लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्

3-1-24 लुपसदचरजपजभदहदशगॄभ्यः भावगर्हायाम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः यङ् नित्यं

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लुप सद चर जप जभ दह दश ग इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ् प्रत्ययो भवति। गर्हितं लुम्पति, लोलुप्यते। एवं सासद्यते। चञ्चूर्यते। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। निजेगिल्यते। भावगर्हायामिति किम् ? साधु जपति। भावग्रहणं किम् ? साधनगर्हायां मा भूत् — मन्त्रं जपति वृषलः। नित्यग्रहणं विषयनियमार्थमनुवर्तते। एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति॥

Siddhanta Kaumudi

Up

एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्॥ लुप्लृ च्छेदनेऽ,'षद्लृ विशरणगत्यवसादनेषु' । ठाङ्ः सदिः पद्यर्थेऽ इत्यस्य तु चोरादिकणिजन्तस्य एकाच इत्यस्यानुवृतेरग्रहणम्।'चर गत्यर्थः' 'जप जल्प व्यक्तायां वाचि' 'जभी जृभी गात्रविनामे' 'दह भस्मीकरणे' ,'दन्श दशने' । अनुनासिकलोपनिर्देशो यङ्लुक्यप्यनुनासिकलोपार्थ - दन्दशीतीति।'गृ निगरणे' तुदादिः,'गृ शब्दे' र्क्यादिः, तत्राकारान्तविकरणेन साहचर्यादाद्यस्य ग्रहणमित्येके। द्वयोरपीत्यपरे। धात्वर्थगर्हायामिति। भावशब्दो धात्वर्थे वर्तत इति दर्शयति। गर्हितमिति क्रियाविशेषणम्, तेन भावगर्हाऽत्र गम्यते। गर्हितत्वं तु छेदनस्य, निषिद्धतृणादिविषयत्वात्,'लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः' इति एवमुतरत्रापि यथासम्भवं गर्हितत्वं भेदेन द्रष्टव्यम्। चञ्चूर्यते इति।'चरफलोश्च' इति नुक्, ठुत्परस्यातःऽ,'हलि च' इति दीर्घः। जञ्जप्यते इत्यादौ'जपजभदहदशभञ्जपशां च' इति नुक्। निजेगिल्यत इति। ठृत इद्धातोःऽ, रपरत्वम्, द्विर्वचनम्, अभ्यासस्य गुणः, जेगिर्य इति स्थिते'ग्रो यङ्' ईति लत्वं च प्राप्नोति,'हलि च' इति दीर्घश्च, तत्र दीर्घस्यासिद्धत्वाल्लत्वे कृते विहतनिमितत्वाद्दीर्घाभावः। अन्ये तु'न मु ने' इत्यत्र नेति योगविभागेनासिद्धत्वं बाधित्वा दीर्घे कृते लत्वामिच्छन्ति, नात्राप्तवाक्यमस्ति। गर्हायामिति किमिति। भावस्येत्येव तद्धर्मविशेषो लप्स्यते इति प्रश्नः। धर्मविशेषानुपादाने प्रशंसायामपि स्यादित्याह - साधु जपतीति। जपति वृषलो मन्त्रमिति। अत्र स्वरवर्णादिभ्रेषाभावाद्भावगर्हा नास्ति। वैदिकमन्त्रजपं प्रति शूद्रस्यानधिकारातु साधनभावे गर्हितः, यस्य खल्वीद्दशी गतिः -'शूद्रस्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्, उच्चारणे जिह्वाच्छेदः धारणे शरीरभेदः' इति नासौ जपितुमर्हति। नित्यग्रहणमित्यादि। पूर्ववदेतद्व्याख्येयम्॥