न बाध्यते अजीगणत्।
index: 7.4.83 sutra: दीर्घोऽकितः
अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ॥
index: 7.4.83 sutra: दीर्घोऽकितः
अकितोऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। कुटिलं व्रजति वाव्रज्यते॥
index: 7.4.83 sutra: दीर्घोऽकितः
अपवादत्वादिति । नाप्राप्ते दीर्घे नुक आरम्भावदपवादत्वम् । अनजन्तत्वादेवेति । दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादभ्यासविशेषणादजन्तस्याभ्यासस्य दीर्घो विधीयत इति भावः । अभ्यासविकारेष्वित्यादि । अपवादग्रहणं बाधकमात्रोपलक्षणम्, उत्सर्गग्रहणमपि बाध्यमात्रोपलक्षणम् । तत्र ह्रस्वत्वस्यावकाशः - ययावित्यत्र, दीर्घत्वस्यावकाशः - पापच्यत इत्यादि; डोढौक्यत इत्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वस्यः प्रसङ्गः, नापवादत्वात् । तथा सन्वद्भावस्यावकाशः - अचिक्षणदिति, दीर्घत्वस्यावक्राशः - अदीदिपदिति; अचीकरदित्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वप्रसङ्गः । मीमांसते इत्यत्राप्यनैमितिकत्वेनान्तरङ्गत्वाद्दीर्घत्वप्रसङ्गः, इत्वं तु सनि परतोऽङ्गाधिकारेऽभ्यासस्याकारान्तस्य विधानाद्वहिरङ्गम् । अजीगणदित्यत्र त्वेकस्मिन् येननाप्राप्तिन्यायेन हलादिशेषस्येत्वमपवादत्वाद् बाधकं प्राप्नोति । इह तु अपचच्छतुः, अपचच्छुः, चच्छदतुः, चच्छदुः, चिच्छादयिषति, चिच्छर्दयिषति, चेच्छिद्यते - इति परत्वात् ह्रस्वत्वात्वेत्वगुणेषु कृतेषु पश्चातुक्, क्रियते; तेनैतन्न नोदनीयम् - तुकि कृते एत विधयो न प्राप्नुवन्तीति । ठोहाक् त्यागेऽ इत्यस्य धातोर्निषेधो न भवति, धातुर्ह्ययं कित्, न त्वभ्यासः । ककारस्तु'हश्च व्रीहिकालयोः' इत्यत्र हाङ्हाकीः सामान्येन ग्रहणार्थः ॥