सुखादिभ्यः कर्तृवेदनायाम्

3-1-18 सुखादिभ्यः कर्तृवेदनायाम् प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच् क्यङ् कर्मणः करणे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मग्रहणमनुवर्तते। सुख इत्येवमादिभ्यः कर्मभ्यो वेदनायामर्थेऽनुभवे क्यङ् प्रत्ययो भवति, वेदयितुश्चेत् कर्तुः संबन्धीनि सुखादीनि भवन्ति। सुखं वेदयते, सुखायते। दुःखायते। कर्तृग्रहणं किम्? सुखं वेदयते प्रसाधको देवदत्तस्य॥ सुख। दुःख। तृप्त। गहन। कृच्छ्र। अस्र। अलीक। प्रतीप। करुण। कृपण। सोढ। सुखादिः॥

Siddhanta Kaumudi

Up

सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेवचेत्सुखादीनि स्युः । सुखं वेदयते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सुखादिभ्यः कर्तृवेदनायाम्>> - सुखादिभ्यः ।कर्मणो रोमन्थे॑त्यतः कर्मग्रहणाऽनुवृतिंत मत्वा आह — एभ्यः कर्मभ्य इति । वेदनायामिति । ज्ञाने इत्यर्थः । कर्तृत्वं च वेदनां प्रत्येव विवक्षितम्, उपस्थितत्वात् । वेदनाकर्तृवृत्तिवाचिभ्यः सुखादिशब्देभ्य इति लभ्यते । फलितमाह — वेदनाकर्तुरेव चेदिति । सुखं वेदयते इति । जानातीत्यर्थः ।विद चेतनाया॑मिति चुरादौ ।

Padamanjari

Up

सुखादिभ्यः कर्तृवेदनायाम्॥ वेदनायामिति।'विद चेतनाख्याननिवासेषु' इत्यस्माच्चुरादिण्यन्ताद्भावे'ण्यासश्रन्थो युच्' ,'घट्टिवन्दिविदिभ्यश्च' इत्यौपसंख्यानिको वा। वेदनायामर्थेऽनुभव इति। प्रत्यक्षज्ञानमुअनुभवः। यद्यपि वेदनाशब्दो ज्ञानमात्रवचनस्तथापि कर्तृग्रहणेन सुखादीनि विशेष्यन्ते, कर्तृगतानां च सुखादीनां वेदनाऽनुभवरूपैवेति मत्वैवमुक्तम्। क्रियापेक्षं कर्तृत्वं वेदनासंनिधानातदपेक्षमेव विज्ञायते। कर्त्रा च सुखादीनि विशेष्यन्ते न वेदना; व्यभिचाराभावात्। सर्वैव हि वेदना वेदयितुरेव भवति, तदेतदाह - वेदयितुश्चेत्कर्तुः सुखादीति भवन्तीति। आश्रयाश्रयिभावलक्षणश्च सम्बन्धः, न जन्यजनकभावलक्षणः। एवं च कर्तृग्रहणं लुप्तषष्ठीकं पृथक्पदम्। वेदयत इति। ठा कुस्मादात्मनेपदीऽ इत्यधिकारे वेदिः पठितः। एवं च प्रत्युदाहरणे परस्मैपदपाठः प्रमादजः। प्रसाधकः उ अभ्यङ्गादेः कर्ता, संप्रसाध्यमानस्य नेत्रविकारादिना सुखमनुमानतो जानाति॥