भूवादयो धातवः
1-3-1 भूवादयः धातवः
Sampurna sutra
Up
भूवादयः धातवः
Neelesh Sanskrit Brief
Up
'भू' इत्यादयः शब्दाः क्रियावाचिनि अर्थे धातुसंज्ञकाः भवन्ति ।
Neelesh English Brief
Up
The words भू and others, when used to denote an action, are called 'धातु'.
Kashika
Up
भू इत्येवमादयः शब्दाः क्रियावचना धातुसंज्ञका भवन्ति। भू — भवति। एध — एधते। स्पर्ध — स्पर्धते। धातुशब्दः पूर्वाचार्यसंज्ञा। ते च क्रियावचनानां संज्ञां कृतवन्तः। तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावाचिनामेव भूवादीनां धातुसंज्ञा विधीयते।
भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते।
भुवो वार्थं वदन्तीति भ्वर्था वा वादयः स्मृताः॥
धातुप्रदेशाः — <<धातोः>> ३.१.९१ इत्येवमादयः॥
Siddhanta Kaumudi
Up
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥
Laghu Siddhanta Kaumudi
Up
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा धातु: इति संज्ञा प्रकृतसूत्रेण विधीयते । भू-आदीनाम् शब्दानाम् क्रियावाचिनि अर्थे धातुसंज्ञा भवति — इति अस्य सूत्रस्य आशयः । अत्र भू-आदीनाम् इत्यनेन भू, एधँ, स्पर्धँ, गाध्, बाध्... इत्यादयः प्रायेण 2000 शब्दाः गृह्यन्ते । एतेषाम् सर्वेषाम् आवली धातुपाठः नाम्ना ज्ञायते । एते सर्वे धातवः पाणिनिना धातुपाठे उपदिष्टाः सन्ति, अतः एते औपदेशिकधातवः इति नाम्ना अपि प्रसिद्धाः सन्ति ।
धातुपाठः
पाणिनीयव्याकरणस्य प्रायेण 2000 धातूनाम् सङ्कलनम्
धातुपाठः इति नाम्ना प्रसिद्धम् अस्ति । अस्य धातुपाठस्य मुख्यानि वैशिष्ट्यानि एतानि —
1. धातुपाठे विद्यमानः धातवः दशसु गणेषु विभाजिताः सन्ति — भ्वादिगणः (~1000 धातवः), अदादिगणः (~70 धातवः), जुहोत्यादिगणः (~25 धातवः), दिवादिगणः (~150 धातवः), स्वादिगणः (~35 धातवः), तुदादिगणः (~170 धातवः), रुधादिगणः (~25 धातवः), तनादिगणः (~10 धातवः), क्र्यादिगणः (~70 धातवः), चुरादिगणः (~ 450 धातवः) । एतादृशम् विभाजनम् लट्-लङ्-लोट्-विधिलिङ्-लकारेषु विद्यमानानाम् रूपाणाम् आधारेण कृतम् अस्ति । प्रत्येकस्मिन् गणे धातवः पुनः पदम् अनुसृत्य, स्वरम् अनुसृत्य, अन्तिमवर्णम् च अनुसृत्य रचिताः सन्ति ।
2. धातुपाठे धातूनाम् स्थापनम् अनुबन्धेन सह कृतं दृश्यते । धातुषु विद्यमानानाम् सर्वेषाम् अपि अनुबन्धानाम् प्रक्रियायाम् विशिष्टं कार्यम् विद्यते ।
3. धातुपाठे कानिचन सूत्रसदृशानि लघुवाक्यानि अपि विद्यन्ते । यथा, <<चर्करितं च>>, <<स्वादयः ओदितः>>, <<आकुस्मीया आत्मनेपदिनः>> - इत्यादीनि । एतानि सर्वाणि गणसूत्राणि नाम्ना ज्ञायन्ते ।
4. अद्यतनकाले उपलब्धे धातुपाठे धातवः अर्थेन सह एव विद्यन्ते । परन्तु पाणिनिना मूलरूपेण यः धातुपाठः विरचितः, तस्मिन् अर्थाः नैव आसन्, अपितु एतान् अर्थान् भीमसेनः इत्याख्य कश्चन अर्वाचीनः वैयाकरणः तत्र संस्थापितवान् इति पण्डितानां सामान्यं मतम् । धातुपाठे विद्यमानाः एते अर्थाः केवलम् निर्देशस्वरुपिणः सन्ति, धातूनाम् प्रयोगस्य सर्वान् अर्थान् न गृह्णन्ति इति अपि तेषाम् अभिप्रायः । The meanings of dhatus available in the dhatupath are purely indicatory in nature and should neither to be considered exhaustive nor precise.
