लोहितादिडाज्भ्यः क्यष्

3-1-13 लोहितादिडाज्भ्यः क्यष् प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ् भुवि अच्वेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष् प्रत्ययो भवति। लोहितायति। लोहितायते। डाजन्तेभ्यः — पटपटायति। पटपटायते॥ लोहितडाज्भ्यः क्यष्वचनम्, भृशादिष्वितराणि॥ यानि लोहितादिषु पठ्यन्ते तेभ्यःक्यङेव, अपरिपठितेभ्यस्तु क्यषेव भवति। वर्मायति। वर्मायते। निद्रायति। निद्रायते। करुणायति। करुणायते। कृपायति। कृपायते। आकृतिगणश्चायम्। तथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते <<नःक्ये>> (१.४.१५) इति। नहि पठितानां मध्ये नकारान्तः शब्दोऽस्ति। कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव वचनं ज्ञापकम्। अच्वेरित्यनुवृत्तेरभूततद्भावे क्यष् विज्ञायते॥ लोहित। नील। हरित। पीत। मद्र। फेन। मन्द। लोहितादिः॥

Siddhanta Kaumudi

Up

लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लोहितादिडाज्भ्यः क्यष्>> - लोहितादि । भवत्यर्थे इति ।भृशादिभ्यो भुवी॑त्यतो भुवीत्यनुवृत्तेरिति भावः ।

Padamanjari

Up

लोहितादिडाजभ्यः क्यष्॥ पटपटायतीति। अव्यक्तानुकरणादिति डाचि विवक्षिते'डाचि बहुलं द्वे भवतः' इति द्विर्वचनम्, ततो डाप्, पटत्पटा इति स्थिते'नित्यमाम्रेडिते डाचि' इति पटच्छब्दस्य यस्तकारे यश्च परः पकारस्तयोः पररूपं पकारः, लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणिऽ इति वार्तिकम्, तदेतत्पठिताभिप्रायं न पुनरनेनादिग्रहणं प्रत्याख्यायत इत्याह - यानि पठ।ल्न्ते इति। निद्राकरुणाकृपाशब्दा वृत्तिविषये तद्वति वर्तन्ते, अनिद्रो निद्रावान् भवति, अकरुणः करुणावान् भवति, अकृपः कृपावान् भवतीत्यत्रार्थे प्रत्ययः। ऊपरिपठितेभ्यस्तु क्यषेव भवतीत्यस्योपपादनम्। आकृतिगणश्चायमिति। कुत इत्यत आह - तथा चेति। क्व पुनः सामान्यग्रहणार्थः ककारः? क्यच्व्योश्चेति। ठापत्यस्यऽ इति वर्तते, न चायमापत्यादिष्यते। इह तर्हि'क्यस्य विभाषा' ?'हलः' इति वर्तते, न चायं हलन्तादिष्यते। इह तर्हि'क्याच्छन्दसि' ? एतद्याच्छन्दसीति वक्तव्यम् - भुरण्युस्तुरण्युरिति, कण्ड्वादियगन्तादपि यथा स्यादिति।'वा क्यषः' इत्येतद्वा यादित्येवास्तु। न चैवम्'पाशादिभ्यो यः' पाश्या, अत्र प्रसङ्गः? सामान्यविहितानान्तिङं नियमार्थ प्रकरणम्। न च पाशादयात्पिरस्मैपदमात्मनेपदं वा प्राप्तमस्ति। अथाप्याचारक्विबन्तात्सम्भवेद्? एवमपि'वा यषः' इत्येवास्तु तत्राह - नः क्ये इति। ककारमनुबन्धमासञ्जतः सूत्रकारस्याप्याकृतिगणत्वमभिप्रेतमित्याह - न हीति। भाष्ये त्वादिग्रहणप्रत्याख्यानपरमेव वार्तिकं व्याख्यातम्। ककारोऽपि प्रत्याख्यातः। कथं पुनः पटपटायताति क्यष्योगे डाज् भवति, यावता कृभ्वस्तियोगे स विधीयते? तत्राह - कृभ्वस्तिभिरिवेत्यादि। भवत्यर्थे क्यष् विधीयते, स भवतिप्रयोगे न भवति, तेनैवोक्तत्वातस्यार्थस्य। अतो भवतेरप्रयोग एव क्यषा भवितव्यम्। यदि च क्यषा योगो डाज्च न स्याड्डाजन्तात् क्यष्विधानमनुपपन्नं स्यादिति भावः। अथ किमर्थम्'वा क्यष' इति सूत्रमारभ्यते, न क्यष् चेति चकारोऽत्र कर्तव्यः, लोहितादिभ्यः क्यष् भवति चकारात् क्यङ् च, तत्र क्यङ्पक्षे आत्मनेपदम्, क्यष्पक्षे परस्मैपदमिति सिद्धमिष्टम्? अहो सूक्ष्मदर्शी देवानांप्रियः, यदिदमपि न द्दष्टम् -'क्यङ्मानिनोश्च' इति। इह तर्हि'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति लोहिनीशब्दादप्ययं क्यष् भवति, सति चैवं क्यङ्न्तादात्मनेपदं क्यषन्तात्परस्मैपदमिति विज्ञायमाने आत्मनेपदपक्षे'क्यङ्मानिनोश्च' इति पुंवद्भावे सति अलोहिनी लोहिनी भवति लोहितायत इति प्राप्नोति, अद्य पुनः क्यषन्तादात्मनेपदे विकल्पिते लोहिनीयते लोहिनीयतीतीष्ट्ंअ सिद्ध्यतीति स्पष्ट एव फलभेदः॥