स्यतासी लृलुटोः

3-1-33 स्यतासी लृलुटोः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः

Sampurna sutra

Up

स्य-तासी लृ-लुटोः

Neelesh Sanskrit Brief

Up

लृट् लकारे लृङ्लकारे वा परे धातोः परः 'स्य' विकरणप्रत्ययः आगच्छति । लुट्-लकारे परे धातोः परः तास् -विकरणप्रत्ययः आगच्छति ।

Neelesh English Brief

Up

In case of लृट् लकार and लृङ्लकार, the अङ्ग gets the विकरणप्रत्यय 'स्य'. In case of लुट्लकार, the अङ्ग gets the विकरणप्रत्यय तास्.

Kashika

Up

लृरूपमुत्सृष्टानुबन्धं सामान्यमेकमेव, तस्मिन् लुटि च परतो धातोर्यथासंख्यं स्यतासी प्रत्ययौ भवतः। करिष्यति। अकरिष्यत्। श्वः कर्ता। इदित्करणमनुनासिकलोपप्रतिबन्धार्थम्। मन्ता। संगन्ता॥

Siddhanta Kaumudi

Up

लृ इति लृङ्लृटोर्ग्रहणम् । धातोः स्यतासी एतौ स्तो लृलुटोः परतः । शबाद्यपवादः ॥

Laghu Siddhanta Kaumudi

Up

धातोः स्यतासी एतौ प्रत्ययौ स्तो लृलुटोः परतः। शबाद्यपवादः। ऌ इति ऌङॢटोर्ग्रहणम्॥

Neelesh Sanskrit Detailed

Up

अस्मिन् सूत्रे प्रयुक्तः 'लृ' अयम् शब्दः लृट्लकारस्य तथा लृङ्लकारस्य - उभयोः निर्देशं करोति । एतयोः लकारयोः विषये अनेन सूत्रेण अङ्गस्य (धातोः) 'स्य' अयम् विकरणः विधीयते । तथा च, 'लुट्'लकारस्य विषये अनेन सूत्रेण अङ्गस्य (धातोः) 'तास्' अयम् विकरणः विधीयते । यथा, पठ्-धातोः एतेषु त्रिषु लकारेषु प्रथमपुरुषैकवचनस्य रूपाणि एतादृशानि सिद्ध्यन्ति - 1. पठ् + लृट् [<<लृट् शेषे च>> 3.3.13 इति लृट्] → पठ् + स्य + लृट् [<<स्यतासी लृलुटोः>> 3.1.33 इति स्य-विकरणप्रत्ययः] → पठ् + इ + स्य + लृट् [<<आर्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + स्य + तिप् [<<तिप्तस्...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → पठिष्यति [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] 2. पठ् + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> 3.3.139 इति लृङ्] → अट् + पठ् + लृङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + पठ् + स्य + लृङ् [<<स्यतासी लृलुटोः>> 3.1.33 इति स्य-विकरणप्रत्ययः → अ + पठ् + इ + स्य + लृङ् [<<आर्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → अ + पठ् + इ + स्य + तिप् [<<तिप्तस्...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + पठ् + इ + स्य + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अपठिष्यत् [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] 3. पठ् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → पठ् + तास् + लुट् [<<स्यतासी लृलुटोः>> 3.1.33 इति तास्-विकरणप्रत्ययः] → पठ् + तास् + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → पठ् + इ + तास् + तिप् [<<आर्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + तास् + डा [<<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति डा-आदेशः] → पठ् + इ + त् + आ [<<टेः>> 6.4.129 इति डित्वसामर्थ्यात् भसंज्ञां विना अपि अङ्गस्य टि-संज्ञकस्य (आस्-इत्यस्य) लोपः] → पठिता ज्ञातव्यम् - 1. सूत्रे प्रयुक्तः 'तासी' शब्दः 'तासि' इत्यस्य प्रथमा-द्विवचनमस्ति । अतः लुट्-लकारस्य विषये अस्मिन् सूत्रे मूलरूपेण निर्दिष्टम् विकरणम् 'तासि' इति अस्ति । परन्तु अत्र इकारः केवलमुच्चारणार्थः अस्ति, अतः 'तास्' इत्येव विकरणप्रत्ययः प्रयुज्यते । 2. कौमुद्यां दीक्षितः वदति - 'स्य तथा तास् - एतौ विकरणौ <<कर्तरि शप्>> 3.1.68 इत्यस्य अपवादरूपेण आगच्छतः । एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिबादेशम् कृत्वा ततः विकरणप्रत्ययः आगच्छतीति स्मर्तव्यम् ।