5. धातुपाठस्य केचन पाठभेदाः अपि विद्यन्ते । एतेभ्यः त्रयः पाठभेदाः वैयाकरणैः विशेषरूपेण अधीयन्ते - क्षीरस्वामिना विरचितः क्षीरतरङ्गिणीधातुपाठः,
मैत्रेयरक्षितेन विरचितः धातुप्रदीपः तथा च सायणाचारयेण विरचिता माधवीयधातुवृत्तिः इति । सिद्धान्तकौमुद्याम् अपि कश्चन धातुपाठः भट्टोजीदीक्षितेन स्थापितः अस्ति । यद्यपि एतेषु सर्वेषु अपि पाठभेदेषु विद्यमानाः धातवः प्रायेण समानाः एव, तथापि देशकालभेदम् उच्चारणभेदम् च अनुसृत्य तत्र केचन भेदाः अपि अवश्यम् दृश्यन्ते । अतएव धातूनाम् समग्ररूपेण (precise) सङ्ख्या नैव वक्तुं शक्यते । सामान्यरूपेण 2000 धातवः सन्ति - इत्यनैनैव अलम् ।
6. धातुपाठेषु विद्यमानानाम् धातूनाम् क्रमः विशिष्टं हेतुं मनसि निधाय पाणिनिना विरचितः अस्ति । तथापि अयं क्रमः सूत्रक्रमसदृशः नैव महत्त्वपूर्णः । सूत्रपाठे यथा सूत्राणाम् क्रमम् अनुसृत्य पूर्वपरत्वम् असिद्धत्वं वा वर्तते, तथा धातुपाठे नैव किञ्चित् विद्यते । अतः धातुपाठस्य धातुनां क्रमपरिवर्तनम् क्रियते चेदपि नैव दोषाय । यथा, केषुचन नूतनसंस्करणेषु धातवः अन्वेषणसौलभ्यार्थम् अकारादिक्रमेण अपि स्थापिताः सन्ति तदपि समीचीनमेव ।
'भूवादयः' इति शब्दे वकारग्रहणस्य प्रयोजनम्
प्रकृतसूत्रे पाणिनिना
भूवादयः इत्यत्र
वकारः स्थापितः अस्ति । 'भू-व-आदयः' इति अत्र पदविग्रहः । अत्र वकारग्रहणम् माङ्गल्यार्थम् उपयुज्यते इति प्रकृतसूत्रस्य भाष्ये भाष्यकारेण स्पष्टी क्रियते ।
मङ्गलादीनि मङ्गममध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते इति उक्त्वा अत्र भाष्यकारः स्पष्टी करोति, यत् शास्त्रग्रन्थेषु सामान्यरूपेण प्रारम्भे, मध्ये, तथा च अन्ते - इति त्रिषु स्थलेषु मङ्गलाचरणम् कृतं दृश्यते । इमाम् एव प्रथाम् अनुसृत्य सूत्रपाठस्य 'मध्यस्थले' विद्यमानम् मङ्गलाचरणम्
वकारेण कृतम् अस्ति इति अत्र भाष्यकारस्य आशयः ।
काशिकाकारेण तु अत्र कश्चन अन्यः पक्षः अपि प्रदर्शितः अस्ति । अस्मिन् पक्षे
भूवादयः शब्दस्य
भू + वादयः इति विग्रहः क्रियते । अत्र विद्यमानस्य
भू-शब्दस्य अर्थः 'क्रियासामान्यः' (a general action) इति स्वीक्रियते, न हि भू-धातुः इति । एवमेव,
वादयः इति शब्दस्य अर्थः 'यः वाचकत्वेन विधीयते सः' (indicator) इति अत्र गृह्यते । अनेन
क्रियासामान्याः अर्थाः यैः शब्दैः वाचकत्वेन विधीयन्ते ते शब्दाः धातुसंज्ञका भवन्ति (words that indicate a general action), इति अर्थः लभ्यते । धातुपाठे विद्यमानानाम् शब्दानाम् क्रियावाचिनि अर्थे एव धातुसंज्ञा भवति, अन्येषु अर्थेषु न, इति अत्र आशयः । अतएव
भू शब्दस्य
पृथिवी अस्मिन् अर्थे धातुसंज्ञा न भवति ।
औपदेशिकधातवः, सौत्रधातवः, आतिदेशिकधातवः
