मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य

3-1-6 मान्बधदान्शान्भ्यो दीर्घः च अभ्यासस्य प्रत्ययः परः च आद्युदात्तः च सन्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<मान पूजायाम्>>, <<बध बन्धने>>, <<दान अवखण्डने>>, <<शान अवतेजने>> इत्येतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य चेकारस्य दीर्घादेशो भवति। मीमांसते। बीभत्सते। दीदांसते। शीशांसते। उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिद् न भवत्यपि। मानयति। बाधयति। दानयति। निशानयति॥ अत्रापि सन्नर्थविशेष इष्यते॥ मानेर्जिज्ञासायाम्, बधेर्वैरूप्ये, दानेरार्जवे, शानेर्निशाने॥

Siddhanta Kaumudi

Up

सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च ।<!गुपोर्निन्दायाम् !> (वार्तिकम्) ।<!तिजेः क्षमायाम् !> (वार्तिकम्) ।<!कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च !> (वार्तिकम्) ।<!मानेर्जिज्ञासायाम् !> (वार्तिकम्) ।<!बधेश्चित्तविकारे !> (वार्तिकम्) ।<!दानेरार्जवे !> (वार्तिकम्) ।<!शानेर्निशाने !> (वार्तिकम्) ॥ सनाद्यन्ता - <{SK2304}> इति धातुत्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य>> - मान्बध । गुप्तिजी इह पठितौ । 'कित निवासे' इत्यनुपदमेव परसमैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्बधधातुश्च इह पठितौ । दान खण्डने, शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्येते । एभ्यश्चतुभ्र्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्याऽर्थः ।आभ्यासस्ये॑ति च्छेदः । अभ्यासस्य विकारः आभ्यासः । स च 'सन्यतः' इति इत्त्वमेव,न तु ह्रस्व इतिगुणो यङ्लुको॑रिति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्बधदान्शानामब्यासावयवस्य इकारस्य सन् — संनियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः । इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह — सत्रद्वयेति । अथ उक्तसनोर्वृत्तिकृदात्युपनिबद्धानर्थविशेषानाह — गुपेर्निन्दायामित्यादिना, शानेर्निशाने इत्यन्तेन । अत गोपानाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । 'मानेर्विचारे' इत्येव वृत्तिकृत् । सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह — सनाद्यन्ता इति ।

Padamanjari

Up

मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ अत्र मान्बधी अनुदातेतौ, शेषौ स्वरितेतौ। अभ्यासस्य चेकारस्यदीर्घो भवतीति।'सन्यतः' इतीत्वे दीर्घो भवतीत्यर्थः। ननु विशेषविहितो दीर्घः सामान्यविहितमित्वं बाधित्वाऽवर्णस्यैव प्राप्नोति? ज्ञापकात्सिद्धम्, यदयं'दीर्घो' कितःऽ, इत्यत्राकित इत्याह, तज्ज्ञापयति - नाभ्यासविकारेषु बाध्यबाधकभाव इति। तद्धि यंयम्यते इत्यादौ नुकि कृते मा भूदिति। यदि चाभ्यासविकारेषु बाध्यबाधकभावः स्याततो विशेषविहितत्वान्नुकि कृतेऽनजन्तत्वादेव न भविष्यति दीर्घः, किं प्रतिषेधेन? अत एव डीढोक्यते इत्यादौ ह्रस्वत्वे कृते गुणो भवति, अन्यथा बबाधे चरितार्थं ह्रस्वं पापच्यते इत्यादौ चरितार्थो दीर्घः परत्वाद्वाधेत। अपर आह - सूत्रोपात एवार्थो वृत्तिकारेणोक्त इति कथमभ्यासस्येति पदच्छेदः, अभ्यासस्य विकार अभ्यासः, स चेत्वमेव। तथा हि - लोपस्य तावदभावरूपत्वाददैशो विधातुमशक्यः, यदि च ह्रस्वस्य दीर्घत्वं स्यात्च तद्धितनिर्देशोऽनर्थकः स्यात्, दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादजन्तस्य दीर्घविधानाद्दीर्घस्य ह्रस्वस्य वा दीर्घो विशेषाभावातस्मादित्वमेव तद्धितेन प्रत्याय्यते। अथ वा सन्याहत्य विहितस्य विकारस्य ग्रहणं तदाह - अभ्यासस्य चेकारस्येति। सर्वशेष इति । न केवलं तस्यैवापि तु पूर्वयोरपि द्वयोरित्यर्थः। तेन क्वचिन्न भवतीति। अर्थान्तरवृत्तिभ्यो दात्वन्तरेभ्य इत्यर्थः। एतच्च'पूर्ववत्सनः' इत्यत्रोपपादितम्। मानयतीत्यादयश्चुरादिण्यन्ताः। निशान इति ण्यन्तादेव पचाद्यच्। मानेर्जिज्ञासायामिति। यद्येवम्, ज्ञानार्थवृतेर्मानेरुतरसूत्रेणैव सन् सिद्धः? सत्यम्, दीर्घविघानार्थ वचनमिडभावार्थ च। बधेर्वैरुप्ये इति। चितस्य दुर्गन्धाद्यनुभवनिमितो विकारो वैरूप्यम्। शानेनिंशाने इति। निशानमुतीक्ष्णीकरणम्, यत्रैवायं पठितः'शान तेजने' इति तत्रैवेत्यर्थः॥