क्यचि च

7-4-33 क्यचि च यङि अस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अस्य इति वर्तते। क्यचि परतः अवर्णान्तस्य अङ्गस्य ईकारादेशो भवति। पुत्रीयति। घटीयति। खट्वीयति। मालीयति। अकृत्सार्वधातुकयोर्दीर्घः 7.4.25 इत्यस्य अपवादः। पृथग्योगकरणमुत्तरार्थम्।

Siddhanta Kaumudi

Up

अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये <{SK63}> । गव्यति । नाव्यति । लोपः शाकल्यस्य <{SK67}> इति तु न । अपदान्तत्वात् । तथा हि ॥

Laghu Siddhanta Kaumudi

Up

अवर्णस्य ईः। आत्मनः पुत्रमिच्छति पुत्रीयति॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्यचि च>> - क्यचि च । 'अस्य च्वौ' इत्यतोऽस्येत्यनुवर्तते ।ई घ्राध्मो॑रित्यत ईग्रहणं चेति मत्वा शेषं पूरयति — अस्येति । अकारस्येत्यर्थः । पुत्रीयतीति । क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीयमिच्छतीत्यत्र पुत्रशब्दान्न क्यच् । गव्यतीति । गामात्मन इच्छतीत्यर्थः । नाव्यतीति । नावमात्मन इच्छतीत्यर्थः । अपदान्तत्वादिति ।लोपः शाकल्यस्ये॑त्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह — तथा हीति । यथा पदत्वं न भवति तथोच्यते इत्यर्थः ।

Padamanjari

Up