संस्कृतव्याकरणे धातूनाम् त्रयः प्रकाराः सन्ति — औपदेशिकाः धातवः, सौत्राः धातवः, आतिदेशिकाः धातवः इति । तदित्थम् —
1. औपदेशिकाः धातवः — धातुपाठे साक्षात् विद्यमानाः (इत्यक्ते, <<भूवादयो धातवः>> 1.3.1 इति प्रकृतसूत्रेण निर्दिष्टाः) धातवः औपदेशिकाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् साक्षात् उपदेशः धातुपाठे कृतः अस्ति, अतः 'औपदेशिकधातवः' इति एषां नाम ।
आ) 2. सौत्राः धातवः — केचन धातवः धातुपाठे न विद्यन्ते परन्तु अष्टाध्याय्याः सूत्रेषु तेषाम् निर्देशः लभ्यते । यथा, <<ऋतेरीयङ्>> 3.1.29 इत्यस्मिन् सूत्रे ऋत्-इत्यस्मात् धातोः पाणिनिना इयङ्-प्रत्ययः उक्तः अस्ति । वस्तुतः पाणिनीयधातुपाठे ऋत् इति न कश्चन धातुः विद्यते, परन्तु अत्र सूत्रनिर्देशसामर्थ्यात् अस्य धातुत्वम् अवश्यम् एव स्वीक्रियते । एतादृशाः धातवः, ये अष्टाध्याय्याः सूत्रेषु उद्धृताः सन्ति, ते सौत्राः धातवः नाम्ना ज्ञायन्ते । 'सूत्रे विद्यमानाः धातवः' इति अर्थः ।
3. आतिदेशिकधातवः — अष्टाध्याय्याम् विद्यमानाः सनादयः प्रत्ययाः यदा प्रातिपदिकेभ्यः उत धातुभ्यः प्रयुज्यन्ते, तदा <<सनाद्यन्ता धातवः>> 3.1.32 इति सूत्रेण नूतनानां धातूनां निर्माणं भवति । यथा, पुत्रम् आत्मनः इच्छति अस्मिन् अर्थे पुत्र इत्यस्मात् शब्दात् काम्यच् इति प्रत्ययः विधीयते चेत् पुत्रकाम्य इति यः नूतनः शब्दः सिद्ध्यति, तस्य <<सनाद्यन्ता धातवः>> 3.1.32 इत्यनेन सूत्रेण धातुसंज्ञा भवति । अस्यैव धातोः अग्रे पुत्रकाम्यति / पुत्रकाम्यतु / अपुत्रकाम्यत् एतादृशानि तिङन्तरूपाणि, एवमेव कृदन्तरूपाणि च भवितुम् अर्हन्ति । एतादृशाः सर्वे धातवः, ये सनादिप्रत्ययानां योजनेन सिद्ध्यन्ति, ते आतिदेशिकाः धातवः नाम्ना ज्ञायन्ते । णिजन्ताः (यथा, पठ् + णिच् → पाठि), सन्नन्ताः (यथा, पठ् + सन् → पिपठिष), यङन्ताः (यथा, पठ् + यङ् → पापठ्य) एते सर्वे अपि आतिदेशिकधातुषु एव अन्तर्भवन्ति, यतः एते सर्वे अपि सनादिप्रत्ययान्तशब्दाः एव सन्ति । एतेषाम् सर्वेषाम् परिगणनम् धातुपाठे नैव कृतम् विद्यते, अतः <<भूवादयो धातवः>> 1.3.1 इति सूत्रेण एतेषाम् धातुसंज्ञा नैव भवति ; अपितु <<सनाद्यन्ता धातवः>> 3.1.32 इत्यनेन सूत्रेण एतेषु शब्देषु धातु-संज्ञायाः अतिदेशं (superimposition) कृत्वा एतेषाम् 'धातुः' इति संज्ञा विधीयते । अतएव एतेषाम् 'आतिदेशिकधातवः' इति नाम दत्तम् अस्ति ।
Balamanorama
Up