Balamanorama

Up

<<स्यतासी लृलुटोः>> - भू-तीति स्थितेकर्तरि शबि॑ति शपि प्राप्ते — स्यतासी लृ । स्यश्च तासिश्चेति द्वन्द्वात्प्रथमाद्विवचनम् । तासेरिकार उच्चारणार्थः । लृ लुट् अनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । ग्रहणमिति । लृस्वरूपस्योभयत्राऽविशिष्टत्वादिति भावः । धातोरित्यधिकृतम् । तदाह — धातोरिति ।

Padamanjari

Up

स्यतासी लृलुटोः॥ इह यद्यपि'लृ' इत्यनुकरणमुच्चारितमेकमेव, तथापि तस्य प्रतिपाद्यभूतमनुकार्थं भिद्यते - लृट्, लृङ् इति। यत्र च प्रतिपाद्यानां संख्यांसाम्यं तत्र संख्यातानुदेशः, न तूच्वारितरूपसाम्ये; अन्यथा परस्मैपदानामित्येकं णलादयस्तु नवेति वैषम्यान्त स्यात्। तथा डारौरसः प्रथमस्येत्यत्रापि न स्यात्। तदेवम्'लृ' इत्यस्य द्वे प्रतिपाद्ये, लुटिति चापरमिति त्रीणि निमितानि, निमितिनौ तु द्वाविति वैषम्यात्संख्यातानुदेशो न प्राप्नोतीत्यत्राह - लॄऊपमुत्सृष्टानुबन्ध सामान्यमेकमेवेति। नात्र प्रतिपाद्यं भिद्यते यतदुभयानुगतमुत्सृष्टानुबन्धम्'लृ' इति सामान्यरूपं तदनुक्रियते। एतच्च लृलुटोरिति द्विवचन निर्देशादवसीयते, तत्रयथानुकरणे न भेदस्तथानुकार्येऽपीत्यर्थः। करिष्यतीति। ठृद्धनोः स्येऽ इतीट्। श्वः कर्तेति।'श्वः' इत्यस्योपन्यासस्तृजन्तशङ्कानिवृत्यर्थः। इदित्करणमिति। इत्संज्ञकस्येकारस्य करणमित्यर्थः। अनुनासिकलोपप्रतिषेधार्थमिति। अन्यथा मन्तास् आ इति स्थिते टिलोपे कृते नकार उपधेत्यात्मनेपदे ङिति परतः ठनिदिताम्ऽ इति नलोपः प्राप्नोति, तस्य ठनिदिताम्ऽ इतीदित्वनिबन्धनः प्रतिषेधो यथा स्यादित्यर्थः। मन्ता, सङ्गन्तेति। कोऽर्थः? मन्तेत्येतत्पदं सङ्गन्तं भविष्यतीत्यर्थः, न तु सङ्गन्तेत्येतदुदाहरणम्; अनोपधत्वात्। अनुस्वारपरसवर्णयोः कृतयोरपि तयोरसिद्धत्वादनोपध एव। अन्ये त्वाहुः - यद्यसिद्धत्वात्सङ्गन्तेत्येतदनुदाहरणम्, मन्तेत्येतदपि उदाहरणं न भवति, अत्रापि टिलोपस्याभीयस्यासिद्धत्वाद् मन्तास् आ इति स्थिते नकार उपधा न भवतीति। यदि मतम् - आ भाच्छास्त्रीयमसिद्धत्वमनित्यम्,'श्नसोरल्लोपः' इति तपरकरणात्? तद्ध्यास्तामासन्नित्यादौ मा भूदित्येवमर्थम्, तत्राटोऽसिद्धत्वादेव लोपो न भविष्यति, किं तन्निवृत्यर्थेन तपरत्वेन! तज्ज्ञापयति - असिद्धत्वमनित्यमिति। तेन देभतुर्देअभुरित्यत्र'श्रन्थिग्रन्थिदम्भिस्वञ्जिनाम्' इति लिटः कित्वान्नलोपे तस्यासिद्धत्वाभावादेत्वाभ्यासलोपौ भवतः, तदत्र टिलोपस्यासिद्धत्वान्मन्त आ इति स्थिते उपधैव नकार इत्युदाहरणमिति। यद्येवम्, पूर्वत्रासिद्धीयमसिद्धत्वमप्यनित्यम्'न मु ने' इत्यत्र नेति योगविभागात्, तथा चैकादेशस्वरोऽन्तरङ्गः सिद्धो भवति, सिज्लोप एकादेशे सिद्धो भवति, निष्ठादेशः षत्वादिषु सिद्धो भवति, द्विर्वचनविषये च पूर्वत्रासिद्धीयं न भवति, ततश्चानुस्वारपरसवर्णयोः सिद्धत्वात् सङ्गन्तेत्येतदप्युदाहरणमेवेति। अन्ये तु संहन्तेति पठन्ति, हन्तेः'भावकर्मणोः' इत्यात्मनेपदम्, तत्र सम्पूर्वस्य पाठे प्रयोजनं मृग्यम्। एवं तावज्जयादित्येनासिद्धत्वमनित्यमाश्रित्य'तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थम्' इत्युक्तम्। वामनस्तु टिलोपस्य सिद्धत्वादेव नलोपो न भविष्यतीति मन्यमानः ठिदितोओऽ इत्यत्र वक्ष्यति -'तासि सिचोरिदित्कार्य नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ।ल्ते' इति। यदि तु तासेरिकारोऽनुबन्धः स्याततो नुम्विधौ धातोस्तासेर्मा भूदित्येवमर्थं स्यात्, ततश्चधातूपदेशावस्थायामेव नुम् भवतीत्ययमर्थो न साधितः स्यादिति तस्याभिप्रायः। जयादित्यस्तु'नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्व्यर्थम्' इति वचनमेव शरणमशिश्रयत्। इह विकरणाः केचन लकारोपादानेन विधीयन्ते, यथा - -स्यादयः, ते किं लावस्थायामेव भवन्ति ? उताहो आदेशेषु कृतेषु? यदि लावस्थायामेव, ततस्तास्यनुदातेदित्यत्र यद्वक्ष्यते - तासेः परस्य लसार्वधातुकस्यानुदातवचनं ज्ञापकम्, सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इत्यस्यार्थस्येति, तन्नोपपद्यते; लावस्थायामेव तासौ कृते तस्य च प्रत्ययाद्यौदातत्वे पश्चाल्लादेशेषु क्रियमाणेषु तेषामेव स्वरः सतिशिष्टो भवति, ततश्चानुदातवचनमप्राप्तविधिरेव स्यात्। तत्र को दोषः? चिनुतः चिन्वन्तिः, चिन्वन्ति; क्रीणीतः, क्रीणन्ति, सतिशिष्टो विकरणस्वर एव प्राप्नोति, द्वितीये तु पक्षे पूर्व तिबादयः पश्चातासिरिति तस्यैव स्वरः सतिशिष्टः, ततश्च निघातस्वरेणैव सार्वधातुकानुदातत्वे सिद्धे तासिग्रहणं क्रियमाणमुक्ता र्थस्य ज्ञापकं सम्पद्यते। अस्तु तर्हि तथा। यद्येवम्, धातुमात्रात्सार्वधातुकमात्रे भावकर्मणोर्यक् कर्तरि तु शब्विधीयत इति यक्शपावुत्सर्गौ तेष्वेवार्थेषु धातुमात्रात्सार्वधातुकविशेषे स्यादय इति तेऽपवादाः? तथा दिवादेर्धातुविशेषात्कर्तरि श्यनादयः शपोऽपवादाः, तत्र देविष्यति तनिष्यतीत्यादावुभयप्रसङ्गेऽपवादविप्रतिषेधात् श्यनादयः स्युः? पक्षान्तरे त्वन्तरङ्गाः स्यादय एव सिद्ध्यन्ति? नैष दोषः;'दिवादिभ्यः श्यन्' इत्यादिषु स्यादयोऽनुवर्तिष्यन्ते - दिवादिभ्यः श्यन् भवति, लृलुटोस्तु स्यतासी भवतो दिवादिभ्य इति। एवं सर्वत्र। एतेनैतदपि निरस्तं यत्खल्विदमाशंक्यते - परेण लावस्थायां विधीयमानाः स्यादयः किमिति सार्वधातुकोत्पतिं प्रतीक्षन्त इति, कथम्? उतरत्रानुवृतेरेव, सार्वधातुके यग्भवति, भावकर्मणोर्लृ लुटोस्तु स्यतासी भवतः सार्वधातुके। एवं सिजादिष्वपि द्रष्टव्यम्। तदेवमादेशेषु कृतेषु स्यादय इति स्थितम्॥