<<भूवादयो धातवः>> - भूवादयो धातवः । भूश्च वाश्च भूवौ । आदिश्च आदिश्च आदी । प्रथम आदिशब्दः प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः । भूवौ आदी येषां ते भूवादयः । भूप्रभृतयो वासदृशाश्च ये, ते धातुसंज्ञका इत्यर्थः । वाधातुसादृश्यं च क्रियावाचकत्वेन । तदाह — क्रियावाचिन #इत्यादिना । क्रियावाचिनः किम् । धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत् । धातुत्वे हि 'आतो धातोः' इत्याल्लोपः स्यात् । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्तयच्छब्दस्याऽत्र न ग्रहणप्रसक्तिः । 'क्रियावाचिन' इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम्, धातुपाठे वा इत्यस्य पाठात् । 'वां गतिगन्धनयोः' 'या प्रापणे' इत्यर्थनिर्देशस्याधुनिकत्वात् । 'क्रियावाचिन' इत्युक्तौ तु न दोषः । वार्थस्य विकल्पस्य, 'वा भविष्यति' इतिवा अभव॑दित्येवं भूतभविष्यत्कालसंबन्धाऽभावेन क्रियात्वाऽभावादिति शब्देन्दुशेखरे स्थितम् । भ्यादयः किम् । वर्जनक्रियावाचिनो हिरुगित्यस्य धातुत्वं मा भूत् ।
Padamanjari
Up
'भू' इत्येवमादयः शब्दा इत्यनेन पाठनिबन्धनेयं संज्ञेति दर्शयति। यदि त्वनाद्दत्य, पाठाम्, क्रियावचनो धातुरित्युच्येत, तत आणवेदुइत्यादिष्वपि स्यात्। कथं पुनरपभ्रंशानामनुशासनमाशङ्क्यते? कुतो तु खल्वेतद् आणवेद्वित्यादयोऽपभ्रंशा इति, यावता ये शास्त्रेणानुगम्यन्ते ते साधवः? अवश्यं चातुबन्धादिविशिष्ट्ंअ रूपं पाठेनैव दर्शनीयम्, न हि तद्रूपं प्रयोगे सम्भवति। अतोऽन्यार्थः सन् गणपाठ एवाश्रितो भवतीति धातुत्वे सति लड् भवति। एधते, स्पर्द्धते इत्यनुदातेतौ। यदि पाठमात्रनिबन्धनेयं संज्ञा, या-वा-दिव्-शब्दानां सर्वनामविकल्पस्वर्गवाचिनां समानशब्दानामपि प्रसङ्गः? न च प्रापणादि रर्थो नियामकः, अनार्षत्वाद्, अभियुक्तैरुतरकालनिर्दिष्टत्वाद्, अनेकार्थत्वाभ्युपगमाच्च, सत्यम्; संज्ञायां को दोषः? न तावद्धातुप्रत्ययानां लडादीनां प्रसङ्गः; कर्त्रादीनामभावात्, इच्यते, याः पश्येति ठातो धातोःऽ इति लोपः स्यात्। ननु अधातुः इति निषेधाद् अप्रातिपादिकत्वाद्विभक्तिरेव न स्यात्, नौतदस्ति;विभक्तावुत्पन्नायां त्यदाद्यत्वे टापि च यारूपत्वे सति धातुत्वम्, सुबुत्पत्तिदशायां तु यदित्यस्य नास्ति धातुत्वम; वाशब्दातु सुबेव न स्यात्; एवं दिव्शब्दादपि। न च'दिव औत्; इत्येतद्धातुत्वाभावे लिङ्गम्; क्किबन्तस्य दीव्यतिः सुपि सम्भवात्। सानुबन्धकत्वे' पि तस्यैव ग्रहणं स्याद्, अतः समानशब्दानां प्रतिषेधो वक्तव्य इत्यत आह-धातुशब्द इत्यादि। क्कचितु'भू' इत्येवमादयः शब्दा इत्यस्यानन्तरं क्रियावाचिन इति पठ।ल्ते, तस्मिन् पक्षे यास्य ग्रन्थस्य शङ्का सा तस्य द्रष्टव्या। अस्य तु कथं पुनः सूत्रेऽनुपातः क्रियावचन इत्ययं विशेषो लभ्यते? अत आह-धातुशब्दः पूर्वाचार्यसंज्ञेति। ततः किमित्याह- ते चेति। ततोऽपि किमित्याह-तदिहापीति। महत्याः पूर्वाचार्यसंज्ञाया आश्रयणं तदीयोपाधिपरि-ग्रहार्थमेवेति भावः॥ यावित्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते॥ सिद्धं वा भवत्वसिद्धं वा, शब्देन तु यद्वस्तु साध्यत्वेनाभिधीयते सा क्रिया साध्यत्वे चाश्रितक्रमरूपत्वात् पूर्वापरीभूतावयवत्वं विततरूपत्वं यतद्रूपमभिधीयते तस्यैकस्मिन् क्षणेऽनवस्थानम्, यदाह-क्रिया नामेयमत्यन्तापरिहष्टऽशक्या च सा पिण्डीभूता निदर्शयितुम् इति। एकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपा धातुवाच्या क्रिया न प्रत्यक्षेत्यर्थः। क्रमवन्त एव क्षणा एकफलो द्देशेन संपाद्यामानत्वात् ऐक्यमिवापन्ना धातुवाच्याः तद्यथा-पचतीत्यधिश्रयणादयोऽधः श्रयणान्ताः क्लेदनफलावच्छिन्नाः। एवमपचदित्यत्रापि क्रिया साध्यैव। ताहशस्यैव हि रूपस्य तत्रात्ययः प्रतीयते यत्पूर्वापरीभूतं क्रियते। घट इत्यत्र तु घटशब्देन चक्रोदरगतोऽपि घटः सिद्धरूप उच्यते,एकस्मिन्नेव क्षणे यद्दर्शनयोग्यं रूपं तेन रूपेणेत्यर्थः। तदेवं क्रियावचनो धातुरित्याश्रयणादतिप्रसङ्गो नास्तीति स्थितम्। इह भूरादिर्यषामिति बहुव्रीहौ यणादेशे कृते'भूवादयः' इत्यनुपपन्नो निर्देश इत्यत आह-भूवादीनां वकारोऽयं मङ्गलार्थ इति। अभिधानधर्मस्याप्यभिधेये उपचारः, यथा-भ्रमरे द्विरेफ इति। भूवादीनां संज्ञीनां सम्बन्धी यो वकारः, तदभिधायिनि भूवादिशब्दे स्थितोऽयं प्रयुज्यते, लक्षणेनाप्रप्तो निपात्यत इत्यर्थः। स च मङ्गलार्थः । अपूर्वस्य लाभो मङ्गलम्, साधुशब्दप्रयोगेऽपि धर्मो भवति, भूवादिशब्दश्च साधुः। किं च वकारे सत्यविकृतो भूशब्दो व्यहृत्यादि स्मारयतीत्यपि धर्मो भवतीति। प्रकारान्तरमाह-भुवो वार्थं वदन्तीति। भुवो धातोरर्थं वदन्तीति वा, भूवादय इति निर्देश इत्यर्थः। अर्थकथनं चैतद् । व्युत्पत्तिस्तु भवनं भूः, क्रियासामान्यभुवं वदन्तीत्यौणादिकोऽयम्,'वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्' इति कर्तरि वदेः इञ् प्रत्ययः। यदि क्रियासामान्यं ये वदन्ति ते संज्ञिनः, अस्तिभवतिविद्यतीनामेव स्याद्, न प चत्यादीनां विशेषवाचिनाम्? विशेपक्षे गणपाठसामर्थ्यात् सोऽप्यङ्गीक्रियते, अन्यथा शब्विकरणा ये सेटो निरनुबन्धका अन्तर्गणकार्यवर्जिता भूप्रभृतयस्तेषां पाठोऽनर्थकः स्याद्। बहुवीहेस्तु भूत्वादिशब्दस्य पृषोदरादित्वात्साधुत्वम्। तृतीयं प्रकारमाह-भ्वर्था वा वादयः स्मृता इति। भवनं भूः सोऽर्थो येषां ते भ्वर्थाः, एवम्भूता वादयो वात्र संज्ञिनः स्मृता इत्यर्थः। किमिदं वादय इति ?'वा गतिगन्धनयोः,' वा आदिर्येषां ते वादयः वा गति इत्यारभ्या चुरादिसमाप्तेः। तथा च भ्वादयो वादयः भूप्रभृतय आ'वा गतिगन्धनयोः' इत्यस्माद्। वादयश्च वादयश्च बहुव्रीहितत्पुरुषयोः सहविवक्षायां स्वरभिन्नानां यस्योतरः स्वरविधिरिति बहुव्रीहेः शेषः। ततो भुवो वादय इति वाच्यवाचकसम्बन्धे शेषषष्ठीसमासः। अस्मिन्पक्षे पाठविशेषोऽर्थश्चेत्युभयं सूत्राक्षरैरेवोपातं भवति॥